अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1545, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिबृंहितम् । ११९ असंततेश्चाव्यतिकरः ॥ ४९ ॥ ननु देहस्यापि बाल्यकौमारादिभेदात् कथं कर्मकाले ब्राह्मणत्वादि, जीवैक्यादिति चेद् देहान्तरेऽपि स्यादिति, तन्नाह देहान्तरे संततिरपि नास्ति। बाल्यादिभेदे पुनः संततिरेका। अतः संततिभेदान्न कर्मणां सांकर्यमिति ॥ ४९ ॥ आभास एव च ॥ ५० ॥ ननु सच्चिदानन्दस्य ब्रह्मणोऽंशः सच्चिदानन्द एव भवेदतः कथं प्रवाहे प्रवेशो भगवतश्च सर्वकार्याणि तत्राह आभास एव जीवः । आनन्दांशस्य भाष्यप्रकाशः। असंततेश्चाव्यतिकरः ॥ ४९ ॥ सूत्रमवतारयन्ति नन्वित्यादि । यदत्र देहसंबन्धेन विधिनिषेधव्यवस्थापनं तदयुक्तम् । यस्मिन्जन्मनि यो देहो गृहीतस्तस्य देहस्यापि नित्यप्रलयेन बाल्यकौमारादिभेदादाधानादिकर्मकाले तस्य देहस्याभावेन ब्राह्मणत्वादिकं कथं वक्तव्यम्, तदभावे च, 'वसन्ते ब्राह्मण आदधीत', 'न ब्राह्मणं हिंस्यात्' इत्यादिविधिनिषेधव्यवस्था दुरुपपादा। अतः कर्मव्याकुलत्वमसमाधेयम्। अथ जीवैक्यान्नानुपपत्तिरित्युच्यते चेत् तस्य देहान्तरेऽपि तुल्यत्वात् तस्याप्याधाना