भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 159, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 159

७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ रश्मिः । क्रियारूपत्वखण्डने तात्पर्यादेवमुक्तम्, आनन्दस्यैव त्रिषु मुख्यत्वात् । न च द्वैतापत्तिः । द्वैतं हि द्वयोर्भाव उच्यते 'प्रज्ञादिभ्यश्च' इत्यणा, ब्रह्मैव सर्वमिति क्व द्वौ । न ह्येकस्मिन्द्वीपे द्वाविति प्रतीतिरस्ति । तदुक्तम्- 'कार्यकारणवस्त्वैक्यमर्शनं पटतन्तुवत् । अवस्तुत्वाद्धिकल्पस्य भावाद्वैतं तदुच्यते' ।। इति सप्तमस्कन्धे । यदपि द्वयोर्भावो द्विता तत्र भवं द्वैतं संशयरूपं ज्ञानं, द्वाभ्यामितं प्रकारद्वयेन विरु- द्धधर्माश्रिङ्गाधारवर्तिना युक्तं वस्तु द्वीतं तत्र भवं द्वैतं तदेव संशयज्ञानमिति कैयटानुरोधे लब्धैतं संशयाभावः । अतश्च ब्रह्मैव सर्वमिति निश्चय इति तदप्यविरुद्धम् । अथवा यथाश्रुतार्थः एका- दशस्कन्धे सांख्यनिरूपणे स्फुटत्वात्, भाष्ये तु स्तुत्यानन्द आनन्दमये विश्रान्त इत्यदोषः । तत्र ज्ञानं दशधा इति तृतीयसुबोधिन्यां 'अथ ते तदनुज्ञाता' इत्यत्र निरूपितम् । एतच्च ज्ञानं 'सत्यं ज्ञानमनन्तं ब्रह्म' इति श्रुतेर्ब्रह्मात्मकम् । तल्लक्षणं तु 'त्रितयं तत्र यो वेद स ह्यात्मा स्वाश्रयाश्रयः' इति वाक्ये आधिदैविकादित्रिकव्यतिरिक्तत्वे सति तत्रितयज्ञातृत्वमिति सिध्यति । स्वाश्रयश्चासौ आश्रयः इति कर्मधारय एवोद्देश्यविधेयभावात्स्वरूपकथनपूर्वकं लक्ष्यनिर्देशः, तच्च भावनयाभि- व्यज्यते 'ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः' इति श्रुतेः । जीवानार्माप अत्रैवाभिनिवेशः सजातीयत्वात् । तद्गुणोऽपि चैतन्यं तत्रैव निविशते तदविनाभूतत्वात् 'जीवस्यानु- स्मृतिः सती' इत्युत्तरार्धे तत्स्वरूपमुक्तम् । पूर्वापरानुसंधानरूपा स्मृतिश्चैतन्यमिति । व्युच्चरणात्पूर्वम- भेदेन, व्युच्चरणोत्तरमविद्यासंबन्धात्प्राक्कालवर्तिनो ज्ञानस्य सोहमिति पूर्वापरानुसंधानरूपस्यैव सिद्ध- त्वात् तत्त्वमस्याद्युपदेशोत्तरमपि तथैव प्रतिसंधानादजपायामपि तथात्वान्तादृशत्वनिश्चयः । अयमेव स्वरूपलाभो विद्यया संपाद्यः विस्मृतकण्ठमणिन्यायात् । तेथापि नित्यम् । 'सत्त्वशुद्धौ ध्रुवा स्मृतिः' इति श्रुतेः । पूर्वोक्तमेव ज्ञानं धर्मात्मकप्रकाशरूपेणाविर्भवद् भगवद्गुणतां श्रयति सूर्यप्रकाशवत् । तदनित्यमपि 'तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात्' 'युक्तं भगैः स्वैरितरत्र चाध्रुवैः' इत्यादि- वाक्येभ्यः । चैतन्यमप्यत्रैव वा निविशते इति द्वितीयं, तृतीयं तु वेदशरीरं दशद्भवति । 'स एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः ॥' इत्येकादशस्कन्धात् सृष्ट्यर्थं भगवन्मनोमयादिसरण्या दधाति, तथाहि ब्रह्मणो हृदयाकाशे स्वयं ब्रह्म आसन्थेन करणतामापन्नेन नादरूपं दधदाविर्भवति, तदुक्तं घोषेण गुहां प्रविष्टः इत्यन्तेन । स पूर्वमव्यक्त एव ततो नानावर्णादिसंकल्पकमनोमयं 'सूक्ष्मरूपमुपेत्य ब्रह्ममुखतः प्रकटः सन्मा- त्रास्वरवर्णात्मना स्थूलरूपेण शब्दब्रह्मात्मकवेदरूपश्चकास्ति । स च नादोऽस्मदादिष्वपि प्राणघोष- रूपेण वर्तते व्यापकत्वात्, श्रावणस्तदनुभवस्तु श्रोत्रवृत्तिनिरोधसंपाद्यो भगवतैव कृत्वा जीवेन । नान्यः प्रकारः श्रावणे जीवानुभवे । जीवानुभवस्तु भगवतेति निरुद्धद्वारनिह्रजीवो न कार्यं करोतीति । अयमेव नादः स्फोट इत्युच्यते स्फुटति वागनेनेति व्युत्पत्तेः । तदुक्तम्- १. अङ्गुष्ठमजन्यस्यापी । 72