अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1592, कुल 2600 में से
संदर्भ में पढ़ें१८६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० ७ सू० १५ प्राणवता शब्दात् ॥ १५ ॥ (२-४-७) यदधिष्ठानमग्न्यादि तत् किं स्वत एव, अन्यसहितं वेति संदेहः । किं तावत् प्राप्तम् । स्वत एवेति । पूर्वोक्तन्यायेन तावतैव सिद्धेरनवस्थानाच्च देवता- त्वव्याघातश्चेत्येवं प्राप्ते उच्यते । प्राणवता अधिष्ठितं वागादि । कुतः । शब्दात् । भाष्यप्रकाशः । ऽवधारित उच्चनीचभावस्य जडचेतनभावस्य बन्धमोक्षव्यवस्थायाः शुद्धब्रह्माद्वैतस्य च सुखेन संभवादित्यर्थः ॥ १४ ॥ इति षष्ठं ज्योतिराद्यधिष्ठानाधिकरणम् ॥ ६ ॥ प्राणवता शब्दात् ॥ १५ ॥ अत्रापि पूर्ववत्सूत्रप्रयोजनं बोधयितुं संशयादिकमाहुः यदित्यादि । स्वत एव, अन्यसहितं वेति स्वत एव वागादीनधितिष्ठति, मुख्यप्राणेन सहितं वा सद् अधितिष्ठतीति संदेह इत्यर्थः । पूर्वपक्षे युक्तिमाहुः पूर्वोक्तेत्यादि । ज्योतिराद्य- धिकरणेऽग्न्यादीनामेवाधिष्ठातृत्वसाधनात् तदधिष्ठानमात्रादेव वागादीनामिन्द्रियाणां व्यापारस्य सर्वजीवसाक्षिक्यादेः सिद्ध्या इतरसाहित्यप्रयोजनाभावात् तदङ्गीकरणे च तस्याप्यधिष्ठात्रन्तरा- पेक्षासंभावनेनाऽग्रेऽप्यपेक्षानुपरमेणाप्रामाणिकानवस्थानाच्च । किंचाधिष्ठेयत्वे तेषां देवता- त्वव्याघातश्च । अधिष्ठातृत्वस्यैव देवतातत्त्वादित्यर्थः । सिद्धान्तं विवृण्वन्ति प्राणवतेत्यादि । मुख्यप्राणसहितेनाग्न्यादिनाऽधिष्ठितं वागादीत्यर्थः । नन्वनेन शब्देन कथं प्राणसाहित्य- रश्मिः । त्यादिसूत्रीयम् । मुख्यश्च प्राण इतरप्राणवद्ब्रह्मविकार इत्यतिदिशति । न चाविशेषेणैव सर्व- प्राणानां ब्रह्मविकारत्वं व्याख्यातम् । 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति सेन्द्रियमनो- व्यतिरेकेण प्राणस्योत्पत्तिश्रावणात् । 'स प्राणमसृजत' इत्यादिश्रवणेभ्यश्च । किमर्थं पुनरतिदेशः । अधिकशङ्कानिरासार्थः । 'नासदासीत्' इति ब्रह्मप्रधाने सूक्ते मन्त्रवर्णो भवति । 'न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किंचनास' इत्यादि । बन्धमोक्षेति । 'बन्धाय विषयासक्तं मुक्तं निर्विषयं स्मृतम् । अतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते' इति अमृतबिन्दूपनिषत् । 'अभिमान आत्मनो बन्धस्तन्निवृत्तिर्मोक्षः' इति हंसोपनिषत् । सुखेनेति 'सर्वं खल्विदं ब्रह्म' इति श्रुतौ परिणामवादमाश्रित्य कार्यकारणवस्त्वैक्यमर्पणेन घटो मृदितिवत्सुखेन । वेदस्तुतावपीदं सुबोधिन्यां स्पष्टमिति ॥ १४ ॥ इति षष्ठं ज्योतिराद्यधिष्ठानाधिकरणम् ॥ ६ ॥ प्राणवता शब्दात् ॥ १५ ॥ सूत्रेति । पूर्व सूत्रं यथा देवताधिष्ठितानामेव यमनं ख्यापयति तथेदमपि प्राणवताधिष्ठितं वागादि न स्वत एवेति ख्यापयतीति प्रयोजनं बोधयितुम् । पूर्वोक्तन्यायमेव- कारान्तं स्पष्टमाहुः ज्योतिरादीति । एवेति अन्यसहितपक्षव्यवच्छेदक एवकारः । तावतेति । भाष्ये तावतेत्यव्ययं पञ्चम्यन्तमिति भावः । कोशेऽव्ययेषु पाठात् । चादिस्वराद्योराकृतिगणत्वात् । अधिष्ठात्री देवतेत्येतावत्या वेदपुराणप्रसिद्ध्या तदधिष्ठातृत्वमेव देवतातत्त्वं तन्मात्रात् । एवकारोऽन्यसहित- देवताव्यवच्छेदकः । इतरेति मुख्यप्राणेत्यर्थः । किं चाधीति । देवतान्तराधिष्ठेयत्वं तेषामग्न्यादी- नाम् । एवेति प्रतिपाद्यव्यवच्छेदकः । घटः पट इत्यादौ व्यभिचारात् । अनेनेति सूत्रीयेण । 1482