अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1550, कुल 2600 में से
संदर्भ में पढ़ें१४४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १६ सू० ५३ भाष्यप्रकाशः । जीवपदवाच्यमिति । तत्तद्भाष्यवस्थादोषोऽपि । एते च सर्वेऽपि पक्षा विद्वन्मण्डने दूषिताः । मया च तट्टिप्पणे सम्यग्विवेचिता इति, नेह पुनर्द्दूष्यन्ते । भास्कराचार्यास्तु—सौत्रोऽंशशब्द उपाध्यवच्छिन्नस्यानन्यभूतस्य वाचकः । तथाच यथा आकाशस्य पार्थिवाधिष्ठानावच्छिन्नं कर्णच्छिद्रं, यथा च वायोः पञ्चवृत्तिः प्राणो, यथा च मनसः कामादयो वृत्तयस्तथा ब्रह्मणो जीवः । स च ब्रह्मणो भिन्नाभिन्नः । तत्राऽभिन्नत्वं स्वाभाविकं, भिन्नत्वमौपाधिकम् । निरवयवस्य ब्रह्मणोंऽशाङ्गीकारस्तु विस्फुलिङ्गदृष्टान्तश्रुते- रित्याहुः । तत्रांशत्वं तु युक्तं भिन्नाभिन्नत्वं च । श्रौतत्वात् । भिन्नत्वस्यौपाधिकत्वं त्वसंगतम् । श्रौतदृष्टान्तविरोधात् । पादोऽस्येति मन्त्रवर्णस्य च विरोधात् । मन्त्रवर्णसूत्रविरोधात्, श्रुतौ पुरा- णेषु च श्रोत्रेन्द्रियस्य दिग्देवताकत्वेनातिरिक्तस्यैव सिद्धत्वात् तस्य चाभासत्वादरेण दृष्टान्तस्या- प्ययुक्तत्वात् ।