अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1588, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the Sanskrit text from the image into Unicode Devanagari Markdown:
कर्तव्यम् । कुतः, तदामननात् । तथाम्नायते 'अग्निर्वाग् भूत्वा मुखं प्राविशत्' इत्यादि । अयमर्थः— 'योऽध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः । यस्तत्रोभयविच्छेदः स स्मृतो ह्याधिभौतिकः' ॥ भाष्यप्रकाशः। इत्यर्थः । तदामननादिति तस्य देवतारूपस्याधिष्ठातुः श्रुतौ कथनात् । 'अग्निर्वाग्भूत्वा' इति श्रुतिस्तु ऐतरेयोपनिषदि लोकानां लोकपालानां च सृष्टिमुपक्रम्याद्भ्यः पुरुषमुद्धरन्मुक्त्वा तत आलोचनान्तरेण तस्य मुखनिर्भेदं मुखाद्वाङ्निर्भेदं वाचोऽग्निर्निर्भेदमित्युक्त्वा तथैव नासिकाक्षि- कर्णत्वग्हृदयनाभिशिश्नानां सेन्द्रियाणां सदेवानां निर्भेदं, ततस्तासां देवतानां प्रलयमहार्णवे पातम्, अशनापिपा