भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1549, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1549

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४३

प्रदेशादिति चेन्नान्तर्भावात् ॥ ५३ ॥ आत्मनो विभुत्वेऽपि प्रदेशभेदेन व्यवस्था । आत्मनि तादृशः प्रदेश- विशेषोऽस्ति येन सर्वमुपपद्यत इति चेन्न । अन्यस्यापि प्रदेशस्तत्रान्तर्भवति । तस्यैव वा देहस्य देशान्तरगमने पूर्वदेशस्य त्यक्तत्वात् सोऽशोऽन्तर्भवेत् तिरोभवेदिति ॥ ५३ ॥ इति द्वितीयाध्याये तृतीयपादे अंशो नानाव्यपदेशादिति षोडशमधिकरणम् ॥ १६ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये द्वितीयाध्यायस्य तृतीयः पादः ॥ २ ॥ ३ ॥

भाष्यप्रकाशः । प्रदेशादिति चेन्नान्तर्भावात् ॥ ५३ ॥ आत्मनां विभुत्वेपि प्रदेशभेदाङ्गीकारेण दोषसमाधिमाशङ्क्य परिहरतीत्याहुः आत्मन इत्यादि । अन्यस्येत्यादि । तथाच पूर्ववदेव दोषप्रसक्तिरित्यर्थः । नन्वन्यस्य प्रदेशे स विशेषो नास्तीत्यदोष इत्यत आहुः तस्यैवेत्यादि । सोऽश इति । विशेषत्वेनाङ्गीक्रियमाणो विशेषणांशः, देशान्तरे तस्य प्रदेशस्याभावात् तत् आत्मनस्तिरोहितो भवेत् ततश्च तस्य भोगस्यासंभव इति न प्रकृतसिद्धिरित्यर्थः । शंकराचार्यमते जीवो ब्रह्मैव, उपाधिभेदादेव भेद इत्यंशत्वमौपचारिकम् । तन्मतं तु प्रागेवासकृन्निरस्तम् । किंच । अविद्याभ्रान्तं ब्रह्मैव जीव इति । यथा संक्षेपशारीरके । 'आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला' इति । क्वचिदविद्यावच्छिन्नं चैतन्यं जीव इति । क्वचिद् अविद्यायां प्रतिबिम्बितं चैतन्यं, क्वचिद् अन्तःकरणे प्रतिबिम्बितं, क्वचिद् अङ्गुल्यादिसंपर्काच्चन्द्रादिद्वैताभासवदविद्यातो ब्रह्मण्यानेकवदाभासमानं द्वित्वादिसंख्यायोगि

रश्मिः । प्रदेशादिति चेन्नान्तर्भावात् ॥ ५३ ॥ आत्मन इत्यादीति । भाष्यत्वाय खोक्तं वर्णयन्ति स्म आत्मनीति । तादृश इति तच्छब्दार्थ आत्मा दृश्ये यत्र तादृशः प्रदेशः दिशा- माकाशे ब्रह्मशरीरेऽन्तर्भूतानां संबन्धी देशः प्रदेशस्तस्य विशेषोऽतादृशात् । उपपद्यत इति 'आकाशो ह वै नामरूपयोर्निर्वहिता' इति श्रुतेरुपपद्यते । अन्यस्येत्यादीति । अन्यस्याकाशस्य 'आकाशशरीरं ब्रह्म' 'आकाशवत्सर्वगतश्च नित्यः' इति श्रुतिस्मृतिभ्याम् । दोषेति आत्मनो नामरूपे । शरीरभूताकाशस्य नामरूपे इति द्वित्वदोषप्रसक्तिः । स विशेष इति आत्मवैशिष्ट्यरूप- विशेषः । तस्यैवेत्यादीति एवकारेणान्यदेहव्यवच्छेदः क्रियते । सोऽश इतीति सोऽशः अन्तर्भवेदिति स्मार्तः प्रयोगः सूर्यनारायणप्रयोगो वा । विशेषणेति तादृशः प्रदेशविशेषोऽस्तीति भाष्ये प्रदेशविशेषनिष्ठा सत्तेति बोधात्तथा । तत् इति तदनन्तरम् । आत्मनः पूर्वदेशस्तिरोभवेत् । तस्येति पूर्वदेशस्य । न प्रकृतेति प्रकृतं सर्वोपपत्तिरूपं वस्तु । उपाधीति बुद्धिभेदात् । प्रागे- वेति दहराधिकरणादौ । भ्रान्तमिति जीवोपाधिभूताऽविद्या तमोरूपया यो भ्रमो जीवत्वाभाववति जीवत्वप्रकारकं ज्ञानं तद्विषयं ब्रह्म जीव एवेत्यत्र ब्रह्म जीव एवेति योजना । संक्षेपेति ग्रन्थान्तरमिदम् । आश्रयत्वेति कारिकार्थ एकादशाक्षरी जातिः । क्वचिदिति । तत्त्वानुसं- धाने ग्रन्थे । क्वचिदिति वेदान्तपरिभाषायाम् । क्वचिदिति उक्तग्रन्थान्तरे । क्वचिदिति शंकर-

1439