अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1547, कुल 2600 में से
संदर्भ में पढ़ेंअदृष्टानियमात् ॥ ५१ ॥ ईशित्वाय नैयायिकाद्यभिमतं जीवरूपं निराकरोति । नानात्मानो व्यवस्थात इति भोगव्यवस्थया जीवनानात्वमङ्गीकृतम् । तत्रादृष्टस्य नियामकत्वं तन्मते सिद्धम् । देशान्तरवस्तुत्पत्त्यन्यथानुपपत्त्या व्यापकत्वं चाङ्गीकृतम् । एवं क्रियमाणे मूल एव कुठारः स्यात् । सर्वेषामेव जीवानामेकशरीर- संबन्धात् कस्यादृष्टं तद् भवेत् । नच मिथ्याज्ञानेन व्यवस्था । तत्रापि तथा । नचानुपपत्त्या परिकल्पनम् । श्रुत्यैबोपपत्तेः । एतेन विरोधाद् ऋषिप्रामाण्यमपि निराकृतम् ॥ ५१ ॥ भाष्यप्रकाशः । अदृष्टानियमात् ॥ ५१ ॥ सूत्रप्रयोजनमाहुः ईशित्वायेत्यादि, ईशो नियामको- ऽस्यान्योऽस्तीती शित्वायत्यर्थः । ननु जीवस्य ईश्वरनियम्यत्वं नैयायिकादिभिरप्यङ्गीक्रियत एवेति कुतस्तदर्थं तन्मतनिराकरणमित्याकाङ्क्षायां तत्र तदनुपपत्तिबोधनाय तन्मतमनुवदन्ति नानेत्यादि । तत्रेति भोगव्यवस्थायाम् । सिद्धमिति कार्यमात्रं प्रति जीवादृष्टस्य कारणत्वाङ्गी- कारात् सिद्धम् । देशान्तरेत्यादि सामग्रीसमवधाने हि कार्यमुत्पद्यते । तत्र सामग्रीमध्ये अदृष्टमपि प्रविष्टमिति देशान्तरे यद्भोगार्थं यद्वस्तूत्पद्यते तत्र तददृष्टमवश्यं वक्तव्यम्, अदृष्टं चात्मसमवेतं गुणत्वात्, अतस्तत्रात्माभावे तद्वस्तूत्पत्त्यभाव इति तदन्यथानुपपत्त्या तस्मिन् देशे तददृष्टवदात्मसत्ताऽवश्यकीति तेषां व्यापकत्वमङ्गीकृतमित्यर्थः । एवमनूद्य दूषयन्ति एवं चे- त्यादि । भोगव्यवस्थयैतत्सर्वाङ्गीकारे जीवनानात्वव्यापकत्वसाधनहेतुभूतायां भोगव्यवस्थायामेव तच्छेदकदूषणपात इत्यर्थः । अत्र हेतुमाहुः सर्वेषामित्यादि । मिथ्याज्ञानेनेति शरीरेऽह- मित्यभिमानेन । तत्रापि तथेति । सर्वेषामेकस्मिन् शरीरे संबन्धतौल्ये कथमेकस्यैवात्मनोऽह- ममेत्यभिमानः । विरोधादिति श्रुतिविरोधात् । तथाचाभिमानकारणस्य निर्वक्तुमशक्यत्वे रश्मिः । भाष्यमपेक्षितमत आहुः मिथ्यात्वमिति । स्वरूपमिति रूपव्याख्यानं न विग्रहघटकम् । अत्र 'ऋतेऽर्थं यत्प्रतीयेत' इति भागवतोक्तमायापक्षो नास्ति । तस्य लक्ष्मणभट्टात्मजवल्लभ विरचित- त्वेनाधिदैविकमतत्वात् । अस्य वेदव्यासमतानुवर्तितवल्लभाचार्यमतत्वेनाधिभौतिकत्वात् । एतेनापरितोषे श्रीभागवतकरणात् । निबन्ध आध्यात्मिकमतं विष्णुस्वामिमतानुवर्तितवल्लभाचार्यविरचितत्वात् । यमुना- ष्टकादि तु स्वमतं निर्गुणं युक्त्या परमार्थस्तत्प्रतिपादकं मुख्यं च । स्नानाद्वा तु मुख्यत्व- मित्यभियुक्तोक्तेः । इति श्रीवल्लभाचार्यविरचितं यमुनाष्टकं संपूर्णमितीतित्रीकथनात् ॥ ५० ॥ अदृष्टानियमात् ॥ ५१ ॥ ईश इति । अन्य इति न विग्रहघटकं किंतु नियामके ईशार्थेऽन्यत्वमात्रमावेदयेत् । मूलं प्रपञ्चयन्ति स्म भोगव्यवस्थेत्यादिना । एवे- त्यादि विवृण्वन्ति स्म तच्छेदकेति । मूलभूतभोगव्यवस्थाच्छेदककुठारस्थानीयदूषणपात इत्यर्थः । एवकारेण नानात्वव्यापकत्वदूषणव्यवच्छेदः । सर्वेषामित्यादीति । यथा वियति विहङ्गम इति दृष्टान्तः । 'आकाशवत्सर्वगतश्च नित्यः' इति वाक्यात् । एकशरीरं विह- 1437