अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1578, कुल 2600 में से
संदर्भ में पढ़ें१७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ४ अ० ३ सू० ७ भाष्यप्रकाशः। सकलदेहव्यापिकार्यानुपपत्तिप्रसङ्गादणुत्वं मध्यमपरिमाणबोधकत्वेन व्याख्यातं तदप्येते- नैव निरस्तं ज्ञेयम् । ज्ञानवत्ता तु तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति भावनाव् देवता- त्वाच्च युक्तेवेति न कोऽपि शङ्कालेशः । भिक्षुस्त्वत्राणुपदेन तन्मात्राणि व्याख्याय तेषां पृथगुत्पत्ति- विचारमत्राङ्गीचकार तन्न । मैत्रेयोपनिषदि, पञ्च तन्मात्राणि भूतशब्देनोच्यन्ते । अथ रश्मिः। वदन्ति तदन्ये दूषयन्ति स्म यथाह शास्त्रदीपिकाकारः । अप्राप्यकारित्वे हि सन्निकृष्टवि- प्रकृष्टस्थितौ युगपच्छब्दमुपलभेयाताम् । तयोस्तु क्रमेणोपलब्धिर्न कथंचिदप्राप्यकारित्वे समर्थ- यितुं शक्या । तस्माच्चाप्राप्यकारित्वं श्रोत्रस्य संभवति । वृत्तेस्तु ज्ञानावस्थात्वमेवेति व्युत्पादितं प्रस्थानरत्नाकरे वृत्तिनिरूपणेन । श्रोत्रस्य शब्दो वृत्तिरिति प्राप्यकारित्वम् । न चार्तभाग- ब्राह्मणे 'श्रोत्रं वै ग्रहन्नकः शब्देनातिग्रहेण गृहीतः श्रोत्रेण शब्दान्छृणोति' इति तत्र श्रोत्रे ग्रह्णक- शब्दोऽन्येष्विन्द्रियेषु ग्रहशब्दा इत्यप्राप्यप्रकाशकारित्वमिति वाच्यम् । मैत्रेयीब्राह्मणे 'स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः' इत्यत्र बाह्यानिति शब्दरूपग्रहणकर्मविशेषणाद्वाह्येतरशब्दग्राहकतत्वेन प्राप्यकारित्वात् । न चैवमपि मनआदिमोतृत्वं वबतु मुख्यविप्रब्राह्मणे 'मन एवास्यात्मा वाग्जाया प्राणः प्रजा सौम्यं चक्षुर्मानुषं वित्तं चक्षुषा हि तद्विन्दन्ति श्रोत्रं दैव श्रोत्रेण हि तच्छृणोति' इति श्रुतेरिति शङ्क्यम् । यत्किञ्चित्सा- क्षाद्ग्रहणेन श्रोत्रस्य प्राप्यकारित्वात् । कर्मेन्द्रियेषु तु तत्तत्क्रियैव व्यापारः । 'सर्वेषामानन्दानामुपस्थ एकायनम्' इत्यादिश्रुतेः । तज्जन्या स्थूलशरीरक्रिया च फलमिति । अन्ये तु घ्राणरसनश्रवणानां द्रव्यग्राहकतवं नेच्छन्ति तन्नास्मभ्यं रोचते । तमसि रसनया दुग्धादेर्घ्राणेन चम्पकादेः, श्रवणेन भेर्यादेरनुभवस्य व्याप्तिज्ञानविधुराणामपि दर्शनात् । अत्र व्यवसायविरोधेन स्मूतिरूपत्वस्य तन्न वक्तुमशक्यत्वाच्च । न चोपनतिं भानं तदिति वाच्यम् । तथात्वे मानाभावात् । घ्राणादीनां द्रव्या- ग्राहकत्वसाम्मुषम्यैकशरणत्वादिति दिक् । तथा च सुरभि चन्दनमित्यत्रेव घ्राणादीनां द्रव्यादिग्रहणे सामान्यलक्षणाज्ञानलक्षणे प्रत्यासत्ती ज्ञेये । सिद्धान्तमुक्तावल्यां स्पष्टम् । एवं नियतत्वं तस्स बोध्यम् । व्याख्यातमिति शंकराचार्यैर्व्याख्यातम् । तथा च भाष्यम् । अणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याः । अणुत्वं चैषां सौक्ष्म्यपरिच्छेदो न परमाणुत्तुल्यत्वम् । कृत्स्नदेहव्यापिकार्या- नुपलब्धिप्रसङ्गादिति । एतेनेति पूर्वग्रन्थेनैव । एवकारस्तु पूर्वग्रन्थस्य विस्तृतत्वात् । ज्ञानेति । ननु अणुपु विषयप्रकाशनसामर्थ्यमयुक्तं संहननातिरिक्तसामर्थ्याप्रसिद्धेः परमाणुष्विवेत्याशङ्क्याहुः ज्ञानवतेति । चकारेणानुत्वसंग्रहः । तथा चेन्द्रियाणां परमाणुत्वेऽयं दोषो न त्वणुत्व इति भावः । न कोपीति । परमाणुत्व इन्द्रियाणां द्विगोलके दोरादौ मल्लविद्यायां हस्ताभ्यां चलने विष्णु- देवताकृतावच्छेदेन गतिजनकत्वं न शिल्पजनकत्वम् । पशूनां चक्षुरिन्द्रियस्य नासिकाविवरावच्छे- देनाश्विनीकुमारकृतावच्छेदेनेक्षितृत्वमपि विषयेन्द्रियसंयोगाच्च चक्षुरादौ कदेवतावच्छेदेनानन्दजनक- त्वमपि । पङ्गूनामिन्द्रदेवतावच्छेदेन तालवादनं न तु गतिजननम् । नेत्राभ्यां मित्रदेवतावच्छेदे- नाशूर्विसर्गोऽपि तथा शरीरे रोमस्वेदहर्षादिविसर्गोपि । तत्र पादादीन्द्रियाणां हस्तादि- गोलकावच्छेदेन कार्यजननमनुपपन्नम् । अयमपि शङ्कालेशो नेति कोपीत्युक्तम् ॥ सामर्थ्याद्वा गुणव्यासंवदिति । अङ्गीचकारेति । माब्वास्तु चात्र 'दिवीव चक्षुराततम्' इति 'अणुभिः पश्यति' इति श्रुति- 1468