भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1595, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1595

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १८९ तस्य च नित्यत्वात् ॥ १६ ॥ अग्न्यादेः प्राणसंबन्धो नित्य इति सर्वदाधिष्ठातृत्वम् । प्राणस्य तत्संबन्धस्य चेति चकारार्थः । प्राणसहायेनैव यथोचितवर्णोद्गम इति । भाष्यप्रकाशः। प्राणवतैवाग्न्यादिना वागाद्यधिष्ठानं न केवलेनेति सिद्धम् । तथाचाधिष्ठातॄणामेव पापाभावो, न त्वधिष्ठेयानामस्मदादीन्द्रियाणामपीत्यतो, न किंचिच्चोद्यमित्यर्थः । इयं श्रुतिः परैरन्यथा व्याख्यायते, तत्कल्पनाबाहुल्यादसङ्गतं व्याख्यानमिति बोध्यम् ॥ १५ ॥ तस्य च नित्यत्वात् ॥ १६ ॥ सर्वदा प्राणसंबन्धे हेतुं वदतीत्याशयं स्फुटीकुर्वन्ति अग्न्यादेरित्यादि । प्राणस्य नित्यत्वं, 'श्रेष्ठश्च'इत्यधिकरणे निर्णीतम् । संबन्धनित्यत्वं तु छान्दोग्ये प्राणानामहंश्रेयसि विवादेऽन्येषां प्राणानां मुख्यप्राणं विना स्थातुमशक्त्या निर्णीयते । तस्माद- ग्न्यादेरासन्यस्य तत्संबन्धस्य च नित्यत्वात् प्रतिकल्पमनयैव रीत्याऽधिष्ठातृत्वमित्यर्थः । इदानी- मपि प्रतिशरीरं प्राणसहायेनैव कार्यक्षमत्वमित्यत्र गमकमाहुः प्राणेत्यादि । एवमिन्द्रिया- न्तरेऽपि समानन्यायाद् बोध्यम् । नन्वत्र प्राणवच्छब्देन प्राणी जीवो व्याख्यायते । उचितं रश्मिः। पवनतपनभानानि । एवेति एवकारो वाचं व्यवच्छिनत्ति । केवलेनेति अग्न्यादिना । किंचिदिति अस्मदाद्यप्रतिरूपवदनादौ चोद्यमित्यर्थः । ननु तस्यां श्रुतौ यदि परेणेति सहार्थे तृतीया स्यात्तदैवं युञ्जन्तु प्राणवतेति सूत्रं, श्रुतिस्त्वन्यथा व्याख्यातेति चेत्तत्राहुः इयमित्यादि, भाष्ये शब्दरूपा प्रत्यक्षा । परैरिति । उपनिषद्भाष्यकारैरन्यथा परेण मृत्युं मृत्योः परस्ताद्दीप्यत इत्येवम् । कल्पनेति द्वितीयान्तमृत्युपदस्य पञ्चम्यन्तत्वकल्पना तृतीयान्तस्य परपदस्य प्रथमान्तत्वकल्पना । पर इति परस्तात् । स्वार्थेऽस्तातिप्रत्ययः ॥ १५ ॥ तस्य च नित्यत्वात् ॥ १६ ॥ छान्दोग्य इति । 'ॐ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद' इत्यारभ्य 'अथ ह प्राणा अहंश्रेयसि व्यूदिरेऽह५श्रेयानस्म्यह५श्रेयानस्मि इति । ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नु श्रेष्ठ इति तान् होवाच यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठः' । तदनन्तरं वागाद्युत्क्रमणेऽपि पापिष्ठतरत्वे 'अथ ह प्राण उच्चिक्रमिषन् स यथा सुहयः पड्बीशशङ्कन्संखिदेदेवमितरान्प्राणान् समखिदत्' इत्यादिना तथा निर्णीयत इत्यर्थः । पदनशीलाः पादाः पदवः तेषां संहतिः पड्बी । छान्दसत्वादकारस्य उकारे ह्रस्वत्वे बिन्दौ च जाते पड्बीशा इति जातम् । पद्भ्या ईशा नियामकाश्च ते शङ्कवः पादबन्धनकीलकास्तान् । अनयेति पूर्वसूत्रोक्तरीत्या । इन्द्रियेति इन्द्रियं वर्णोद्गमो वाक् ततोन्यदिन्द्रियं चक्षुरादीन्द्रियान्तरं तस्मिन् । व्याख्यायत इति शंकराचार्य्यादिभिर्व्याख्यायते । तथाहि । सतीष्वपि प्राणाधिष्ठात्रीषु देवतासु प्राणवता कार्य- करणसंघातस्वामिना शारीरेणैवैषां प्राणानां संबन्धे 'अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम्' इत्येवं सजातीयकायाः श्रुतेरित्यर्थः पूर्वसूत्रस्य । द्वितीयस्य तावत्, तस्य शारीरस्यास्मिञ्छरीरे भोक्तृत्वेन नित्यत्वं पुण्यपापलेप- संभवाच्च देवतानामित्यर्थ उच्यते । भास्कराचार्यैरप्येवम् द्वितीयस्यार्थस्तु तस्य करणजातस्य शरीरं प्रति नियतत्वात्तमु- त्क्रामन्तमिति श्रुतेरिति । 1485