भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1591, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1591

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १८४ आधिभौतिककृतश्चायं भेद इत्यग्रे व्यक्तीकरिष्यते । एवमेव ब्रह्मणोऽपि । 'अनेन जीवेनात्मनानुप्रविश्य' इत्यपि निःसन्दिग्धं द्रष्टव्यम् यदज्ञानात् सर्व- विप्लववादिभ्यामोहः ॥ १४ ॥ इति द्वितीयाध्याये चतुर्थपादे षष्ठं ज्योतिराद्यधिष्ठानाधिकरणम् ॥ ६ ॥ भाष्यप्रकाशः। चिरेव मानमित्यर्थः । समष्टिव्यष्टिपदयोर्थस्तु, अशनूङ् व्याप्तौ, सम्यग् एकेन रूपेण अनुगता अष्टिर्व्याप्तिर्यस्यासौ समष्टिः । विविधा नानारूपेण अष्टिर्व्याप्तिर्यस्यासौ व्यष्टिरिति । यद्यपि तत्र समष्टिव्यष्टिभावः प्राणस्यैवोक्तस्तथाप्यणुत्वादिसामान्यात् प्राणान्तरेऽपि तुल्य इति न कोपि संदेहः । एतस्य श्रौतस्य समष्टिव्यष्टिभावस्य पौराणिकाध्यात्मिकादिभावानुगृहीत- त्वेनात्रोक्तं त्रैविध्यं सृष्टिदशायां सार्वत्रिकं सर्वत्रैवोपयुज्यत इत्येतन्निबन्धे सर्वनिर्णये 'आन- न्त्येपि हि कार्याणाम्' इत्यादिकारिकामिस्तद्व्याख्यया च प्रपञ्चितमिति ततोवगन्तव्यम् । एतस्य व्यासाशयगोचरत्वं स्फुटीकुर्वन्ति आधिभौतिकेत्यादि । चोऽवधारणे । भेदो विभागः । अग्रे वैशेष्यसूत्रे व्यक्तीकरिष्यते । तत्र मनआदीनां तत्त्वान्तरत्वस्थापनात् तेषामे- वैतरेयेऽङ्ग्भ्यः पुरुषसमुद्धारं प्रकृत्य तस्य मुखादिगोलकनिर्मेदोत्तरं मुखादिभ्यो वागादीन्द्रिया- णामिन्द्रियेभ्योऽग्न्यादिदेवांनां निर्मेदस्य तदुत्तरं देवानामकभोजनार्थं यथास्थानं तत्तद्गोलके प्रवेशस्य च श्रावितत्वात् तत्सारणेन स्फुटीकरिष्यत इत्यर्थः । अयमर्थः संज्ञापूर्त्तिसूत्रेऽप्यस्तीति बोधयितुं तद्विषयवाक्यमुपन्यस्यन्त एवमाध्यात्मिकाधिदैविकभावं ब्रह्मण्यप्यतिदिशन्ति एव- मेव ब्रह्मणोऽपीति । यथैतेषामाधिभौतिके प्रवेशोत्तरमाध्यात्मिकाधिदैविकत्वम्, एवमेव ब्रह्म- णोऽपि तिसृषु देवतासु, 'अनेन जीवेनात्मनानुप्रविश्य' इति प्रवेशकथनादत्रापि श्रुतौ निःसंदिग्धं द्रष्टव्यम् । 'तदनुप्रविश्य सच त्यच्चाभवत्' इति श्रुत्यन्तरे प्रवेशोत्तरमेव द्वैधीभावश्रावणात् । उक्तश्रीभागवतश्लोकस्याप्याश्रयरूपं परं ब्रह्मैव प्रकृत्य पठितत्वाच्च । यस्य भगवत्सामर्थ्यकृतस्या- ध्यात्मिकाधिदैविकभावस्याज्ञानात् सर्वविप्लवजनक्रमायावादरूपव्यामोहः । एवं ब्रह्मसामर्थ्ये- रश्मिः। भाष्यं तु श्रुतार्थापत्तिपक्षेपि तुल्यम् । पौराणिकेति । आधिदैविकः समष्टिः आध्यात्मिकोऽपि, आधिभौतिको व्यष्टिरिति । विभाग इति । तथाच विश्वः 'भेदो द्वैधे विशेषे स्याद्' इति । एवेति उक्तश्रुतेरेवकारः । अनेनेत्यादि भाष्यं विवृण्वन्ति स्म तिसृष्विति । छान्दोग्ये 'तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जमिति । सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत्प्तासां त्रिवृतं त्रिवृतमेकैकामक- रोद्यथा नु खलु सोम्येमास्तिस्रो देवतास्त्रिवृस्त्रिवृदेकैका भवत्तन्मे विजानीह हि' इतिश्रुतिः । अत्र सा अव्याकृता । तिस्रस्तेजोबन्नार्मिकाः। अत्रापीति सूत्रेपि 'अग्निरर्वाग्भूत्वा'इति श्रुतौ । एवेति प्रवेशपूर्वं व्यवच्छिनत्ति । उपलव्धो न तु स्वबुद्धिपरिकल्पित एवेर्थ इत्याहुः उक्तेति । ब्रह्मैवेति । जीवात्म- परमात्मनोः शरीरस्य चायं व्यवच्छेदकः । सर्वं माया, ब्रह्मवैवर्त पुराणंमिति वादस्तोन रूपं स्वरूपं यस्य व्यामोहस्य स सर्वविप्लवजनको भवति । स च यस्य ब्रह्मणो विशेषवर्तन लक्षणसामर्थ्याज्ञानादिति वदन्तो यदज्ञानादित्यादिभाष्यर्थमाहुः यस्येति । व्याख्यायेयमिदं पदम् । सर्वविप्लवेति भाष्यं मध्यमपद- लोपिसमासेन व्याकुर्वन्ति स्म सर्वविप्लवेति । भवतीति क्रियापदम् । तथा च तेषां भाष्यम् । श्रेष्ठश्चे- २४ ब्र० सू० २० 1481