भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1548, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1548

अभिसंध्यादिष्वपि चैवम् ॥ ५२ ॥ ननु मनःप्रभृतीनां नियामकत्वात् तेषामीश्वरेच्छया नियतत्वान्न दोष इति चेन्न । पूर्ववदेव दोषप्रसक्तिः । तादृशेश्वरकल्पना च पूर्वमेव निराकृता ॥५२॥ भाष्यप्रकाशः। तेन शरीरेण तत्तदिन्द्रियेण तत्तन्मनसा कृतं कर्म सर्वेषां संबन्धतौल्यात् सर्वकृतं सत् सर्वेषामेव तद्भोजकादृष्टं जनयत् सर्वेषां तद्वस्तुभोगाय स्यात्, एवं सर्वत्रेति भोगव्यवस्थाभङ्गान्न तथा जीवनानात्वव्यापकत्वयोः सिद्धिरित्यर्थः ॥ ५१ ॥ अभिसंध्यादिष्वपि चैवम् ॥ ५२ ॥ विलक्षणमनःसंयोगेनाऽदृष्टव्यवस्थामाशङ्क्य परिहरतीत्याशयेन सूत्रमुपन्यस्य व्याकुर्वन्ति नन्वित्यादि । ननु विलक्षणसंयोगोत्पादकानां मनःप्रभृतीनामभिमाननियामकत्वात् तेषां चेश्वरेच्छया नियतत्वान्नादृष्टानियमदोष इति चेन्न । कुतः । अभिसंध