अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
१९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ४ अ० ७ सू० १६ भाष्यप्रकाशः। रात्रावप्यादित्यरश्मिसंबन्धसोक्तत्वात् तदानीं संध्यायां च नाडीसृप्तरश्मिभिर्विषयरूपप्रापणाच्च घटाद्यदर्शनप्रसङ्ग इति वाच्यम् । नाडीसृप्तरश्मीनां हृदयाग्रप्रद्योतनजीवोत्क्रमणमात्रकार्यार्थतया एव भाष्येन तद्रश्मीनां रूपप्रापकताया वक्तुमशक्यत्वात् । तदानीमपि रूपप्रापकत्वाङ्गीकारे तदानीं तत्सत्त्वात् 'अस्तमिते आदित्ये, किंज्योतिरयं पुरुषः' इत्यादिज्योतिर्ब्राह्मणविरोधस्य प्रत्यक्षविरोधस्य च दुष्परिहरत्वात् । अतो 'नेतृत्वं द्रव्यशब्दयोः' इतिवदादित्यादिरश्मीनां रूपप्रापकत्वस्याशब्दगोचरत्वात् सूर्यरूपदेवताया रूपप्रापकत्वाङ्गीकारः सर्वथा न युक्तः । किंच । चक्षुष रूपप्राप्तिश्च प्रतिबिम्बभवनरूपैव । सा तु मायया 'ऋतेऽर्थं यत् प्रतीयेत' इति वाक्यात् । तस्या विक्षेपकत्वाच्च
भाष्यप्रकाशः। पायुपस्थहस्तपादास्तु घ्राणादिवदेव स्वस्वगोलके स्थित्वा सर्वस्मिन् शरीरे यथोचितं कार्यं कुर्वन्ति । अत एव हस्ताभ्यां चलनं, पद्भ्यां तालादिवादनं, शिश्नेन मूत्रादिविसर्ग इत्यादिकं, द्विगोलकानामु- भयत्रापि स्थितिश्च संगच्छते । इदं च सर्वं ज्ञानं कर्म च अन्तःकरणाध्यासाज्जीवात्मा स्वस्मिन्न- भिमन्यत इत्यतो लौकिकानां नैयायिकादीनां ज्ञानेच्छादिष्वात्मधर्मत्वप्रवाद इति । अन्तःकरणा- भ्यासस्तु हृदयदेशे जीवस्यान्तःकरणानां च स्थितत्वात् तेषु तत्प्रतिबिम्बे तस्य प्रतिबिम्बस्येन्द्रियेषु प्रतिबिम्बान्तरे इन्द्रियाध्यासस्ततस्स देहे प्रतिबिम्बे देहाध्यासश्च भवति । प्रतिबिम्बश्च तत्प्रकाशस्य तेषु क्रमेण भवति सूर्यस्येव, न तु मुख्यस्येव सन्निधिमात्रेणेति निर्णीतम्, 'यथा जलस्य आभासः' इत्यत्र तृतीयसप्तविंशाध्याये । एवं च पूर्वकृतस्य प्रारब्धकर्मणः पाकस्य जाग्रति फलभोगे क्रिय-
१९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० ७ सू० १६ भाष्यप्रकाशः। तमस उद्रेक ईश्वरेच्छादिवशात् तदाऽयं तैः सर्वैः सह पुरीतात प्रविशति । पुण्डरीकाकारो मांस- पिण्डो हृदयं, तद्वेष्टिता नाड्यः पुरीतच्छब्देनोच्यन्ते । तदा सुषुप्तिः। कदाचिद्भगवदिच्छया तस्य हृदयस्यान्तर्य आकाशशब्दवाच्यः परमात्मा तत्र संपद्य शेते । द्विविधायामपि सुषुप्तौ कर्मासंसर्गात् दुःखाभावः । द्वितीयायां परमानन्द इति विशेषः । ततः पुनर्भगवदिच्छादिवशेन परमात्मनः सकाशात् सर्वेषां प्राणादीनामात्मान्तानां व्युच्चरणम् । ततो जागरणे स्वस्थानस्थितिः पूर्वोक्त- रीत्या तत्तदनुभवादिचेति । नैयायिकास्तु—आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेनेति क्रमेणा- ऽऽत्मन्येव ज्ञानमुत्पद्यत इत्यात्मधर्मत्वं जन्यज्ञानस्याहुः । तन्नु श्रुतिविरोधादेवापास्तम् । विभोर्निरवयवस्यात्मनः संयोगं प्रति कर्तृत्वायोगाच्च । नचान्यतरकर्मज एव संयोगस्तत्रा- स्त्विति वाच्यम्, मनस एव कर्तृत्वापातात् । तस्यैव क्रियाश्रयत्वात्, जीवे गुणाधीनत्वे कर्तृत्वायोगादिति । मायावादिनस्तु—ब्रह्मात्मकमेकमेव ज्ञानं स्वीकृत्य बुद्धौ तस्य प्रतिबिम्बे तस्यैव व्याव- हारिकज्ञानत्वं चाङ्गीकृत्य चिदुपरागावरणभङ्गाभेदाभिव्यक्तिपक्षान् जीवस्य किंचिज्ज्ञत्वा- याहुः तदप्यसंगतम् । प्रतिबिम्बस्य वक्तुमशक्यत्वात् । ब्रह्मणो नीरूपत्वात् । बुद्धेश्चा- स्वच्छत्वात् । दर्पणवत् किंचिद्देशावच्छिन्नस्वच्छत्वमङ्गीकृत्याकाशस्येव ब्रह्मणः प्रतिबिम्बाङ्गी- कारेऽपि ब्रह्मणः सच्चिदानन्दरूपत्वेनं सदानन्दयोरपि प्रतिबिम्बापातात् । न चेष्टापत्तिः । ज्ञान- वत् तयोरपि भानापत्तेः । सर्वदा सर्वेषामन्तःशरीरस्थसर्वज्ञानापत्तेश्च । प्रतिबिम्बाधारत्व- योग्यायां बुद्धौ ज्ञानस्यैवान्तराणां नाड्यादीनां सन्निहितत्वेन तत्प्रतिबिम्बेऽपि बाधकाभावात् । किंचाविद्यायां ब्रह्मप्रतिबिम्बभूतानां जीवानां व्यापकत्या स्वतः सर्वपदार्थसंसृष्टत्वाद् बाध- काभावेनाविद्यायामपि सर्वप्रतिबिम्बसंभवेन तत्तत्संसर्गे द्विगुणीकृत्य जाते सर्वतादात्म्या- रश्मिः। बुद्धिगुणे । तमस इति तमोवृत्तित्वान्निद्रायाः । परमेति । सुखमहमस्वाप्सं न किंचिदवेदिषमिति प्रत्ययात् । प्राणादीनामिति उक्तप्रलयलीनानाम् । स्वस्थानेति 'पुनरेव इव समायाति' इति श्रुतेः । पूर्वोक्तेति ज्ञानप्रणाल्या । आदिना स्मरणम् । आत्मन्येवेति मनोव्यवच्छेदक एवकारः । श्रुतीति 'कामः संकल्पः' इत्यादिश्रुतौ धीशब्देन ज्ञानमतो धर्मत्वोक्तेस्तस्याः विरोधात् । एवेति प्रमाण- मूर्धन्यत्वादेवकारः । कर्तृत्वेति आत्मा मनसा संयुज्यत इत्यत्र । विभोरात्मन उत्तरदेशसंयुक्तस्य तदनुकूलत्वस्य कृतावभावात् सिद्धसाधनदोषापत्तेः । अन्यतरेति अणुविभ्वोरन्यतरत् कर्म तज्जः । एवकारेण कर्तुकृतेर्व्यवच्छेदः । तस्यैवेति मनस एव न त्वात्मन इत्येवकारः आत्मव्यवच्छेदकः । क्रियेति । धातूपात्तव्यापाराश्रयत्वं कर्तृत्वमिति कर्तृलक्षणमिति । जीव इति देहपरिमाणपरिमाणके । परिमाणगुणाधीनत्वे सति 'स्वतन्त्रः कर्ता'इति सूत्रेण कर्तृत्वायोगात् । एकमेवेति 'एकमेवाद्वितीयं ब्रह्म'इति श्रुतेरेवकारः । बुद्धाविति जीवोपाधिभूतायाम् । चिदुपरागेति चिदुपरागश्चावरण- भङ्गश्च भेदाभिव्यक्तिश्च, चिदुपरागावरणभङ्गाभेदाभिव्यक्तयः, तासां पक्षान् । अवि- द्यायामिति । 'माया चाविद्या च स्वयमेव भवति' इति नृसिंहतापनीयात् । सर्वेति सर्वेषां जीवानां प्रतिबिम्बसंभवेन । तत्तत्प्रतिबिम्बसंसर्गे यस्मिन्कस्मिंश्चिदाधाराधेयभावेऽपि । ब्रह्मप्रतिबिम्बो १. ब्रह्मणः सच्चिदानन्दाभिन्नत्वात्सर्वलक्षणानां प्रतिबिम्बः स्यादिति भावः । तच्च इष्टमेवे । 1492
