भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 158, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 158

भाष्यप्रकाशः । मेवोवाचेति न दोषः । ब्रह्म च न शरीरमात्रं, येन सृष्ट्यादिवाक्येषु वाचो धेनुत्ववत् तस्मिन् जगत्कर्तृत्वादीनामसंभवतां धर्माणामारोपापवादादिभिर्विधेयोपासनाविषयस्तावकतयोपासनाशेषता संभवन्ती गतार्थत्वानुपयोगौ दृढीकुर्यात् । किंचोपासनाविषये आत्मनि निरङ्कुशजगत्कर्तृत्वादयो ये धर्माः स्तुत्यर्थमारोप्यन्ते, ते किमत्यन्तासन्तः खपुष्पवद्, उत क्वचित् सन्तो रजतवत् । तत्राद्ये आरोप एव बाधितः । द्वितीये तु सिद्धमतिरिक्तेन ब्रह्मणा । तच्च पूर्वकाण्डे परोक्षवादत्वान्न स्फुटं प्रतिपादितमिति तत्प्रतिपादकमुत्तरकाण्डं न धर्मप्रतिपादकम् । अत्र उपासनाया धर्मत्वेऽपि नोत्तर- मीमांसाया गतार्थत्वमित्यर्थः । नन्वस्त्वेवं, तथापि सृष्ट्यादिवाक्यानां विधिमन्त्रादिरूपत्वाभावा- दर्थवादत्वमेव वक्तव्यम् । ततश्च ब्रह्मस्तावकत्वात् तेषां न स्वार्थे प्रामाण्यमिति तद्विचारशास्त्रस्य रश्मिः । मनुवृत्तिरङ्ग' इति श्लोकोक्तो धर्मः । अत एव धर्मजिज्ञासां चकार न तु कर्मजिज्ञासाम् । 'देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे' इति संहितोक्तत्वेपि निरोधलक्षणग्रन्थोक्ताधिदैविकश्रवणादिरूप- मर्यादासेवात्वेन श्रुत्यधिकारिधर्मत्वात् । यथा 'अस्त्वेवमङ्ग उपदेशपदे त्वयीशे' इत्युक्त्वा 'प्रेष्ठो भवान् तनुभृतां खलु बन्धुरात्मा' इति श्रुत्यधिकारि यद्वाक्यं तदुक्तो धर्म आधिदैविकः । तथा च यथा 'धर्मं चर' इत्याचार्योपदेशेन भक्ता अपि भगवद्वाक्यानि पूर्वपक्षयाञ्चक्रुस्तथाचार्योपदेशेन धर्मजिज्ञासां चकार । कर्मणस्तूक्तस्य सर्वानधिकारानुन्मूल्यत्वेऽपि कर्मणे न कर्मजिज्ञासा इत्युवाच । अग्रे 'कर्मैके तत्र दर्शनात्' इति सूत्रं चकार । तथा चाध्यात्मिकमेवोवाचेत्यर्थः, आध्यात्मिकस्तु 'धर्मः प्रोज्झितकैतवोऽत्र' इति वाक्यादेकादशैकोनविंशाध्यायोक्तश्रवणादिसरणिरूपो धर्मः । गतेति । ब्रह्ममीमांसा यतः । बाधिन इति । तादृशस्यादर्शनादिति भावः । अतिरिक्तनेति सद्ध- र्माश्रयस्य वक्तव्यत्वादित्यर्थः । परोक्षवादत्वादिति 'परोक्षवादो वेदोऽयम्' 'परोक्षं च मम प्रियम्' 'परोक्षप्रिया इव हि देवाः' इति वाक्यनिकुरुम्बात् । न धर्मप्रतिपादकमिति । अपूर्व- प्रतिपादकं नेत्यन्ये । सिद्धान्ते धर्मस्यैव फलपर्यन्तावस्थानोपगमात् । एतदेवाग्रे पूर्वखण्डने स्फुटी- व्यति । तथाचोक्तम्- 'किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् । एतस्या हृदयं लोके नान्यो मद्वेद कश्चन ॥ मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते ह्यहम् । एतावान् सर्ववेदार्थः शब्द आस्थाय मां भिदाम् ॥ मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति' ॥ इति नच वेदो मां स्वव्यापारावधिं कृत्वा भिदां मायामात्रमित्यनूद्य 'नेह नानास्ति किंचन' इति प्रतिषिध्य भेदं, प्रसीदति निवृत्तव्यापारो भवतीति निरुणद्धि इति वाच्यम् । सर्वसामर्थ्यस्य ब्रह्मणो मायाकृतां विपर्यस्तबुद्धिकृतां नेदं ब्रह्मकार्यमित्याकारिकां भिदामनूद्य प्रतिषेधति कार्यभावात्पूर्वं रूपं वक्तीत्येकदेशिनः । विरुद्धसर्वधर्माश्रयस्य आनन्दस्य प्रतीयमानां भिदां मायामात्रं क्रीडार्था माया या मुख्या शक्तिस्तन्मात्रं, नतु आविद्यकमित्यनूद्य प्रतिषेधति । ब्रह्मैव सर्वं, भेदो बुद्धिदोषाद्भातीति सिद्धान्तः । प्रकाशाश्रयाधिकरणे स्फुटमिदम् । न च मायाविद्ययोरेकीभाव इति सांप्रतम् । 'विद्य- याऽविद्या शक्त्या मायया च निषेवितम्' इति वाक्येन भेदावगमात् । भाष्ये । ज्ञानरूपत्वादिति