भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1567, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1567

पश्यतीत्याहुः' इत्यादिभिर्जीवगतिः सप्तानां गतिभिर्विशेष्यते । सप्तगतयस्तेन विशेषिता एकीभवतीति । अतो जीवसमानयोगक्षेमत्वाज्जीववत्तुल्यतेति । भाष्यप्रकाशः। वाक्याभ्याम् । अथारूपज्ञ इत्यादिषु पूर्ववाक्येषूक्तानां चक्षुरादीनां सप्तानां मुख्यप्राणगत्युत्तरं गतिरुच्यते । सा सप्तगतिः । यद्यपि पूर्ववाक्येष्वष्टावुक्तास्तथापि मनोबुद्ध्योर्हृदिभेदोऽन्तःकरण- त्वेनैक्यमतः सप्तत्वमिति सप्तगतिः । किं च 'तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वा' इत्यादिना उत्तरवाक्येन वक्ष्यमाणा या जीवगतिः सा, अथारूपज्ञ इत्यादिषु पूर्ववाक्येषु सप्तानां गतिभिर्विशेष्यते एकीभवतीति सप्तगतयो वा तेन जीवगमनेन विशेषिता एकी- भवतीति विशेषितत्वम् । अतः अनश्वरभावस्याजन्यत्वेन तथेत्यर्थः । चकारसूचितं हेत्वन्तर- रश्मिः। अतिदिष्टधर्मवान्, अतिदेशकसद्भावात्, प्रकृतिवद्विकृतिः कर्तव्येतिवत् । इत्यत्र हेतावतिदिष्टधर्मेषु चक्षुरादिचेतनतुल्यत्वमस्फुटमित्यप्रसिद्धातिदेशकसौत्रतथापदैकदेशतः स्वरूपासिद्धिरतो हेत्वन्तरं सूत्र- रूपं वदतीत्यर्थः । वाक्याभ्यामिति 'एकतिङ् वाक्यम्' इति वाक्यलक्षणम् । श्रुतयः शारीरक- ब्राह्मणस्थाः । इत्यादिष्विति । 'अथारूपज्ञो भवत्येकीभवति न पश्यतीत्याहुरेकीभवति न जिघ्रतीत्याहुरेकीभवति न रसयतीत्याहुरेकीभवति न वदतीत्याहुरेकीभवति न शृणोतीत्याहुरेकीभवति न मनुत इत्याहुरेकीभवति न स्पृशतीत्याहुरेकीभवति न विजानातीत्याहुः' इत्येतासु । मनो- बुद्ध्योरिति । न विजानातीत्याहुरित्यरूपां अथाज्ञानज्ञो भवतीति पूर्वानुसारेण संभवादुद्विलाभः । वृत्तीति । एकस्या मननात्मिका द्वितीयस्याः विज्ञानात्मिका । न मनुते न विजानातीति श्रुतिभ्याम् । उत्तरेति एकार्थीभावाद्रेफमाश्रित्य णत्वम् । वक्ष्यमाणेत्यत्र टिड्ढाणञित्यनेन ङीप्भावः स्त्रीप्रत्यये सिद्धान्तकौमुद्यां साधितः । गतिभिरिति निरुक्ताभिः । विशेष्यत इति सप्तगतिवाक्यानां तस्य हैतस्येति महावाक्यस्य च या हेतुतासंगतिस्तत्रोपसंहारं जैवमुक्त्योच्यते तस्य हैतस्येत्युक्तक्रम- व्यापार इति हेतुता तथा विशेष्यविशेषणीभावः । तथाहि । तस्य लिङ्गोपाधिकस्य ह एतस्य प्रकृत- सोपसंहृतकरणस्य मुमूर्षोर्हृदयस्याग्रं हृदयाग्रं नाडीमुखं प्रद्योतते स्वप्न इव चैतन्यज्योतिषा, प्राप्यदेहविषयबुद्धिवृत्त्यात्मना प्रकाशते तेन प्रद्योतेन प्रद्योतित एष लिङ्गोपाधिक आत्मा निष्क्रामति निर्गच्छतीत्ययं जैवमुपसंहारमपेक्षते यत इति । कथं विशेष्यत इत्यत आहुः एकीभवतीति । चाक्षुषैक्यवानरूपज्ञः शारीर आत्मैवेनं विशेष्यत इति भावः । 'स यत्रैष चाक्षुषः पराङ् पर्यावर्ततेऽ- थारूपज्ञो भवत्येकीभवति' इति श्रुतेः । सप्तेति भाष्यं विवृण्वन्ति स्म सप्तेति । चेत्यवधारणे । अत्र पूर्वं जीवगतिः सप्तानां गतिभिर्विशेष्यते विशेष्यं क्रियत इति भाष्ये उक्तम् । एवं च विशेष्यपरा- मर्शकस्तच्छब्दस्तथा च भाष्ये तेनेत्यस्य विशेष्येणेत्यर्थः । तदाहुर्जीवगमनेनेति विशेष्यानुकूलं पदम् । तेनेति सामान्ये नपुंसकं वा । जीवगत्येत्यर्थः । विशेषिता इति विशेषणं विशेषः तदिताः । तारकादिभ्य इतच् । तारकादिराकृतिगणः । विशेष्यन्ते विशेषणीक्रियन्त इति विशेषिताः कर्मणि क्तः । यद्यपि विशेष्यत इति विशेषः क्रियत इत्येवार्थस्तथापि विशेषो विशेष्यरूपो विशेषण- रूपो वेत्यविशेषः । एकीभवतीति प्राणैक्यवान् शारीर आत्मन्येकीभावः । न जिघ्रतीत्या- हुरेकीभवतीत्याद्युक्तश्रुतिभ्यः । एतदेवाहुः विशेषितत्वमिति प्राणैक्येन शारीरात्मनो विशे- षितत्वं । शारीर आत्मा विशेष्यत इति कर्मणि क्तः । अत इति भाष्यं विवृण्वन्ति स्म अत इति । ३१ ब्र० सू० २० | 1457