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १९७ भाष्यप्रकाशः। पक्षस्य ब्रह्मण इव तेषामपि सर्वसंसृष्टत्वात् साक्षित्वान्न वृत्तिं विनैव स्वरूपचैतन्येन सर्वाव- भासकतायाः शक्यवचनत्वेन ब्रह्मवत् सर्वेषां सर्वज्ञता स्यात् । नचान्तःकरणभेदेन प्रमातृ- भेदात् तदनापत्तिः । व्यापकत्वेन सर्वेषां सर्वान्तःकरणसंसृष्टतया प्रमातृभेदस्याप्यकिंचित्- करत्वात् । संसर्गतौल्ये एकस्यैवैकान्तःकरणवैशिष्ट्यं, नापरस्येत्यत्र हेतुभावात् । अदृष्टादीनां हेतुताकल्पनायापनेनैव न्यायेन निरसितुं शक्यत्वात् । ननु दूषणग्रासान्मास्तु व्यापकानेक- जीववादः, किंतु व्यापकैकजीववादोऽस्तु । तथाच तस्य सर्वज्ञतायामिष्टापत्तिरितिचेत्, सत्य- मिष्टापत्तिः स्याद् यद्येकत्रैव सर्वज्ञता स्यात् । नचैवम् । अविशेषेणैकस्यैव सर्वशरीराधिष्ठाने सर्वत्राविद्योपहितसाक्षिण एकत्वात् सर्वत्रोपाधौ सर्वप्रतिबिम्बेषु सृष्टत्वाच्च ब्रह्मण इव जीव- स्यापि सर्वेषु प्रतिबिम्बेषु सर्वज्ञतायां बाधकाभावात् । नच ब्रह्माप्येकत्रैव सर्वज्ञं न सर्वत्रेति वाच्यम् । ब्रह्मविष्णुशिवादिशरीरावच्छेदेन सर्वज्ञताप्रतिपादकशास्त्रविरोधापातात् । नचाविद्यो- पाधौ सर्वप्रतिबिम्बेऽप्यन्तःकरणभेदेन प्रमातृभेदात् तन्निकटस्थस्यैव ज्ञानं प्रमातुर्भविष्यतीति न सर्वत्र सार्वज्ञापत्तिरिति वाच्यम् । प्रमातृभेदे करणभेदस्येव साक्ष्यभेदे प्रमातृभेदस्याप्य- प्रयोजकत्वात् । सर्वत्र साक्षिण एव भासकत्वात् नच तस्याविद्योपहितरूपेण न साक्षित्वं, किंतु अन्तःकरणोपहितरूपेण । तथाच रूपभेदेन साक्षिभेदान्न सार्वज्ञापत्तिरिति वाच्यम् । अप्रयोजकत्वात् । तथा सत्यपि हृदयनाडीप्रभृतीनामान्तराणामन्तःकरणे प्रतिबिम्बितानां ज्ञानं तस्य निर्बाधमित्यान्तरसर्वज्ञताया दुर्वारत्वात् । ननु सर्वेषां प्रतिबिम्बो नास्माभिरङ्गी- क्रियत इतिचेन्नैवम् । यदयं न स्वीक्रियते कस्तत्र हेतुः । न तावदसन्निधिः । अविद्याया व्याप- कत्वात् । नापि बिम्बालोकसंयोगाभावः । सूर्यादेर्विद्यमानत्वात् । अन्तःकरणश्लेषेऽप्यन्तःकरण- स्यान्तरसन्निहितत्वात् । अन्तर्गृहगतदर्पणप्रतिबिम्बितसूर्यप्रकाशेनाऽऽन्तरवस्तूनां प्रतिबिम्बदर्शना- दिहापि जीवचैतन्यप्रकाशितान्तःकरणसंसृष्टेष्वान्तरबिम्बेष्वालोकान्तरसंयोगानपेक्षणात् । जीव- चैतन्येऽन्येनान्तरप्रकाशनङ्गीकारे साक्षात्संसृष्टान्तःकरणतद्धर्मादीनामप्यनवभासप्रसङ्गात् । मते च तदवभासे तद्वदेव तत्संसृष्टानामध्यवभासादहंकारादिवद् हृदयनाडीप्रभृतीन्यप्यनुसंधीयेरन्। रश्मिः। जीवप्रतिबिम्ब इत्येवं संबन्धिनोर्द्वैगुण्यत्वेन द्विगुणीकृत्य जात इत्यर्थः । खप्रमात्रिति । तेषां जीवानां प्रमातृ अन्तःकरणविशिष्टचैतन्यम्, अन्तःकरणं वा तस्य भेदात् । तदनापत्तिरुक्ता भोग्यादृष्ट- वशात्तावन्मात्रग्रहणात् । एवेति प्रमातृभेदव्यवच्छेदकः । अन्तरिति । भावप्रधानोन्तः
