भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1586, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1586

१८० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० ५ सू० १३ भाष्यप्रकाशः । खसामर्थ्याद् वृत्तयो वृत्तिसामर्थ्यात् सर्वशरीरव्याप्तिः । बहिर्भूयस्त्वेन प्रत्ययस्तु त्रिवृत्करणोच्च- रमद्भिः पोषणादुपपन्नः । तस्मादणुरेवासन्द्यः प्राण इति सिद्धम् । यत्पुनः प्राणमुपक्रम्य ‘सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण’ इति विभुत्वमुद्गीथब्राह्मणे श्रावितम् । यच्च ‘प्राणे सर्वं प्रति- ष्ठितम्’ इति सर्वाधारत्वं प्रश्नोपनिषदि श्रावितं ‘सर्वं हीदं प्राणेनावृतम्’ इति च श्रुत्यन्तरे तत्तु, उत्क्रान्त्यादिश्रुतिविनिश्चिते परिच्छिन्नत्वे सर्वस्य प्राणिजातस्य प्राणायत्तस्थितिकत्वेनोपपद्यते इति रामानुजाचार्याः । तेन व्यापककार्यकरणात् तत्सिद्धिनिबन्धना गौणी तत्र फलति । शंकराचार्यभास्कराचार्याभ्यां तु आधिदैविकेन समष्टिव्यष्टिरूपेण हैरण्यगर्भेण प्राणेन सूत्रात्मना तद्विभुत्वमिति न विरोध इत्युक्तम् । अस्माकमपीदमेव संमतं किंचिद्वैलक्षण्येने- त्यग्रिमाधिकरणे सेत्स्यति । भिक्षुस्तु अणुशब्देन तन्मात्रकार्यं स्थूलमहाभूताणुं वैशेषिकप्रतिपन्नत्र्यणुकस्थानीयं योगभाष्यानुसारेणाङ्गीकृत्य ततः स्थूलमहाभूतोत्पत्तिमङ्गीचकार । तदपि व्यासानभिप्रेतमेव । अत्र तत्प्रसङ्गादर्शनात् । यदि हि ताननूनभिप्रेयात् तदा पूर्वपाद एव विपर्ययसूत्रात् पूर्वमेव तानपि विचारयेत् । यदि च तत्र प्रामाणिकत्वमभिप्रेयात्, श्रुतेरिति वा स्मृतेरिति वा हेतुं च रश्मिः । संभवत्यतो यथाकथंचिद्वितीया कोटिः । ‘पञ्चधा प्रविभज्य’ इति श्रुतिविरोधाच्चाणुः । सूत्रं तु प्राणव्यति- रिक्तेन्द्रियपरमिति पूर्वपक्षे, आसन्द्योप्यणुरिति सिद्धान्तः । अत्राशङ्काग्रे निराकरिष्यते । बहिर्भूय इति भगवतो व्यापकत्वेन प्राणाद्बहिर्भूयस्त्वेन प्रत्ययः संभवति मुख्यत्वात् । जीववद्व्यति- रिक्तेपि पञ्चानामेतत्समानस ध्यानरूपेण अमृतबिन्दूपनिषदि प्रसिद्धम् । अन्यदप्याहुः त्रिवृदि- त्यादि । ‘पुरुषं प्राप्य त्रिवृत् त्रिवृदेकैका भवति तन्मे विजानीहीति’ इति छान्दोग्यश्रुतेः । अद्भि- रिति । ‘आपोमयः प्राणः’ इति छान्दोग्यश्रुतेः । उद्गीथेति छान्दोग्येस्ति । व्यापकेति सर्वेण समत्वरूपं व्यापककार्यं तत्करणात् । सर्वाधारकत्वं च व्यापककार्यम् । सर्वावरकत्वं च व्यापककार्यम् । एवं च सिंहो माणवक इतिवद्विभुः प्राण इत्येवं विभुत्वगुणयोगाद्गौणी व्यापककार्यकरणविभुत्वगुणसिद्धि- निबन्धना । तत्रेति सम एभिरित्यादिवाक्येषु । एभिः समः प्राण इत्यत्र प्राणे सर्वमित्यत्राधारेण समः प्राणः । सर्वं हीत्यत्र सर्वावरकेण समः प्राण इत्यत्र समपदप्रयोगो गौणोणुपदप्रयोगोऽ- णुरित्यत्र मुख्यः । इदमेवेति । गीतायाम् ‘मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव’ इत्यस्यैकवाक्यता ‘सर्वं खल्विदं ब्रह्म’इत्यनयेत्येवकारः । अभिमेति समनन्तराधिकरणे । अत एव प्राण इत्यतिदेशाधि- करणेन विभुत्वमिति नोक्तम् , दुरूहे जिज्ञासोदयात् । तन्मात्रेति द्व्यणुकमात्रकार्यम् । स्थूलेति । पीलुपाकवादिमतेन प्रसिद्धम् । द्व्यणुकपरमाण्वोरप्रत्यक्षादाहुः वैशेषिकेति । पीलुपाकवादिनां त्र्यणुकप्रत्यक्षादुक्तम् । अभिप्रेतव्यावर्तक एवकारः । तत्र हेतुं तर्कं चाहुः अत्रेत्यादिना । परमाणुभ्यः सृष्टिप्रसङ्गादर्शनात् । तर्कमाहुः यदीति । अन्यज्ञानं तर्कः । तानिति समवायिनः परमाणून् । क प्रसङ्ग इति चेत्तत्राहुः पूर्वपाद इति । पूर्वप्रकरणादेवकारः । पूर्वमिति स्थूलमहाभूतकारणत्वेन । तान् लाघवप्राप्तेरेवकारः । सारवद्विक्षतो मुखात् सूत्रादुच्यत इति चेत्तत्राहुः प्रामाणिकमिति । सूत्रं प्रमाणं सौत्रमित्यर्थः । अभिप्रेयाच्चासौ भगवान् । श्रुतेरिति । 1476