भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1577, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1577

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १७१

भाष्यप्रकाशः । गुणव्याप्त्या वेति बोधितम् । मोक्षे च तेषामपि तत्संपत्तिरिति च बोधितम् । नन्वेतेषां को वा गुणो यो बहिः प्रसरतीति वक्तव्यम् । यदि न वक्तुं शक्यते तर्हि मिथ्यैवायमुद्यम इतिचेन्न । चक्षुर्मनोवाचां तेजोमयदेवताधिष्ठितत्वात् तदंशत्वाच्च रूपमेवेति वदामः । 'तेजोमयीवाग्' इति श्रुतेश्च । त्वचस्तु स्पर्श एव । अथवा । 'यन्न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः' इति षष्ठस्कन्धे नारदकृत उपदेशे मनःप्रभृतीनां ब्रह्मकर्मकस्पर्शज्ञानयोर्निषेधमुखेन तेषु स्पर्शज्ञानयो- रङ्गीकारात् स्पर्श एव सर्वत्र यथोचितो भवतु । नच तस्य प्रत्यक्षापत्तिः शङ्क्या । अणुगुणत्वेना- तीन्द्रियतया कार्यैकानुमेयत्वात् । इन्द्रियाणां प्राप्यप्रकाशकारित्वस्य नियतत्वादिति । यत् पुनः

रश्मिः । श्रुतविरोध उक्तः । 'मनसैवानुद्रष्टव्यम्' इति श्रुत्या चन्द्रदेवताकत्वेन मनसो नानाकिरणशालिन ईक्षत्यधिकरणभाष्योक्तप्रकारेण कामवर्जितातिशुद्धस्य दूरगमनं ब्रह्मपर्यन्तगमनम् । तथा वाचां दूरगमनं वीचीतरङ्गन्यायेन प्रसिद्धम् । त्वचः सर्वशरीरव्याप्तित्त्वाच्चप्रत्यक्षे । सामर्थ्येन वेति देवता- सामर्थ्येन । तथा प्राण इत्यधिकरणे प्राणे जीवधर्मातिदेशस्य सिद्धान्ताङ्गीकारात्सर्वशरीरे जीवचैतन्येनेव । वाकारद्वयार्थः क्वचित्पूर्वतन्त्रे प्रसिद्धः । 'सेवायां वा कथायां वा' इतिवत् । मोक्ष इत्यादि । इदं च तत्प्राक्श्रुतेश्चेति सूत्रे चकारान्मोक्ष इत्यादिभाष्ये स्पष्टम् । गुणव्याप्तिं प्रपञ्चयन्ति स्म नन्वेतेषा- मित्यादिना । अयमिति अणुत्वप्रसाधनलक्षणः । तेजोमयत्वार्थं ज्योतिराद्यधिष्ठानाधिकरणेऽत्रैवाग्रे स्फुटम् । रूपमेवेति । तेजस्तन्मात्रत्वस्य तलक्षणत्वादिति भावः । एवकारेण चक्षुषः सूर्यदेवताकत्वेन तद्रश्मयो व्यवच्छिद्यन्ते । मनसस्तु कामसंकल्पादिनानावृत्तयो व्यवच्छिद्यन्ते । वाचस्तु व्यवहार- जनकत्वरूपवृत्तियर्वच्छिद्यते । प्रस्थानरत्नाकरे तु गुणादालोकवदिति सूत्रे आलोकस्य गुण- त्वाङ्गीकारात्तैजसस्य चक्षुष आलोकरूपगुणव्याप्त्याङ्गीकारेण्वदोष इत्युक्तम् । चक्षुषस्तैजसत्वस्य नैयायिकादिसकलप्रसिद्धस्य माऽपलापो हि भूत् । मनोवाचोस्त्वप्रसिद्धं मन्वानं प्रत्याहुः तेज इत्यादि । तथा च वाक्पूर्वरूपस्य मनसः कथमितैजसत्वमिति चन्द्रदेवताकस्य तैजसत्वम् । अत- स्तिसृणां रूपं तन्मात्रेति भावः । त्वच इत्यादि । त्वचो वायुदेवताकस्य स्पर्श एव बहिः प्रसरति न तु रूपं तदभावादित्यर्थः । प्रस्थानरत्नाकरे तु देवतासामर्थ्यमप्युक्तम् । लाघवेन सकलसाधारण- स्पर्शमाहुः अथवेत्यादिना । ब्रह्मकर्मकेत्यादि । वाक्यान्तर्गतयच्छब्दार्थो ब्रह्मेति भावः । निषेधेति निषेधमुखं निषेधोपायः निषेधरूपो ब्रह्मतिरिक्ते स्पर्शप्रापकोपायः । तेष्विति । मनोबुद्धीन्द्रियासुषु । स्पर्शोति ब्रह्मतिरिक्तं स्पृशन्ति विदुरिति । एवेति । स्पृशन्ति विदुरित्ये- तयोर्मनोबुद्धीन्द्रियासुकर्तृत्वेन स्पर्शज्ञानानुकूलव्यापारो मनआदिनिष्ठ इति । सर्वत्रेति । मनोबुद्धीन्द्रियासुषु स्पर्शानुकूलो व्यापारः । आकाशं स्पृशन्ति विदन्ति । एवं वायुमग्निमपः पृथिवीमोषधिमन्नं पुरुषम् । एतेभ्यः प्रयोगेभ्यः । आकाशादिषु स्पर्शज्ञाने । कर्मत्वात् । तत्रापि सूक्ष्मातरंपरयेत्यर्थः । इदमेवोक्तं यथोचितपदेन । आकाशस्य मांसरूपस्य स्पर्शः । ननु त्वग्विषयकज्ञानादौ तस्याणुप्राणादिगुणस्य स्पर्शस्य प्रत्यक्षापत्तिरित्याशङ्कामपनुदन्त आहुः न चे- त्यादि । कार्यैकेति । अणूनीन्द्रियाणि स्पर्शवन्ति । प्राप्यप्रकाशकारित्वात् । यन्नैवं तन्नैवं परोक्ष- घटवदित्यनुमेयत्वात् । कार्यं प्राप्यप्रकाशस्तद्धटिते हेतुनानुमेयत्वं कार्यैकानुमेयत्वं तस्मात् । नि- यतत्वादिति । ज्ञानेन्द्रियाणि वस्तुप्राप्यप्रकाशकारीणि । सौगतास्तु श्रोत्रस्याप्राप्यप्रकाशकारित्वं

1467