' or 'गे'? Wait, look closely at L27: चि (ci) दु (du) प (pa) then a letter that has an 'e' stroke on top, and an anusvara? No, it's: चि दु प रा गे ति -> actually looks like "चिदुपरागेति" or "चिदुपेतेति"? Wait, let's look at the letter: It has vertical stroke, then 'त'? No, it looks like 'रा' and 'ग' merged, or 'रागेति'. Wait, could it be "चिदुपरागेति"? Yes, "चिदुपरागेति चितो जीवस्योपरागः". Wait, could it be a misprint in the book: "चिदुपेतेति" or "चिदुपरागेति"? Let's look at the character: It's 'रा' then 'गे' or 'ते'? Wait, 'र' with aa matra is 'रा', then 'ग' with e matra is 'गे': "चिदुपरागेति". Wait, look at 'गे' in 'जीवस्योपरागः' right next to it: In 'जीवस्योपरागः', the 'रा' has an aa-matra, 'गः' has visarga. In the quoted word: चि - दु - प - रा - गे - ति -> actually, the font has 'रा' and 'गे' combined or is it 'पे' '
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १९९ भाष्यप्रकाशः। करणे प्रतिबिम्बितानां प्रकाशोऽस्य स्यादेवेत्यधिकं तत्रानुभावितम् । वस्तुतस्त्वेवमपि गोत्वस्य सकलगोव्यक्तिष्विवैकस्यैव जीवस्य सर्वान्तःकरणसंसर्गस्य वक्तव्यत्वात् तथा सति तत्तदन्तःकरणवृत्तिनिर्गमेण तत्तद्विषयप्राप्तौ तत्तद्वृत्त्युपारूढस्य जीवस्यापि तत्तद्विषयोपराग- संभवात् सर्ववृत्तिसंसृष्टविषयाणां गोचरीकरणे बाधकाभावेन किंचिज्ज्ञत्वस्यानुपपन्नत्वमेव । अतो विषयविषयिभावो वा, विषयसंनिहितजीवचैतन्यतादात्म्यापन्नवृत्तिविषयसंयोगद्वारको जीवविषययोः परम्परासंबन्धो वा, अन्तःकरणद्रव्योपादानस्य जीवस्य वृत्तिविषयसंयोगजनितः कार्याकार्यसंयोगात् कारणाकारणसंयोगात्मा साक्षात्संबन्धो वा, अन्तःकरणोपहितस्य विषया- वभासकचैतन्यस्य विषयतादात्म
यहाँ दिए गए पृष्ठ का शुद्ध देवनागरी पाठ (लाइन-दर-लाइन) प्रस्तुत है:
२०० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ४ अ० ७ सू० १६ भाष्यप्रकाशः । पक्षः किंचिज्ज्ञत्वार्थमालम्ब्यते । तदाप्यावरणस्य वृत्त्युपरागतिरोभाव्यत्वाज्जाते वृत्त्युपरागे तेनावरणभङ्गे सर्वान्तःकरणसंसृष्टो जीवस्तत्तद्विषयेष्वभिव्यक्तस्तं तं विषयं प्रकाशयेदेवेति न किंचिज्ज्ञत्वोपपत्तिः । एवं च चैतन्यमात्रावरकाज्ञानस्य खद्योतप्रकाशेन महान्धकारस्येव ज्ञाने- नैकदेशाज्ञाननाशो वा, पटवत् संवेष्टनं वा, शीतभटवदपसरणं वा, चैतन्यमात्रावरकस्याप्य- ज्ञानस्य तत्तदाकारवृत्तिसंसृष्टावस्थविषयचैतन्यानावरकत्वस्वाभाव्यं वा, मूलाज्ञानावस्थाभेदरूपा- ज्ञानान्तरनाशो वा, अन्यो वा यः कश्चनावरणभङ्गो निरूप्यतां स सर्वोऽपि वृत्त्युपरागजन्य एवेति जाते वृत्त्युपरागे पूर्वोक्तरीत्या सकलान्तःकरणसंसृष्टस्य जीवस्य सर्वज्ञतैवायातीति नैतेऽपि रोचिष्णवः पक्षाः । नन्वेकस्मिन्नपि जीवे जन्मान्तरमापन्ने पूर्वजन्मSubjectानुसंधानादर्शनाच्छरीरभेदस्य सुखाद्यनु- संधानप्रयोजकत्वं कृतमिति स एव किंचिज्ज्ञताया अपि प्रयोजको भवतु । तथाच व्यापक- स्यापि जीवस्य शरीरान्तरे शरीरान्तरीयान्तःकरणवृत्त्यादिभिर्ज्ञानं न भविष्यतीति न सर्वेषां सार्वज्ञ्यापत्तिरिति चेन्न । शरीरभेदस्यानुसंधानप्रयोजकताया योगिकायव्यूहे जातिकरे भूतादौ च व्यभिचारेण तस्य किंचिज्ज्ञतायामप्रयोजकत्वात् । एतेनैव भोगायतनभेदस्य विशिष्टोपाधि- भेदस्य चाननुसंधानप्रयोजकत्वं परास्तं बोध्यम् । 