भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1562, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1562

१५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० १ सू० २ भाष्यप्रकाशः। भवस्तस्मात् । अत्र तथेति पूर्वस्मादनुवर्तते । एवमग्रेऽपि । तेन बुद्धिस्थहेतुशुद्ध्यर्थानि चत्वा- र्यग्रिमाणि सूत्राणीति फलति । असंभवं व्युत्पादयन्ति एकैवेत्यादि । स यदाऽस्मादित्यत्र द्वितीया । उत्क्रामतीति श्रुतिस्तु सर्वेषां सहभावं विधातुं पूर्वामेवोत्क्रान्तिमनुवदत्यतः पूर्वो- क्तैकैव श्रुतिर्जीवे मुख्या प्राणेषु गौणीति युगपद्वृत्तिद्वयविरोधान्न संभवतीति न तासामतिदेश- कत्वहानिरित्यर्थः । एतेनैव जीवे गौणी, प्राणेषु मुख्येति वदन्त एकदेशिनोऽपि प्रत्युक्ताः । वैरूप्यस्य तौल्यादिति बोध्यम् ॥ २ ॥ रश्मिः। असंभवादिति व्याख्यातम्, पूर्वपक्षसूत्रत्वात् । इह तु सिद्धान्तसूत्रत्वात्समासेन व्याकुर्वन्ति स्म गौण्या इति। तेने