अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1579, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १७१ श्रेष्ठश्च ॥ ८ ॥ (२-४-४) मुख्यश्च प्राणो नित्यगतिमान् अणुपरिमाणश्च । चकारादतिदेशः । नासदासीदित्यत्र, ‘आनीदवातं स्वधया तदेकम्’ इति अननात्मकस्य पूर्वसत्ता प्रदर्शिता ॥ ८ ॥ भाष्यप्रकाशः । महाभूतानि भूतशब्देनोच्यन्ते इत्युक्त्या श्रुतौ भूतपद उभयसंग्रहस्य बोधितत्वेन पूर्वपादीय- वियदाद्युत्पत्तिविचारादेव चारितार्थ्येन पृथग्विचारप्रयोजनाभावात् ॥ ७ ॥ इति तृतीयं अणवश्चेत्यधिकरणम् ॥ ३ ॥ श्रेष्ठश्च ॥ ८ ॥ इन्द्रियाणि विचार्येदानीं मुख्यप्राणं विचारयति । तत्र मुख्यप्राणनित्य- तायाः स्फुटमश्रवणात् प्रश्नोपनिषत्प्रभृतिषु, 'मा मोहमापद्यथा अहमेवैतत्पञ्चधात्मानं प्रविभज्यै- तद्बाणमवष्टभ्य विधारयामि' इत्यादिरूपे प्राणानां संवादे शरीरस्थितिहेतुतया श्रेष्ठत्वेन निर्णीत- त्वाच्च संदेहे श्रेष्ठयस्य नित्यत्वागमकत्वे मानाभावादित्य इति प्राप्ते आहेत्याशयेन व्याकुर्वन्ति मुख्य इत्यादि । मुख्यः प्राणोपि नित्यो गतिमानणुपरिमाणश्च । तत्र हेतुरतिदेशप्राप्तश्चकारादेव पूर्ववद् रूप्यते । नन्वस्य सृष्टेः पूर्वं सत्तायां किं मानमत आहुः नासदासीदित्यादि । तथाचैवं रश्मिः । विमानेन प्राणाः किं व्याप्ता उताणव इति संदेहे व्याप्ता इति पूर्वपक्षेऽणव एवेति सिद्धान्तयन्ति स्म । रामानुजास्तु त एते सर्वे समाः सर्वेऽनन्ता इत्यानन्त्यश्रावणाद्विभुत्वं प्राणानामिति प्राप्तेऽभि- धीयते । प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तीत्युत्क्रान्त्यादिश्रवणात्परिमितत्वे सिद्धे सत्यु- त्क्रान्त्यादिषु पार्श्वस्थैरनुपलभ्यमानत्वादणवश्च प्राणाः । आनन्त्यश्रुतिस्तु 'अथ यो हैताननन्तानुपास्ते' इत्युपासनश्रवणादुपास्यप्राणविशेषभूतकार्यबाहुल्याभिप्रायेति सिद्धान्तयन्ति स्म । श्रुताविति अव्यव- हितपूर्वोक्तायाम् । पूर्वेति । एवकारस्तु पञ्चतन्मात्राणां महाभूतधर्मातिदेशस्योक्तत्वात्तत्र निविष्ट- स्वातन्त्र्यमात्राज्ञाने तादृशमहाभूतरूपविशेषणाज्ञानप्रयुक्ततद्धर्मातिदेशज्ञानापत्तेः । न च तूष्णीमति- देशमुक्तमितः परं विविच्य विचार इति वाच्यम् । सूत्राभावात् ॥ ७ ॥ इति अणवश्चेत्यधिकरणम् ॥ ३ ॥ श्रेष्ठश्च ॥ ८ ॥ मुख्येति । प्राणपदस्य भाष्ये प्रियत्वाय व्यवस्थापनात् प्रियत्वेन स्तुतस्य मुख्यप्राणस्योपेक्षानर्हत्वात् प्रसङ्गसंगत्या विचारयति भगवानाचार्यः । विषयादिकमाहुः तत्रेत्यादिना । मुख्यप्राणो विषयः स नित्यो जीवधर्मवांश्चानित्यस्तद्धर्माभाववान्वेत्याकारकसंशयस्तु स्पष्ट एव । अश्रवणेति । 'एतस्माज्जायते प्राणः' इत्यत्रोत्पत्तेः प्रादुर्भावरूपत्वस्यापि शक्यवचनत्वा- त्स्फुटपदोक्तिः । प्रभृतीति । प्रभृतिपदार्थोऽग्रे स्फुटः । मा मोहमित्यादि बाणधारकत्वाय मुख्यं मन्यमान- प्राणान्प्रति प्राणवाक्यात् । बाणं देहम् । इति प्राप्त इति पूर्वपक्षे प्राप्ते । मुख्यश्चेति भाष्ये चकारोऽप्यर्थ इत्याशयेनाहुः मुख्य इति । चेति अयं समुच्चये । चकारादिति भाष्यं विवृण्वन्ति स्म तत्रेत्यादिना । हेतुरिति । सौत्रचकाराद्धेतुवाचकपञ्चम्या लुग्बोधितः । स च गतिमत्त्वेन नित्यत्वे अणुत्वमेवेति भाष्ये गतिमत्त्वं हेतुः । अतिदेशप्राप्तोऽतिदिष्टश्चकारात्तद्वाचकात् । एवेति किमत आहुः पूर्ववदिति पूर्वसूत्रवत् । तथा च पूर्वसूत्रप्रामाण्यादेवकार इति भावः । रूप्यत 1469