अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1585, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १०९ मनसो द्वारभेदेनैवैकादशवृत्तयः स्वरूपत एव । एवमेव प्राणस्यापि पञ्चधात्मानं विभज्य कार्यकारणं व्यपदिश्यते ॥ १२ ॥ अणुश्च ॥ १३ ॥ अतिदेशेन प्राप्तमप्यणुत्वं 'पञ्चधात्मानं विभज्य' इति वचनात् संदिग्धं पुनर्विधीयते । आसन्द्योऽप्यणुः । चकारात् पूर्वोक्तसर्वसमुच्चयः ॥ १३ ॥ इति द्वितीयाध्याये चतुर्थपादे पञ्चमं चक्षुरादिवदधिकरणम् ॥ ५ ॥ भाष्यप्रकाशः। यथा मनसि इन्द्रियद्वारा साक्षाच्च वृत्तिस्वीकारस्तथा प्राणेऽपि व्यपदेशसाम्येन साक्षादेव वृत्तिस्वीकारः । अतः कार्यमात्रात् स्वरूपत एवोपकारादुपकरणत्वमित्यर्थः । एतेन यत् परैः 'प्रमाणविपर्ययविकल्पनिद्रास्मृतयः' इति योगसूत्रानुसारेण मनसः पञ्चवृत्तित्वमङ्गीकृत्य पञ्च- वृत्तित्वांशेऽपि मनोवदिति दृष्टान्त इत्युक्तम्, तदपि परास्तम् । उक्तवाक्य एकादशत्वस्य कण्ठोक्तत्वात् । योगोक्तवृत्तीनां तृतीयस्कन्धे, 'संशयोऽथ विपर्यासः' इत्यत्र बुद्धिवृत्तित्वस्वीका- राच्च । श्रुत्युक्ताः कामादयस्त्ववान्तरवृत्तित्वेनैकादशस्वेव प्रविशन्ति । योगसूत्रं तु निरोध्यत्वेन ताः वक्तीति, न त्वन्या निराचष्ट इति न कोऽपि दोषः ॥ १२ ॥ अणुश्च ॥ १३ ॥ पूर्वोक्तसर्वसमुच्चय इति । उत्क्रान्त्यादिश्रुत्यन्तधर्मसंग्रहः । तथाच रश्मिः। साक्षादिति अहंकाररूपा वृत्तिः । साक्षादेवेति । व्यपदेशेऽहमेवेत्येवकारेणेन्द्रियरूपद्वारव्यवच्छेदकेन तथा । यथेत्यादीति । द्वाराणीन्द्रियाणि । तन्नेत्रत्वश्रुत्यादिनाभिमानत्वेन च । वृत्तयो ज्ञाना