भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1563, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1563

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५७ तत्प्राक्श्रुतेश्च ॥ ३ ॥ जडत्वेनाधिकविचारोऽत्र क्रियते । सृष्टेः पूर्वमपि प्राणादीनां स्थितिः श्रूयते 'असद् वा इदमग्र आसीत् तदाहुः, किं तदसदासीदित्यृषयो वा व तेऽग्रे असदासीत् तदाहुः, के ते ऋषयः, प्राणा वा ऋषयः' इति । ननु 'सदेव सोम्ये- दमग्र आसीदेकमेवाद्वितीयम्' इति विरोध इति चेत् । न । स्वरूपोत्पत्तिरेवात्र भाष्यप्रकाशः। तत्प्राक्श्रुतेश्च ॥ ३ ॥ अत्रापि तथेत्यनुवर्तते । सूत्रप्रयोजनमाहुः जडत्वेनेत्यादि । जडानां भूतानां चिरस्थायित्वदर्शनात्तावतैव प्राणानामप्युत्क्रान्त्यादिः संभाव्यत इति तदभा- वाय प्राणानां नित्यत्वविचारः क्रियत इत्यर्थः । तमेवाहुः सृष्टेरित्यादि । श्रुतिस्तु वाजिनाम- ग्रिप्रकरणस्था । अत्र प्राणा