अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1600, कुल 2600 में से
संदर्भ में पढ़ें१९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ४ अ० ७ सू० १६ भाष्यप्रकाशः। रात्रावप्यादित्यरश्मिसंबन्धसोक्तत्वात् तदानीं संध्यायां च नाडीसृप्तरश्मिभिर्विषयरूपप्रापणाच्च घटाद्यदर्शनप्रसङ्ग इति वाच्यम् । नाडीसृप्तरश्मीनां हृदयाग्रप्रद्योतनजीवोत्क्रमणमात्रकार्यार्थतया एव भाष्येन तद्रश्मीनां रूपप्रापकताया वक्तुमशक्यत्वात् । तदानीमपि रूपप्रापकत्वाङ्गीकारे तदानीं तत्सत्त्वात् 'अस्तमिते आदित्ये, किंज्योतिरयं पुरुषः' इत्यादिज्योतिर्ब्राह्मणविरोधस्य प्रत्यक्षविरोधस्य च दुष्परिहरत्वात् । अतो 'नेतृत्वं द्रव्यशब्दयोः' इतिवदादित्यादिरश्मीनां रूपप्रापकत्वस्याशब्दगोचरत्वात् सूर्यरूपदेवताया रूपप्रापकत्वाङ्गीकारः सर्वथा न युक्तः । किंच । चक्षुष रूपप्राप्तिश्च प्रतिबिम्बभवनरूपैव । सा तु मायया 'ऋतेऽर्थं यत् प्रतीयेत' इति वाक्यात् । तस्या विक्षेपकत्वाच्च