अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1552, कुल 2600 में से
संदर्भ में पढ़ें१४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० १६ सू० ५३ भाष्यप्रकाशः। भास्करं मतं चोपन्यस्य स्रष्टृत्वसृज्यत्वनियम्यत्वनियामकत्वादिरूपोभयथाव्यपदेशात् तत्तन्मत्सा- दावभेदेन व्यपदेशाच्च जीवो ब्रह्मणोऽंशः । नच भेदव्यपदेशानां प्रसिद्धार्थत्वेनान्यथासिद्धत्वं शङ्क्यम् । ब्रह्मसृज्यत्वतन्नियम्यत्वतच्छरीरत्वादीनां प्रत्यक्षाद्यप्रसिद्धार्थानां कथनेन सिद्धसं भेद- स्यान्यथासिद्धताया वक्तुमशक्यत्वात् । अत एव जगत्सृष्ट्यादिवादिनीनामपि, न मिथ्यार्थोपदे- शपरत्वमपीत्येवं पूर्वं दूषितमपि शांकरं भास्करं च मतं संक्षेपेण दूषयित्वा, ततः, 'प्रकाशादिव- नैवं परः' इति सूत्रे प्रकाशादिवज्जीवः परमात्मनोऽंशः, यथा भास्तोऽग्न्यादेर्भारूपः प्रकाशोंऽशो भवति । यथा गवाश्वादीनां गोत्वादिविशिष्टानां गोत्वादिकं विशेषणमंशः । यथा वा देहिनो देवमनुष्यादेर्देहोऽशस्तद्वत् । अंशत्वं चैकवस्त्वेकदेशत्वम् । अतो विशिष्टस्यैकस्य वस्तुनो विशेषणमंश एव, तथाच विवेचका विशिष्टे वस्तुनि विशेषणांशोऽयं विशेष्यांशोऽयमिति व्यपदिशन्ति, विशेषणविशेष्ययोरंशांशित्वेपि स्वभाववैलक्षण्यं दृश्यते, एवं जीवपरयोर्विशेषण- विशेष्ययोरंशांशित्वं स्वभावभेदश्वोपपद्यते । तदिदमुच्यते नैवं पर इति । एवंच जीवपरयो- र्विशेषणविशेष्यत्वकृतं स्वभाववैलक्षण्यमादाय भेदनिर्देशाः प्रवर्तन्ते अभेदनिर्देशास्तु पृथक्- स्थित्यनर्हविशेषणानां विशेष्यपर्यन्तत्वमादाय मुख्यत्वेनोपपद्यन्त इति व्याचक्षुः । शैवास्तु—'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । अस्यावयवभूतेन व्याप्तं सर्वमिदं जगत्' ॥ इति श्वेताश्वतरश्रुतिमुपन्यस्य प्रकृतिविशिष्टस्य ब्रह्मणोऽशो जीव इत्याहु । अंशत्वं च पूर्ववद् आह । अत्रापि सिद्धान्तादियान् भेदः । एतैर्विशेषणविशेष्ययोर्भेदस्तयोः स्वभावभेदश्च नैसर्गिक एवाङ्गीक्रियते । सिद्धान्ते तु 'प्रजायेय' प्रतीच्छाहेतुकः । नैसर्गिकपक्षेऽपि विरुद्धधर्माधारत्वात् सामर्थ्यादेव नैकत्वादिविरोध इति शुद्धाद्वैतं निरवद्यम् । अतो ये वादा यानि च दर्शनानि तानि सर्वाण्येत्येकदेशावलम्बीनीति बोध्यम् । माध्वास्तु—अंशान् द्विविधान् वदन्ति । केचिदभिन्नाः करचरणादिवत्, केचिद्भिन्नाः पुत्रादिवत् । तत्राद्या मत्स्याद्यवताराः । द्वितीया जीवाः । वनमालिदासस्तु—तद्भिन्नत्वे सति तत्सदृशत्वमंशत्वम् । यथा चन्द्रमण्डलाच्छतांशो गुरुमण्डल इति भिन्नांशस्वरूपमाह । रश्मिः। किंचन' इति श्रुतिः । व्यपदेशादिति 'अंशो नानाव्यपदेशात्' इति सूत्रस्य व्यपदेशानुवादोऽयम् । अंश इति सूत्रस्थांशपदानुवादोयम् । अन्यथेति श्रुतिभिन्नप्रकारेण सिद्धम् । ब्रह्मसृज्येत्या- यन्तर्यामिब्राह्मणे । आदिनान्तरत्त्वावेधत्वे । प्रत्यक्षादीति आदिनानुमानम् । अशक्येति । अनधिगतार्थगन्तृत्वप्रामाण्यासन्दिग्द्वेदबोधितत्वेन । सृष्ट्यादीति भेदनिवन्धनानाम् । अपीति व्यावहारिकसत्तासमयेऽपि । विशिष्ट इति माख्यानभिरित्यादौ । पूर्वमिति । .................... ............विशेष्येति । 'प्रकाशाश्रयवद्वा' इति न्यायेन । शैव इति भगवान् । मायामिति मायाशब्देनाचित् । मायिशब्देन चिदचिद्विशिष्टम् । अवयवभूतेन चिद्वस्तुना । पूर्ववदिति रामा- नुजमतवत् । विशेषणेति चिदचिद्विशिष्ट ईश्वर इत्यत्र । शुद्धाद्वैतमिति इदं द्वेधा भवति । यदा सर्वं ब्रह्मातिरिक्तं माया, भेदा वा सर्वं ब्रह्मातिरिक्तं कार्यं मन्वेति । अत इति शास्त्रा- र्थीयसर्वप्रकरणानुरोधेन सर्वक्रोडीकरणात् । एतदिति स्वमार्गीयांशांशिभावेकदेशावलम्बीनि । 1442