अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1584, कुल 2600 में से
संदर्भ में पढ़ेंनैष दोषः । कुतः, अकरणत्वात् । करणस्यैव हि व्यापारोऽपेक्षितः । अन्यस्य कार्यमात्रमपेक्षितम् । तत्राह तथा हि कार्यवत्त्वं युक्तं तच्छ्रुतिरेव दर्शयति । 'तस्मिन्नुत्क्रामत्यथेतरे' इत्यादिश्रुतिभिः । प्राणनिमित्तैव शरीरस्थिति- रिति । तस्माद् व्यापाराभावेऽपि स्वरूपस्थितिमात्रेण तस्योपकारित्वम् ॥ ११ ॥ पञ्चवृत्तेर्मनोवद् व्यपदिश्यते ॥ १२ ॥ व्यापारव्यतिरेकेणोपकारित्वमसङ्गतसमितिवेतू तत्राह पञ्चवृत्तेः । 'अहमेवैतत् पञ्चधात्मानं विभज्यैतत् बाणमवष्टभ्य विधारयामि' इति । यथा भाष्यप्रकाशः। नन्दनादानगमनवचनाख्यकर्मजनका बाह्यप्रयत्नाः पञ्च, धियः शब्दस्पर्शरूपरसगन्धज्ञानानि पञ्च । एता दश सद्धारकस्य मनसो वृत्तयः, अभिमानोऽहंममेति स्वीकारात्मकः साक्षान्मनसो वृत्तिः एवमेकादश मनसो वृत्तयः, द्वारभूतानामिन्द्रियाणां तु प्रतिनियता एकैकजातीयाः । मात्राणि शब्दादयो धियां भूमयो विषयाः । कर्माणि विसर्गादीनि आकृतीनां भूमयो विषयाः । पुरं शरीरं, तच्च तत्संबन्धिनामप्युपलक्षकम् । तत् अहमित्यभिमानाख्यमनोवृत्ते- र्विषयः । एवमेकादश तासां वृत्तीनां भूमीर्वीर वदन्तीति । तथाच यथैता जीवोपकरणभूतानां करणानां तत्तद्भोगरूपकार्यार्थं व्यापारा आकृत्यादयः सन्ति तथा प्राणस्य जीवभोगसाधकः कश्चिद् व्यापारो नास्तीति कथं तस्य जीवोपकरणत्वमित्यर्थः । समाधिमत्राहुः नैष इत्यादि । एष इति व्यापाराभावः । तत्राहेति तादृशापेक्षाभेदे प्रमाणमाह तथा हीत्यादि । अकरणत्वे कार्यवत्त्वमात्रं युक्तं, न तु सव्यापारं, तच्छ्रुतिरेव दर्शयतीत्यर्थः । श्रुतिमाहुः तस्मिन्नित्यादि । प्रश्नोपनिषदि, 'तस्मिन्नुत्क्रामत्यथैते सर्व एवो- त्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते' इति । उपकारित्वमिति । तथाचोप- कारित्वादुपकरणमित्यर्थः ॥ ११ ॥ पञ्चवृत्तेर्मनोवद् व्यपदिश्यते ॥ १२ ॥ पुनः किंचिदाशङ्क्य परिहरतीत्याशयेन व्याकुर्वन्ति व्यापारेत्यादि । परिहारं विशदयन्ति यथेत्यादि । तथाच व्यपदेशप्रामाण्येन रश्मिः। दानगमनवचनानि । विसर्गानन्दनादानगमनवचनानि आख्या येषां कर्मणां तेषां जनकाः । एता इति । एता उक्ता दश । सद्धारेति । ननु कामसंकल्पादीनां श्रद्धाधृतिमतीप्रायपाठेन सत्त्ववद्विचिकित्साऽश्रद्धाऽधृतिप्रायपाठेनासद्धारकस्यापि मनसो वृत्तयः सन्त्विति चेन्न । मुख्ये संप्रत्ययात् । तेन कामादयः सन्तोत्र । साक्षादिति एकधातोरप्रयोगात् । प्रतिनियतेति विसर्गादयः शब्दादयश्च । जातयो विसर्गत्वादयः तादृशैकेकजातीयाः । जीवभोगेति जीवभोग इव साधकः जीवभोगसाधकः । तादृ