'उद्यदायुधदोर्दण्डाः पतितस्वशिरोऽक्षिभिः । पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन् युधि' ।। इति भारते भूतार्थवादाच्च । नच योगिप्रभृतिषु प्रभावविशेषेणानुसंधानेऽपि रश्मिः । वाक्यादेवकारः । तमिति विषयविशेषम् । दृष्टत्वादेवकारः । जात इति निर्विषयकज्ञानस्या- भावाद्यावद्विषयविशेषे जाते वृत्तिसंबन्धे । एवकारो विषयप्रकाशस्य दृष्टत्वात् । ननूक्तं विषयविशेषे वृत्त्युपरागात्तावदावरणतिरोधानमिति चेन्मास्तु नानाजीवपक्षे सर्वज्ञतैकजीवपक्षे तु स्यादित्याहुः एवं चेत्यादि । कार्त्स्न्ये मात्रच् । पटवदिति ज्ञानेनेत्येव । चैतन्यमात्रावरकाज्ञानस्येत्यपि। अग्रेप्येवम्। अपीति एकदेशज्ञानान्यपिना गृह्यन्ते । तत्तदिति तत्तद्घटपटाद्याकारा या वृत्तिस्तया संसृष्टा अवस्था यस्य विषयस्यावच्छिन्नचैतन्यस्य । अनावरकत्वं स्वभावो यस्य तादृशत्वम् । मूलेति मूलं यदज्ञानं तमोरूपं तस्य ये अवस्थाभेदा अवस्थाप्रकारास्तद्रूपाण्यज्ञानान्तराणि तेषां नाश इत्यर्थः । अन्य इति । अनिर्वचनीयाविद्याजन्यत्वेन यथादृष्टं नाशो वेत्यावरणभङ्गः । पूर्वोक्तेति । तदापीत्यादि- नोक्ताऽव्यवहितपूर्वोक्तरीत्या । सकलानि अन्तःकरणानि तैः संसृष्टस्य जीवस्य एकत्वं विवक्षितम् । अन्तःकरणेति । आदिना वृत्तिविषयसंयोगः फलचैतन्यं च । जा(ग)तिस्मर इति तत्त्वेदं कर्मणः फलमिति फलस्मरणं तस्मिन् । व्यभिचारेणेति । जीवः पूर्वजन्मीनसुखाद्यननुसंधानवान् शरीरभे- दात् देवदत्तवदित्यनुमाने । साध्याभाववति योगिकायव्यूहे जा(ग)तिस्मरे मृतादौ च शरीरभेदरूपहेतु- सत्त्वाव्यभिचारः । किंचिदिति । जीवः किंचिज्ज्ञः शरीरभेदात् । देवदत्तवदिति । जीवः न किंचिज्ज्ञः शरीरभेदात् । कायव्यूहवत् । गतिस्मरमृतादिवच्चेत्यनुमानाभ्यां तस्य शरीरभेदरूपहेतोः अतन्त्रत्वा- द्विरुद्धत्वात् । एतेनेति अतन्त्रत्वेन । एवकारोऽन्यहेतुयोगव्यवच्छेदकः । भोगायतनति भोगा- यतनं शरीरमुक्तं तथापि तद्भोगायतनं साधारणम् । इदं तु भोगायतनं पृथगुपात्तम् । तस्य यो भेदस्तस्य । विशिष्टा उपाधयोन्तःकरणरूपास्तेषां भेदस्य । परास्तमिति योगिकायव्यूहादौ साधार- ण्यात्परास्तम् । पश्यन्त इति यथा पक्षीपुच्छस्य छिन्नस्य क्रियावत्त्वं तथादृष्टत्वम् । भूतेति पूर्वजातमर्थं प्रकाशयति यः स भूतार्थवादः यथेन्द्रो वृत्राय वज्रमुदयच्छदिति । योगीति । प्रभृति- 1496
भाष्यप्रकाश-रश्मि-परिवृंहितम् । २०१
