भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1589, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1589

अनुवादः प्रस्तुतं पृष्ठं (भाष्यप्रकाश-रश्मि-परिवृंहितम्, पृ. १८५ / १४७९) मूलपाठानुसारं अधोलिखितरूपेण वर्तते:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १८४ इत्याध्यात्मिकादीनां स्वरूपं, वागाद्यप्यणुरूपा नित्याः। तत्र यदि त्रैविध्यं न कल्प्येत तदैकस्मिन्नेव शरीरे उपक्षीर्णं शरीरान्तरे न भवेत्। कल्प्यमाने तु अग्निर्दे- वतारूपोऽनेकरूपभवनसमर्थो वाग्रूपो भूत्वा सर्वत्र प्रविष्ट इति संगच्छते। ते वाग्ध्या- दयश्चेतना भगवदंशास्तिरोहितानन्दाः सामर्थ्ययुक्ता इति कार्यवशादवगम्यन्ते। भाष्यप्रकाशः। माधिभौतिकोपरमाप्येवाभिप्रेतम् । नचायं लोको जीवात्मपरमात्मानौ शरीरं चेति त्रयम- भिप्रेत्य तत्रोक्त इति कथमत्रैतस्य योजनमिति शङ्कनीयम् । तत्र यथा जीवपरमात्मानावणू नित्यौ तथाऽत्र वागादयोऽप्यणुरूपा नित्या