अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1572, कुल 2600 में से
संदर्भ में पढ़ेंअधिकसंख्याऽन्तःकरणभेदादिति । एकादशैवेन्द्रियाणीति स्थितम् ॥ ६ ॥ इति द्वितीयाध्याये चतुर्थपादे द्वितीयं हस्ताद्यित्यधिकरणम् ॥ भाष्यप्रकाशः। द्वारमात्रसूचनयेत्येवं संभवाभिप्रायः । संभवन्ति ह्येकादशसंख्यायामेताः संख्या इत्यभिप्रायः । चतुर्दशसंख्या त्वन्तःकरणस्य चतुर्विधत्वात् तदभिप्रायः । तथाचैतज्ज्ञापनं प्रयोजनमित्यर्थः । तर्ह्येकादशैवेति कथं निर्णय इत्यत आहुः एकादशेत्यादि । गीतायां क्षेत्रकथने, 'ऋषिभि- र्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः' इत्युक्त्वा, 'महाभू- तान्यहंकारो बुद्धिरव्यक्तमेव च' इत्यहंकारादीन् भिन्नतयोक्त्वा, 'इन्द्रियाणि दशैकं च' इति कथनाद् ब्रह्मसूत्रपदैष्वेकादशैवेन्द्रियाणीति निर्णीतमित्यर्थः । नच पञ्च कर्मेन्द्रियाणि, पञ्च ज्ञानेन्द्रियाणीति दश