अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1566, कुल 2600 में से
संदर्भ में पढ़ें१६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० १ सू० ४-५ वेदानां स्वत उत्पत्त्यभावात् तत्पूर्वरूपमनसः कथमुत्पत्तिः ॥ ४ ॥ सप्तगतेर्विशेषितत्वाच्च ॥ ५ ॥ 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्राम- न्ति' इति । इति पूर्वोक्तानां चक्षुरादीनाम्, 'अथारूपज्ञो भवतीत्येकीभवति न भाष्यप्रकाशः । वेदात्मकत्वे बोधिते मनोवाचोर्वृत्तिभेदादेव भेदो, न तु स्वरूपत इति सिद्धौ, निश्वसित- श्रुत्या, वाचा विरूप नित्ययेति श्रुत्या च वेदानां निश्वासरूपतया नित्यतया च स्वरूपत उत्पत्त्य- भावादुद्गममात्रमेव । तथा सति तत्पूर्वरूपस्य मनसः कथमुत्पत्तिः संभवति । तस्मान्न तस्याप्यु- त्पत्तिः किंतुद्गममात्रमेवातस्तयोर्नित्यत्वसिद्धिरित्यर्थः । नन्वेवं भगवन्मनोवाचोर्नित्यत्वे जैवानां कथं नित्यत्वसिद्धिरिति चेद् उच्यते । तद्व्यष्टित्वात् सिद्धिरिति । अत एवाग्रे 'श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि सर्वाणि निश्वसितानि' इत्युक्तम् । इदमेव चैकाद- शस्कन्धे 'स एष जीवो विवरप्रसूतिः' इत्यादिश्लोकत्रये स्फुटम् । अत एवाचार्यैरपि निबन्धे । 'अस्मदादिमुखेनापि क्रीडार्थं सर्वतो हरिः । शब्दभेदं वितनुते रूपेष्विव विनिश्चयः' ॥ इत्युक्तम् ॥ ४ ॥ सप्तगतेर्विशेषितत्वाच्च ॥ ५ ॥ एवं प्राणमनोवाक्त्वतिदेशिकाया उपपत्तेः सिद्धावपि चक्षुरादिषु न सा स्फुटेत्यतस्तदर्थं हेत्वन्तरं वदतीत्याशयेन व्याकुर्वन्ति तमित्यादि । एवाभ्यां रश्मिः । प्रचुरत्वाभावाच्चात्र ओङ्काररूपाया मनोमयत्वाभावे न श्रुतिविरोधः । अन्त्येनेति पाठे बोधित इत्य- नेनान्वयः । श्रुत्या बोधित इति पूर्वपाठेऽन्वयः । वृत्तीति । एवकारस्तु पूर्वोत्तरभावबोधकमाध्व- श्रुत्या 'एकादशामी मनसो हि वृत्तयः' । 'वाचोभिधायिनी नाम्नाम्' इति वाग्व्यापारोभिधा । एवेति श्रुतिमतत्वात् । संभवतीति । एतच्च प्रथमस्य तृतीये तदुपर्यपीत्यधिकरणे शब्द इति चेन्नातः प्रभवादिसूत्रेषु ह्युपपादितम् । तथा च स्वरूपलक्षणे सत्यं मनः 'तस्मात्केनाप्युपायेन' इति वाक्यात् । 'तन्मनोऽकुरुत' इति बृहदारण्यकाच्च । ज्ञानं ब्रह्म 'ज्ञानमात्रं परं ब्रह्म' इति वाक्यात् । गीतोक्तं ज्ञानं स्वयंप्रकाशं गोकुलाष्टके स्पष्टम् । तदुक्तमात्मबोधोपनिषदि । 'अनन्तं वाक्' । 'अनन्ता वै वेदा' इति श्रुतेः । एवेति । स्वरूपलक्षणे प्रयोक्तेः । एवकारेण जननरूपो- त्पत्तिर्व्यवच्छिद्यते । तयोर्मनोवाचोः । वैदिक्यां शब्दसृष्टौ नित्यत्वमुपपाद्य तद्विभागायां रूपसृष्टावपि प्रसङ्गात्कर्ता शास्त्रार्थवत्त्वादित्यधिकरणोक्तरीत्या जैवानां पृच्छति नन्वेवमित्यादिना । यतो व्यष्टित्वे- नाविद्वद्दशायामपि न भेदोतोऽग्रे मैत्रेयीति ब्राह्मणे उभयपरत्वेन श्लोका इत्यादिः । स्फुटमिति । जीवयतीति जीवः परमेश्वर इति श्रीधरं व्याख्यानम् । रूपेष्विति रूपेषु भेदमिव ॥ ४ ॥ सप्तगतेर्विशेषितत्वाच्च ॥ ५ ॥ एवं प्राणेति । प्राणत्वं सामान्यं मनस्त्वं वाक्त्वं च विशेषजातिः । अतिदेशिकाया इति अतिदेशकत्वं तथाशब्दस्य सौत्रस्योक्तम् । व्यापारस्या- नैकविधत्वेनोत्क्रान्त्यादिवाक्यचक्षुष्टत्त्वेरप्यतिदेशकत्वम् । 'तथा प्राणः' इति सूत्रभाष्यीयसर्वो- पपत्तिपदव्याख्याने व्याकृतोपपत्तिः । स्फुटेति गतसूत्रे प्राणनित्यत्वमाश्रित्य प्राणमनोवाक्षु प्रसाधितम्, अन्येषु विशेषरूपेण चक्षुरादिप्राणेषु न प्रसाधितेत्यस्फुटा । हेत्वन्तरमिति । प्राणः 1456