भाष्यप्रकाशः । पूर्वोक्तोपाधीनामुत्सर्गस्तथात्वाभावानुसंधानप्रयोजकत्वहानिरिति वाच्यम् । बहुषु व्यभिचार- दर्शनात् । एकत्र तथादर्शने ह्यौत्सर्गिकानुसंधानतद्वत्त्वाद् विघातः प्रभावविशेषसमवधानवशात् कल्पयितुं शक्यते, न तु बहुषु तथादर्शने । अतो मनुष्यविशेषेषु भूतेषु मनुष्याद्युत्कृष्टयोनिषु सर्वेषु च पूर्वजन्मीनज्ञानस्य तत्र तत्रोक्तेः शास्त्रस्य प्रामाण्याच्च, न पूर्वोक्तोपाधीनामनुसंधान- तद्वत्त्वं साधीयः । नाप्यन्तःकरणभेदस्य तथात्वम् । दृष्टिसृष्टिवादे पूर्वपूर्वस्वान्तःकरणस्य नष्टत्वेनाग्रिमाग्रिमस्य तस्य भिन्नत्वात् पूर्वदृष्टानुसंधानाभावप्रसङ्गात् । सांख्यैक्येन तत्समर्थने तु अन्तःकरणभेदस्याप्रयोजकत्वात् तत्तदन्तःकरणैरस्य सर्वज्ञताया एवापत्तिः । अन्तःकरण- वैजात्येन समर्थनं तु मज्ज
'सलिल एको द्रष्टा भवति' इति श्रुत्या सुषुप्तावेव जीवब्रह्मणोरेकीभावश्रावणात् तदितरत्र तदुप- पगमे श्रुतिविरोधाज्जाग्रदादौ व्यावर्तकोपाधेर्विद्यमानत्वाच्च दर्पणसत्त्वे बिम्बयोरिव जीवब्रह्मणो- र्भेदसाधकवचनत्वात् । किंच । जीवब्रह्मणोरिदानीमभेदेऽन्योन्यधर्मविनिमयाद् ब्रह्मणो- ऽल्पज्ञताऽन्यस्य सर्वज्ञता चापद्येत इति नोक्तदूषणोद्धारसंभवः । यदि च बिम्बभूतं विषया- धिष्ठानचैतन्यमेव साक्षादाध्यासिकसंबन्धलाभाद् विषयप्रकाशकमित्याध्यासिकसंबन्धोप- लक्षितचैतन्यात्मना जीवैकीभावो, न तु बिम्बत्वविशिष्टरूपेणेति भेदस्यापि सद्भावान्नोक्तदूषणा- पत्तिरिति विभाव्यते, तदापि विषयतादात्म्यापन्नब्रह्मसत्त्वैकीभावो जात एवेति अहं घट इत्याकारज्ञानापत्तिः । अध्यासेनान्तःकरणतादात्म्यापन्नस्याहमिति ज्ञानवत् । अन्तः
भाष्यप्रकाश-रश्मि-परिवृंहितम्। २०३ भाष्यप्रकाशः। भेदसिद्ध्य विषयप्रकाशसंभवे गोलकातिरिक्तेन्द्रियकल्पनापि वृथा स्यात् तस्मादनादरणीया एवैते पक्षाः। एतेन प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्याभेदो ज्ञानस्य प्रत्यक्षत्वप्रयोजक इत्यपि निरस्तम्। किंच। यत्र भ्रमद्दटो गृह्येत तत्र वृत्त्युपरञ्जकस्य भ्रमणविषयनिष्ठत्वाभावेन तत्तद्विषुपरागायोगात् तद्ग्रहणापत्तिः। नच तत्रानिर्वचनीयं तज्जन्यत इति सुखेन तद्ग्रहणसंभव इति वाच्यम्। वृत्त्या घटाकारिकया आवरणाभिभवेन भ्रमणांशे विक्षेपस्याशक्यवचनत्वात्। किंच। वृत्त्या विषयचैतन्याभेदाभिव्यक्तावपि विषयप्रकाशके ब्रह्मचैतन्ये तदभावाभयनप्रदेशे तदननुभवेनेन्द्रियेऽपि तदभावाद् वृत्तिमात्रजनकस्येन्द्रियसंप्रयोगस्य विषयकारणताङ्कस्तेश्व संप्रयोगेणापि विषये तदाधानायोगादन्तःकरणावच्छिन्नेऽप्यहं भ्रमामीत्यननुभवात् स भ्रमः सर्वप्रालब्धसत्ताको घटेऽपि न स्यात्। यस्मात् काप्यसन् घटदेशेऽनुभूयते, तस्मात् तद्देशावच्छेदेन जायमाने मनोधर्मरूपे ज्ञानेऽस्ति तच्चेत् प्रमातृविषयचैतन्याभिन्नं स्यात् तदा स भ्रमः सर्वानु- भवगोचरः स्यात्। यस्माच्चैवं तस्मात् तज्ज्ञानं कार्यरूपं भिन्नमेवेति निश्चयः। नच शुक्तिरजता- दिस्थले इदमाकारवृत्तौ सत्यामपि रजताध्यासदर्शनादंशत एवावरणनाश इत्यंशान्तरेण