अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1553, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १४७ भाष्यप्रकाशः। तेन प्राचीनमाध्वमते राश्येकदेशत्वमंशत्वं फलति । वनमालिमते तु सादृश्याल्पत्व- बोधनार्थत्वादौपचारिकमंशत्वं फलति 'प्रकाशादिवन्नैवं परः' इति सूत्रव्याख्याने च, यथा तेजोऽशयोः कालाग्निखद्योतयोर्जलांशयोरमृतसमुद्रमूत्रयोः पृथिव्यंशयोर्मेरुपुरीषयोस्तत्तदंशत्वा- विशेपेऽपि यथा नैकप्रकारता, किंतु सदसत्तया विवेकस्तथा मत्स्यादीनां रूपांशानां भिन्नांशानां जीवानां च, एवं चांशत्वे तुल्येऽपि कालाग्नितेजसोरभिमानिदेवैक्यं खद्योतं चाभिमानिभेद इति तत्कृतं वैलक्षण्यमित्याहुः । अत्रेदभवधेयम् । सूत्रे, 'नैवं परः' इत्यनेन यत्प्रकारको जीवस्तत्प्रकारकत्वं परस्मिन्निषिध्यते प्रकाशादिदृष्टान्तेन । भवद्भिस्तु परस्वरूपविचारेण रूपांशानां तथात्व