भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1546, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1546

१४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० १६ सू० ५० तिरोहितत्वात् । चकारादाकारस्याप्यभावः । न तु सर्वथा प्रतिबिम्बवन्मिथ्यात्वं जलचन्द्रवदित्येकस्यानेकत्वे दृष्टान्तः । तथा सत्यध्यासभङ्गः क्व न स्यात् । तत्र वृष्ट्यादिदोषप्रसङ्गश्च । अतो न मिथ्यात्वरूप आभासोत्र विवक्षितः ॥ ५० ॥ भाष्यप्रकाशः। जडरूपाणि कार्याणि भगवत एवोपादेयानीत्यपि कथमित्यर्थः । कार्येऽप्यंशत्वस्य सत्त्वेन प्रसङ्गा- देतदुक्तम् । समाधिं व्याकुर्वन्ति आभास इत्यादि । आकारस्येति चतुर्भुजादिरूपस्य भगवदाकारस्य । तथाच यथाऽनाचारी ब्राह्मणो ब्राह्मणाभासः, सूत्रधारकत्वेऽपि ब्राह्मण्या- रूपदेवतायास्ततस्तिरोहितत्वात् तथा जीवोऽपि एवं जडेऽपि ज्ञेयम्। मायावादिभिर्हि जल- सूर्यकादिवद् ब्रह्मप्रतिबिम्बरूप आभासः स्वीक्रियते, तदसङ्गतत्वान्निषेधन्ति