अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1565, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १४९ तस्यापि संपत्तिः श्रूयते स्थलान्तरे । 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति श्रुतिर्विस्फुलिङ्गसदृशी ॥ ३ ॥ तत्पूर्वकत्वाद् वाचः ॥ ४ ॥ 'मनः पूर्वरूपं वागुत्तररूपम्' इति । 'तस्य यजुरेव शिर' इति । तथाच भाष्यप्रकाशः। एतस्मादित्यादि। तथा च विस्फुलिङ्गवाक्ये यथा व्युच्चरणं तथाऽत्र प्रादुर्भाव इति तत्सादृश्यम्। स्वरूपोत्पत्तेरपि विभागानन्तरभावित्वात् खाद्युत्पत्तेरपि न विरोधोऽतो न तस्या अपि पीडेत्यर्थः । विसर्गस्यापि विभागरूपत्वादयमेव न्यायः स प्राणमसृजतेत्यत्रापि द्रष्टव्यः । एतेन श्रुत्यविरोधप्रतिपादनरूपत्वादध्यायसंगतिरपि स्मारिता ज्ञेया ॥ ३ ॥ तत्पूर्वकत्वाद्वाचः ॥ ४ ॥ ननु सृष्ट्यादौ प्राणस्थितिश्रुतेरवान्तरप्रलये प्रागवस्थितप्रजापति- प्राणसत्ताप्रतिपादनेनाऽप्युपपद्यमानत्वान्न तथा प्राणनित्यत्वसिद्धिरिति शङ्कायामिदं सूत्रमाहेत्या- शयेन व्याकुर्वन्ति मन इत्यादि। पूर्वया श्रुत्या मनोवाचोः पूर्वोत्तरभावेऽन्यया च मनोमयस्य रश्मिः। तस्मात्प्राणा इत्यादिः श्रुतिः । प्रादुरिति जनी प्रादुर्भाव इति धातुपाठादिति भावः । तत्सादृश्यं जीवसादृश्यम् । विभागानन्तरभावित्वेन सादृश्यमाहुः स्वरूपेति अनिले जननरूपा । जीवे नित्ये परिच्छिन्ने समागमरूपाऽपिना गृह्यते । श्वादीति आदिना तादृशोऽन्यः । न पीति स्वरूपोत्पत्तित्वं स्त्रीपुंसयोरन्वयवत् सद्योऽविभागेपीति न विरोधः । एकदेशविकृतस्यानन्यत्वात् । विसर्गस्येति । 'विसर्गः पौरुषः स्मृतः' अपिशब्देन सर्गोऽपि । सर्गः कारणतत्त्वजन्मदो विभागः । तद्धेतूरुषविभागो विसर्गः । अयमिति विभागन्यायो व्युच्चरणरूपः । मध्वपादो संयोगन्यायः । मृत्पिण्डविभागस्यान्यथासिद्धत्वम्। 'इमामगृभ्णन्रशनामृतस्य' इत्यलौकिकं नान्यथा सिद्धं गर्दभरशनाग्रहणम् । स प्राणमिति । तथा च विस्फुलिङ्गवाक्ये यथा व्युच्चरणं तथाऽत्र विसर्ग इति तत्सादृश्यमिति भावः । द्रष्टव्य इति । मनोऽग्रे वाच्यम् । श्रुत्यपीति । असद्वा इदमित्यादीनां सदेव सोम्येत्यादिश्रुतीनां चाविरोधेत्यादिः । 'यतो वा इमानि भूतानि जायन्ते' इत्यादिश्रुत्यविरोधेत्यादिर्वा । अध्यायेति प्रथमाध्यायेनाविरोधाध्यायस्य हेतुतासंगतिः प्रसङ्गो वेत्यर्थः । सदसत्त्वरूपविरुद्धधर्माश्रयत्वं प्राणेऽपु न तु सति प्राणे जगज्जन्मादिकर्तृत्वस्यातिव्याप्ति- रिति जन्माद्यधिकरणानिरोध इति । तेन न तृतीयपदार्थेऽसावातिव्याप्तिः ॥ ३ ॥ तत्पूर्वकत्वाद्वाचः ॥ ४ ॥ पूर्वसूत्रसंगत्या भाभासमाहुः प्राणेति । तथा च तथा- शब्दार्थसादृश्येऽसतो वैगुण्यमिलतिदेशकसद्भावरूपो हेतुरांशतः स्वरूपासिद्ध इति भावः । वाग्मनो- रूपप्राणयोर्नित्यत्वेन स्वरूपासिद्धयभावः फलिष्यति । अतो हेतुः शुद्धः । प्राणेन्द्रियेषु मनो मुख्यं वाक् नित्या वैयाकरणानामपीति मुख्यत्वात्ताभ्यां रूपाभ्यां प्रथमं निरूपणं कृतम् । आहेति तथा च भूयोघर्मान्तर्गतनित्यत्वं प्राणेपु पूर्वसूत्रोक्तमाश्रितं तेन च मनोवाचोर्नित्यत्वमाश्रिस- प्रायमेव मनस्त्वनिन्द्रियत्वपक्षेपि तेन च सादृश्यविरहात्सादृश्यार्थं पूर्वसूत्रज्ञेयोयमधिकविचार इति भावः । पूर्वयेति उक्तश्रुतिपूर्वया श्रुत्या । अन्यथेति अर्थक्रमवशेन । ऋक्सूक्तैः ॐ वेदः । इत्यार्थक्रमापेक्षा । एकरसत्वेन पूर्वोत्तरभावान्यन्याभावाभावात् । ततश्च मनोमयलक्षणमनः- १. रश्मौवाणीति प्रतीकम्स्ति । 1455