भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1554, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1554

१४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० १६ सू० ४३ भाष्यप्रकाशः। नैसर्गिक भेदे अवान्तरसृष्टाविवादिसृष्टावपि पूर्वमीश्वरे जीवानां पिण्डीभाव एव वाच्यो, न त्वैक्यम् । तथा सति तेषां भिन्नत्वेन, 'बहु स्याम्' 'नामरूपे व्याकरवाणि' इत्याद्युक्तं स्वस्य बहुभवनं नामरूपव्याकर्तृत्वमुत्तमपुरुषप्रयोगश्चोपपद्येत । अभिमानित्वे जीवतौल्यं चापद्येतेति । प्रकृतमनुसरामः ॥ स्मृतौ सूत्रे चांशशब्द उक्तः, श्रुतौ च पादशब्दः । उभावप्यनेका- र्थत्वात् संदिग्धौ । अंशशब्दस्तावदवयवे पुत्रे खण्डे विशिष्टवस्त्वेकदेशे राश्येकदेशे च प्रसिद्धः । श्रुतौ तु पश्यापि परंपरया, 'अर्धो वा एष आत्मनो यत् पत्नीः' इति । 'स आत्मानमेव द्वेधापातयत् ततः पतिश्च पत्नीचाभवतां तदेतदर्धं वृगलमिव' इति तथा अर्धत्वकथनादर्धशब्दस्य च कोशे 'पुंस्यर्धोऽर्धं समेंऽशके' इत्यंशविशेषे शक्तेः । पादशब्दोऽप्यवयव एकदेशे च । अवयवे तु प्रसिद्धः । एकदेशे तु 'विश्वो वैश्वानरः प्रथमः पादः' इति । यद्यप्येतेषु यस्य कस्याप्यर्थस्य ग्रहणे लक्षणादोषसंसर्गो न भवति, तथापि श्रुतावुर्णनाभतन्तून्मोरमिविस्फुलिङ्गयोश्च दृष्टान्तकथनात् तदनुकूल एवांशंशिभावो ग्राह्यः । तथा सति खण्डावयवादिरूपस्तन्नित्यत्वादिनोधकथ्रुत्यनु- रोधादविकृतस्वरूप एवांशः सिद्ध्यति, न नित्यभिन्नः केवलविशेषणरूपो वा । प्रलयदशायाम- विभागेन पिण्डीभाव ऐक्ये वा शिष्टत्वेनैव सत्त्वात् तदालिङ्गितस्य ब्रह्मणः स्वस्मिन्नहमितरभिन्न इति प्रतीतेरर्थसिद्धत्वात् सृष्टिप्राक्काले 'बहु स्याम्' इत्येकत्वबुद्धिपूर्वकस्य संकल्पस्य पीडाप्रसङ्गात् । रश्मिः। श्रुतयस्तु 'तत्त्वमसि' इत्यवताराभेदबोधिका । 'सत्यं भिदा ३ सत्यो जीवः ३ इति जीवेशयोर्भेदै । 'ज्ञाज्ञौ द्वावजावीशनीशौ' इति च । अनीशशब्दाकारलोपः । आदिना स्मृतयः । तास्तु 'कृष्णस्तु भगवान्स्वयम्' इत्यभेदे । 'जीवा भिन्नाः परो भिन्नस्तथापि ज्ञानरूपतः । प्रोच्यते ब्रह्मरूपेण वेदवादेषु सर्वशः' इति । 'परमात्मा जगद्रूपी' इत्यादिश्च । अस्मादिति । भेदस्य तद्घटकस्याचिन्त्यानेक- विरुद्धधर्मत्वे मायिकत्व इवार्थत्वे च प्रवेशरूपया । अभेदस्य च भक्तिकारणत्वेन प्रवेशरूपया । 'नृप त्वात्मैव वल्लभः' इति वाक्यात् । 'भजनस्यैव सिद्ध्यर्थं तत्त्वमस्यादिकं तथा' इति वाक्याच्च । भेदाभेदोपपत्तेः । पिण्डीभाव इति । सिकतायां तैजसानां पिण्डीभाववत् । उत्तमति स्यामि- त्युत्तमपुरुषप्रयोगश्च जीवानां भिन्नानां बहुभवनेनोपपद्येत । अभीति जीवरूप्यभिमानित्वे । परमिति ईक्षाविशिष्टस्वेच्छेत्येवंपारंपरया । पुरुषविधब्राह्मणे । पत्नीरिति पत्नीत्यपि पाठः । 'हलन्त्याब्भ्यो दीर्घात्' इति सूत्रात् । स इति ईक्षाविशिष्ट इच्छावान् । पत्नीश्वेति । पत्नी- चेत्यपि पाठः । अर्धेति अर्धखण्डितमिव । तस्या इति पत्न्याः । न चार्धनारीश्वरत्वं शङ्क्यम् । तम ग्लानौ तम अम्बिकाहायामेतयोरेकतराभावेन तत्त्वसाशक्यवचनत्वान्किंतु 'यथा स्त्री- पुमांसौ संपरिष्वक्तौ' इत्यस्यां श्रुतौ 'स इममेवात्मानम्' इति श्रुतेः पूर्वस्यां स्त्री जगत् पुमान् ईक्षाविशिष्ट इच्छावानिति कार्धनारीश्वरप्राप्तिः । तथा च यथा स्त्रीपुमांसावित्यस्याः पूर्वं श्रुतिः । 'स द्वितीयमैच्छत्' 'स हैतावानास' इति । एतावान्स्मीपतरवर्ती प्रपञ्चः । लक्षणेति । 'अंशो नाना- व्यपदेशात्' इति सूत्रेऽंशपदे । तन्नित्यत्वेति । 'अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा' इति श्रुतिः । आदिना 'यथाग्नेः क्षुद्रा विस्फुलिङ्गाः' इति श्रुतिरंशत्वबोधिका । केवलति जीवरूपव्यभिमानी- श्वर इत्यत्र । अर्थेति अर्थ आक्षेपः, अन्यथानुपपत्तिरिति यावत्, तत्सिद्धत्वादित्यर्थः । 1444