भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1596, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1596

१९० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ०२।पा०४। अ० ७।सू० १६ लोके स्वामिभृत्यन्यायेन जीवे भोगः फलिष्यति ॥ १६ ॥ इति द्वितीयाध्याये चतुर्थपादे सप्तमं प्राणवतेत्यधिकरणम् ॥ ७ ॥ भाष्यप्रकाशः। च तत् । जीवभोगप्रकारबोधनार्थमेव तत्परिकरविचारस्य प्रकृतत्वात् । अत्र च तस्याधिष्ठातृत्वे ऽभ्युपगते तस्य भोगासिद्धौ विचारवैयर्थ्यापात इत्याशङ्कायामाहुः लोक इत्यादि । श्रुत्य- न्तरे, ‘स यथा महाराजो जानपदान् गृहीत्वा’ इति दृष्टान्तेन मुख्यप्राणांशभूतसत्प्राणानामपि जीवपरिकरत्वेन स्वामिभृत्यन्यायसिद्धेस्तेन न्यायेन जीवे भोगो मुख्यमात्यरूपप्राणाधिष्ठा- नादपि फलिष्यतीति न विचारवैयर्थ्यम् । तथा च करणांशा एव तस्य तासां चाधिष्ठातृत्वं, भोक्तृत्वेन तु जीवस्यैवाधिष्ठातृत्वमित्यर्थः ॥ १६ ॥ इति सप्तमं प्राणवतेत्यधिकरणम् ॥७॥ अथात्र प्रसङ्गाज्ज्ञानप्रक्रियां वदामः । तत्र गीतायाम् ‘अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् । शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तत्र हेतवः’ इति भगवता जीवक्रियमाणकार्यं प्रति पञ्च- हेतव उक्ताः । तत्राधिष्ठानं शरीरम् । कर्ता जीवः, करणं बाह्यमान्तरं च नानाविधं, चेष्टाः रश्मिः। रामानुजाचार्यैस्तु ज्योतिरादिसूत्रमेतच्च सूत्रमेकमङ्गीकृत्य ज्योतिरादीनां प्राणवता जीवेन च प्राणविषयमधिष्ठानं परमात्मन आमननातसंकल्पात् कुत एतदन्तमिति ब्राह्मणरूपान्नच्छब्दादित्यर्थः । माध्वास्तु जीवानां करणान्याहुः प्राणानिति । 'श्रहणो वा एतानि करणानि चक्षुः श्रोत्रं मनो वागिति’ इति श्रुतोर्द्वितीयासा गतिः प्राणवदादिसूत्रद्वयेनेति । प्रकृतेति । ज्योतिरधिकरणे स्वतन्त्रा देवतन्ना वा वागाद्याः स्वतन्त्रता ‘नो चेद्यागादिजो भोगो देवानां साञ्च चात्मनाम् । श्रुतमभ्यादितश्नत्वं मोगोभ्यादेस्तु नोचितः । देवदेहेषु सिद्धत्वाज्जीवो भुङ्क्ते स्वकर्मणा’इत्यधिकरणमालायां श्रुत- मित्यादी राद्धान्तः परमभोगस्य सिद्धत्वात् । तस्येति जीवस्य । भुज्येति जीव प्राणधारण इति धातुपाठात् । ननु साक्षात्कृतो नेति चेन्न । ‘नैव किंचित्करोमीति युक्तो मन्येत तत्त्व- वित्’इत्यादिजिज्ञासाधिकरणोक्तगीतावाक्येभ्यः । ‘अपश्यत्पुरुषं पूर्णं मायां च तदपाश्रयाम् । यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् । परोपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते’ इति च । एवेति सूत्रे तृतीययैवेकारः । तस्येति श्रेष्ठवतो जीवस्य । तासामिति इन्द्रियाधिष्ठात्रीणां देवतानाम् । एवेति प्राणव्यवच्छेदकः । तथा च श्रुतिः ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ इति । अत्रात्मोक्तः प्राणसहितो नोक्तः । न तु प्राणप्रयोजनमस्ति । ‘श्रोत एव’ इति सूत्रात् । तथाच गीता ‘श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते’ इति । इति सप्तमं प्राणवतेत्यधिकरणम् ॥ ७ ॥ नित्यज्ञाननिरूपणेनेन्द्रियतदधिष्ठातृनिरूपणेन च स्मृतं जन्यज्ञानं निरूपयितुमुपक्रमन्ते स्म अथात्रेति । ज्ञानेति वेदान्तपरिभाषादौ दर्शनान्तरराद्धान्तीयाम् । उक्तश्रुत्यर्थं सोपबृंहणं वक्तुमित्याशयवन्त आहुः तत्र गीतायामिति । अधिष्ठानं विषयविद्यया कारणम् । घटवद्भूतलमित्यादिखले । अधिष्ठानकारणं हेतुरित्यन्ये । यद्यपि तथाप्यव्यक्तिस्थानं शरीरमिति मुख्यतया व्याकरिष्यते । कर्ता करणं च ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ इत्युक्तश्रुतेः । आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेन ततः प्रत्यक्षमिति नैयायिकाः । मानसप्रत्यक्ष- संग्रहार्थ श्रुतौ नोक्तम् । पृथग्विधं चक्षुष्प्रदादिना । चेष्टा व्यापारः तज्जन्यत्वे सति तज्जन्यजनको 1486