अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1599, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १९१ भाष्यप्रकाशः । न्द्रियस्पर्शादिकं व्यापारः । नच नयनानां किरणाङ्गीकारे चक्षुषां व्यापकत्वापत्त्या 'अणवश्च'इति सूत्रविरोधः शङ्कनीयः । अर्चीरूपाणां किरणानां सूर्यमण्डलाद्भेद्यस्य, 'आदित्यो वा एष' इत्यनुवाके श्रावणात् तैरखिलमेरूत्तरदेशान् व्याप्नुवानस्यादित्यमण्डलस्य दशसहस्रयोजनपरिमाणरूपेण तेषां तत्परिमाणाबाधकत्ववत् सूर्याध्यात्मिकचक्षुषः किरणानामपि तथात्वेन सूत्राऽविरोधात् । 'तथा प्राणः' इत्यत्र प्राणेषु जीवातिदेशस्य सिद्धान्तेऽङ्गीकारात् सर्वशरीरे जीवस्येव सामर्थ्याद्वा गुणाद्वा, व्याप्यङ्गीकारस्य वक्तव्यत्वात् । 'गुणाद्वाऽऽलोकवत्'इति सूत्रे आलोकस्य गुणस्वा- ङ्गीकारात् तैजसस्य चक्षुष आलोक रूपगुणव्याप्यङ्गीकारेऽप्यदोषः । एवमपि सूत्राविरोधचाक्षुष- रूपकार्यसिद्धयोः संभवात् । अत एव त्वचः सकलशरीरव्यापित्वमपि देवतासामर्थ्यस्पर्शगुणाभ्यां युज्यते । अन्यथा तु सूत्रविरोधसार्वत्रिकस्पर्शानुभवबाधयोरन्यतरदापद्येतैव । तस्मान्नयनकिरण- गमनादिद्वारिकैव प्रत्यक्षप्रक्रिया साधीयसी । या पुनरालोकेन मायाकार्यतमोजननप्रतिबन्धे कृते ज्योतिरूपसूर्यदेवतया तदात्मकचक्षुषि सन्मुखाव्यवहितदेशस्थपृथुबुध्नोदराकारविशिष्टरूपे प्रापिते सत्त्वप्रधानबुद्धेरन्तरेव तदाकारतासंपत्तौ अणुरूपं जीवं प्रति ज्ञानाश्रिताध्यात्मिकघटाभि- व्यक्तेरेव चाक्षुषम् । दूरस्थगन्धशब्दयोस्तु वायुना घ्राणश्रोत्रसमीपप्रापणेऽन्तःसत्त्वात्मकबुद्धेस्तदा- कारतासंपत्तौ ज्ञानाश्रिताध्यात्मिकगन्धशब्दाभिव्यक्तिरेव घ्राणजं श्रावणं च प्रत्यक्षमिति । आध्यात्मिकाधिभौतिकयोरभेदाच्च बाह्यघटाग्रहणनिबन्धनो दोष इति केषांचित् प्रत्यक्षप्रक्रिया । तत्रालोकेन तमोजननप्रतिबन्धकथनमनुक्तम् । 'यदा हि भानोरुदयो नृचक्षुषां तमो निहन्याद्' इत्ये- कादशस्कन्धीयभगवद्वाक्ये तमोनिहन्तृत्वकथनात् । एवं ज्योतिरूपसूर्यदेवतायाः पुरुषचक्षुषि विषयनिष्ठरूपप्रापकत्वकथनर्माप तथा । बहुषु पश्यत्सु तांस्तान् प्रतिरूपे प्रापिते विषयस्य नी- रूपताप्रसङ्गेन पाश्चात्यानां तददर्शनप्रसङ्गात् । तद्दर्शनार्थं तस्मिन् विषये पुन रूपान्तरोत्पादनाऽऽ- नयनादिरूपाऽप्रामाणिककल्पनप्रसङ्गाच्च । संध्यायामस्तं गते सूर्ये रूपप्रापकदेवताया गतत्वा- च्चेदानीं घटाद्यदर्शनापत्तेश्च । न च 'निशि नेतिचेन्न संबन्धस्य यावद्देहभावित्वात्'इति तार्तीयीके सूत्रे, अथ 'या एता हृदयस्य नाड्यः' इति नाडीरुपक्रम्य, 'अमुष्मादादित्यात् प्रतायन्ते ता आसु नाडिषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ता' इति दहरविद्याश्रुत्या रश्मिः । स्पर्शोति । आदिना पञ्चान्ये संबन्धाः । तथात्वेनेति अबाधकत्वेन । गुणत्वेति भास्वरशुक्ल- रूपत्वेन तथाङ्गीकारात् । एवेति युक्त्यन्तराभावादेवकारः । नयनेति । आदिना नयनसंयोगः । एवकारोऽन्यप्रक्रियाव्यवच्छेदकः । सन्मुखेत्यादि गुणरूपे । सत्त्वेति तिष्यु । अन्तरित्यादि करणान्तः । एवकारस्तु बाह्याध्यात्मिकघटव्यवच्छेदकः । तदाकारता पृथुबुध्नोदराकारता तस्याः संपत्तौ । जीवं प्रतीति जीवभोगाय । वृत्तिरूपज्ञानेनाश्रित आधिभौतिकघटो यदा भवति तदा वृत्तिगुणरूप आध्यात्मिकघटो भवति तस्याभिव्यक्तिः । एवकारस्तु तद्युक्त्या 'युक्तयः सन्ति सर्वत्र' इति वाक्यात् । एवेति तद्युक्त्येवकारः । बाह्येति उक्तगन्धशब्दाश्रयीभूतघटाग्रहणनिबन्धनो दोष इत्यर्थः । तम इति नृचक्षुषस्तमोजननप्रतिबन्धकथनम् । विषयेति । रूपमत्र पृथुबुध्नो- दराकारः । नीरूपतेति निराकारताप्रसङ्गेन । तद्दर्शनं विषयादर्शनं तस्य प्रसङ्गात् । रूपा- न्तरेति । पृथुबुध्नाकारोत्पादनेत्यादिः । प्रतायन्त इति तनु विस्तारे । सृप्ता इति । सृपु गतौ । १५ ब्र० सू० १० 1489