भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1580, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1580

१७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ४ अ० ४ सू० ९ न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥ ननु मुख्यः प्राणो वायुरेव भविष्यति, इन्द्रियाणां क्रिया वा। एवं हि श्रूयते। 'यः प्राणः स वायुः। एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानः' इति। 'सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च' इति। तन्त्रान्तरीया आ- चक्षते। तदुभयमपि न। कुतः पृथगुपदेशात् । 'एतस्माज्जायते प्राणो मनः सर्वे- भाष्यप्रकाशः। सृष्टिप्राक्काले वातरूपतानिषेधपूर्वकमानीदिति कथनाद्भगवतोऽननात्मकतो यो धर्मः स एव मुख्यः प्राण इति तेन रूपेण सत्तायां सिद्धायाम्, एतस्माज्जायते प्राण इत्यत्रापि जीववद् व्युच्चरणमेव, न तूत्पत्तिः। सदेवेति श्रुतिस्तु ततोऽपि पूर्ववृत्तान्तपरेति श्रुतिविरोधलेशस्याप्यभावादयमपि जीवसमानयोगक्षेमत्वाद्दंश एवेत्यर्थः ॥ ८ ॥ न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥ प्राणस्वरूप एव किंचिदाशङ्क्य परिहरतीत्याशय- मस्याहुः नन्वित्यादि। तन्त्रान्तरीयाः सांख्याः, सामान्येति तेषां सांख्यसप्ततौ कारिका। अर्थस्तु पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि बाह्यानि। मनोबुद्धयहंकाराख्य आन्तरः। एवं त्रयोदशविधं करणम् । तस्य त्रयोदशविधस्यापि करणस्य या साधारणी वृत्तिः प्राणाद्या प्राणनादिरूपा। भावे घञ् । सैव पञ्च वायवः प्राणादय इति व्यवह्रियन्ते इत्यर्थः। तथाचोभयो- र्मध्ये यत्किंचिदादर्त्तव्यं, न तु पृथग्विचारस्तस्य युक्त इत्याशङ्काशयः। परिहारं व्याचक्षते तदुभयमपि नेत्यादि। नन्वेवं वायोः सकाशाद्भेदोऽस्तु, इन्द्रियक्रियातः कथं भेद इत्यत रश्मिः। इति भाष्यार्थस्तु श्रेष्ठः प्राणश्चकारसूचितार्थोऽतिदेशादिति । सृष्टेरिति पञ्चम्यन्तमिदम् । नास- दिल्यादीति । नासदासीन्नो सदासीदित्यानीत् लुङन्तं, अवातं, स्वधया, तद्, एकम् । एकं तद् ब्रह्म कर्तृ, स्वधया स्वधाशब्देन अवातं अप्राणं जगत् आनीत् प्राणानुकूलभूतकालिकव्यापारवत् । अवातं प्राणयुक्तमकार्षीत् । स्वधापदेन पितृसृष्टिरुक्ता । सा च सामवेदप्राधान्यापेक्षया । 'वेदानां सामवेदोऽस्मि' इति । मनुस्मृतौ 'ऋग्वेदो देवदैवत्यः' इत्यत्र साङ्गः पितृदेवत्वमुक्तम् । स्वधा पितृदाने । वातेति 'वातः प्राणः' इति बृहदारण्यके । अननेति । भगवत्संबन्ध्यननानुकूलो व्यापार इत्यर्थादिति भावः । एतदुपपादितं प्राक् । ततोपीति । तस्य तमःपदार्थकस्य समाधिकर- णोक्तरीत्या तमःशब्दार्थादप्रच्यावनपक्षेऽवान्तरकारणपक्षे इदं बोध्यम् ॥ ८ ॥ न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥ एवेति इन्द्रियव्यवच्छेदकः । नन्वि- त्यादीति । वायुतः पार्थक्यस्यासन्दिग्धत्वेन बोधनादाहुर्मध्ये इन्द्रियाणामित्यादि । एतच्च क्वचित्प्रसिद्धम् । शंकरभाष्येपि न वायुः प्राणो नापि करणव्यापार इति । श्रूयत इति । तत्रेति । इन्द्रियाणां क्रिया वेति कोटौ स्वाभिप्रायमाचक्षत इत्यर्थः । तन्त्रान्तरीयाभिप्रायत्वात्समस्तकरणवृत्तिः प्राण इति शंकरभाष्यात् । कारिकेति । इदमुपलक्षणं सांख्यप्रवचनसूत्रस्य । सांख्यप्रवचनसूत्रवृत्ता- विदं सूत्रं प्रधानकार्याध्यायेऽस्ति । सामान्या चासौ करणवृत्तिरिति कर्मधारयं व्याचक्षते । पञ्च- बुद्धीति । ननु 'प्राणितीति प्राणः' एवमादिविग्रहेषु प्राणनादिरूपाः कथमत आहुः भाव इति । प्राणादिपदेषु । इत्याद्याशङ्केति इति भाष्यज्ञा यस्य स इत्याशङ्कः, तस्याशय इत्यर्थः । इन्द्रियत 1470