भ्रमवि- क्षेपोऽपि भविष्यतीति न तदननुभवानुपपत्तिरिति वाच्यम्। विषये तत्सत्त्वेऽन्येषामपि तदनुभवापत्तेः। अन्येषां घटद्रष्टृणां प्रमाणवृत्त्या तदंशावरणनाशादस्रापि तदनुभवापत्तेश्च रश्मिः। निरस्तमिति वृत्त्यैव निर्वाह्नेन्तःकरणवृत्त्यवच्छिन्नचैतन्यपर्यन्तानुधावनस्य गौरवग्रस्तत्वात्। वृत्तीति। वृत्तिमुपरञ्जयति यद्भ्रमणं स्थिरत्वं तस्य भ्रमणविषयघटस्तन्निष्ठत्वस्याभावस्तदभावरूपत्वाच्चेनेत्यर्थः। अनिर्वचनीयमिति वृत्त्युपरञ्जकस्य भ्रमणाभावरूपस्य भ्रमणविषयनिष्ठत्वं ततोऽपि रजःप्रधानं भ्रमणं माया रजोरूपमिति विरुद्धधर्माधारत्वेनानिर्वचनीयम्। तदिति विषयचैतन्यम्। आवरणेति भावरणं माया तमःकार्यम्। विक्षेपो रजस्तस। रजस्तमसी न स्त इत्युक्तम्। अतः सत्त्वरूपा- वियेति निश्चयविषयो भ्रमद्दटो नानिवर्चनीय इत्यर्थः। विषयेति भ्रमरूपायाम्। विषयप्रेति। विषयाधिष्ठानचैतन्ये। तद्भावात् भ्रमाभावात्। ननु शुक्तिकारजतवद्भ्रमोस्त्वेवेति चेन्न। वृत्त्याऽभेदाभिव्यक्तिरूपतदभावात्। तदनन्विति वृत्त्याऽभेदाभिव्यक्तिरूपप्रमाननुभवेन। वृत्त्याभेदा- मिव्यक्तिरूपप्रमाभावात्। वृत्तीति। अन्तःकरणवृत्त्यवच्छिन्नचैतन्ये वृत्तिमात्रेत्यादिः। संप्रयोगः संबन्धः। विषयेति। किं तु विषयकारणह्लस्तिस्तु सगुणस्यैव। तदाधानेति वृत्त्याविषयचैतन्या- भेदाभिव्यक्तिरूपप्रमाधानायोगात्। अन्तरिति प्रमातरि, अहं भ्रमाश्रय इत्यननुभवात्। किंतु प्रलेभीत्यनुभवात्। भ्रमामीत्यत्र प्रत्ययार्थ आश्रयः। यद्वा अहं भ्रमं करोमीत्येवार्थः। सर्वस्यापि कारणे पुरुषव्यावृतिः। तदत्र वृत्तिसंपादने प्रमाणसंपादने वा पुरुषकृतिसाध्यत्वमिति भाष्यात्। न स्यादिति तदभाववति तत्प्रकारकज्ञानस्य भ्रमत्वमित्यत्र तत्प्रकारकेत्यत्रान्यत्रलब्धसत्ताकप्रकारकज्ञानसेत्यर्थाद्भ्रस्या- दित्यर्थः। मन इति। 'कामः सङ्कल्पः' इति बृहदारण्यके धीग्रहणादिति भावः। तज्ज्ञानमिति। भ्रमद्दटज्ञानम्। अन्येभ्यो भगवतश्च भिन्नम्। रजतेति। अध्यास नाम परस्मिन्परावभासः। अंशत इति सार्वविभक्तिकस्तसिः। इदमंशेन। भ्रमेति भ्रमेण कार्येण निमित्तेन विक्षेपः सात्त्विकबुद्धेर्विक्षेप- ण्डलनम्। यद्वा भ्रमो भ्रमणं तद्रूपो विक्षेपः भ्रमविक्षेपः। तद्दनन्विति। लब्धसत्ताकत्वस्य भ्रमेऽननु- भवेन घटे भ्रमानुपपत्तिः। तत्सत्त्व इति भ्रमसत्त्वे शुक्तिरजतवत्। तदंशेति विषयांशावरणनाशात्। 1499
विषयाश्रितावरणपक्षस्यैव दुष्टत्वात् पुरुषाश्रितपक्षे तूक्तरीत्या प्रमातरि प्रमाणे प्रमेये च वक्तुमशक्यत्वेन घट्टकुटीप्रभातवदननुभवस्य सर्वानुभवगोचरत्वस्य वापाताच्छुक्तिरजतस्या- ऽप्येतत्तुल्यत्वात् । एवं मूलाज्ञानावस्थारूपाज्ञानानां नानात्वमङ्गीकृत्य घटावरकाज्ञानस्य घटाकारवृत्त्या निवृत्तावपि नैश्चल्यावरकस्यानिवृत्त्या भ्रमविशेषादरणेऽपि पूर्वोक्तरीत्या पुरुषनिष्ठतैव तस्य वाच्येति चैतन्याभेदस्य पूर्ववदेवासिद्धेः । बुद्धेर्ज्ञानात्मकत्वमात्रकल्पनया तस्योत्पत्तिनाशशालित्वमात्रेण निर्वाहे विषयावरणतन्नानात्वकल्पनयोर्गुरुत्वादप्रामाणिकत्वाच्च । एतेनैव घटावरकाज्ञानगतावरणशक्तिमात्रनिवृत्तिर्न तु विक्षेपशक्तिनिवृत्तिरपीति पक्षो निरस्तो बोध्यः । नैश्चल्यावरणमन्तरेण भ्रमणविक्षेपासंभवादावरणशक्तिनिवर्तकतया अप्रयोजकत्वाच्च । जलप्रतिबिम्बितवृक्षाग्रोऽग्रत्वभ्रमे तु प्रतिबिम्बपदार्थस्यातिरिक्त
भाष्यप्रकाश-रश्मि-परिवृंहितम् । २०५ भाष्यप्रकाशः। तत्रावरणादिकल्पनाया एवायोगाच्चेति दिक् । अतो जन्यज्ञानसेन्द्रियान्वयव्यतिरेकानुसंधानदर्शनाच्छक्तिग्राहकेषु कोशादिषु, 'प्रेक्षोपल- ब्धिवित्संवित्' इति चिदादिभिः सह बुद्धेरेकार्थ्येन बुद्धेर्ज्ञानात्मकत्वनिश्चये तत्र ज्ञानोपचारपक्षस्या- युक्तत्वाच्च जन्यज्ञानमतिरिक्तमेव । तदुत्पत्तिप्रणाली च पूर्वोक्तरीतिकैवेति निश्चयः । भगवत्सा- क्षात्कारे तु नैषा प्रणाली । तस्य प्रमेयबलादेव भवनात् । नायमात्मेति श्रुतावितरसाधननिरासे- नोपलक्षणविधया निरस्तत्वात् । उत्तरार्धे वरणस्य लाभसाधनत्वकथने स्वस्यैव तनुविवरण- साधनत्वोक्तेश्च । वरणं चाऽनुग्रहः । स च धर्मान्तरमेव, न तु फलदित्सा । 'यस्यानुग्रहामि- च्छामि'इति वाक्यात् । स च भक्तिबीजभूतः । अतो 'भक्त्या मामभिजानाति', 'भक्त्या त्वनन्यया शक्यः', 'भक्त्याऽहमेकया ग्राह्यः' इत्यादिषु न विरोधः । अवतारदशायां तु मां सर्वे पश्यन्त्वित्या- कारिकया सामान्येच्छयापि दर्शनम् । तत्रापि नानाविधाभिः यथा 'मल्लानामशनिः' इत्यादौ । रश्मिः। मवव्यवच्छेदकः । आवरणादीति । एवकारो वृत्त्यावरणभङ्गव्यवच्छेदकः । दिगिति कुतर्काभिनि- वेशनिषेधादिह्यात्रमुक्तमित्यर्थः । अन्वयेति । प्रसिद्धम् । चिदादिभिरिति चित् आदी चिदादी । चित् आदिर्यस्याः सा चिदादिः । चिदादी च चिदादिश्च चिदादयः, तामिर्विधादिभिः । ज्ञानात्मकेति । 'यन्मायया बहिः क्षित्ता स्यायते बुद्धिरर्यवत् । निवर्तते च यद्बोधात्तं नमामि जनार्दनम्' ॥ इति । ख्यातिवादमङ्गलाचरणादिहेतुविषयत्वेन बुद्धिरूपज्ञानात्मकत्वनिश्चये । तत्रेति वृत्तौ । एवकारस्तु ज्ञानस्य जन्यत्वमीश्वराभेदविरुद्धमपि 'अजायमानो बहुधा विजायते' इति श्रुत्यविरुद्धमि- त्यनतिरिक्तत्वव्यवच्छेदकः । पूर्वोक्तेति । ज्ञानप्रक्रियारम्ये तत्रायं क्रम इत्यादिनोकरीतिकैव । एव- कारेण 'नैषा तर्केण मतिरापनेया' इति श्रुतेः श्रुत्यविरुद्धत्वाच्छ्रुतिविरुद्धपक्षो व्यवच्छिद्यते । एवेति । एवकारः करणविषयव्यवच्छेदकः । तदेवाहूः नायमिति । उत्तरेति । 'यमेवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनुं स्वाम्' इत्युत्तरार्धे । स्वस्यैवेति । आत्मपदेन कर्तृवाचकेन तयोक्तेश्च । 'तस्यैष आत्मा' इति जीवभेदकथनाजीवव्यवच्छेदक एवकारः । नत्विति । इच्छाया इच्छाकर्मत्वाभावात् । भक्तिलभ्यो वरणलभ्यो वेति विरोधमेकविषयत्वेन परिहरन्ति स्म स चेति । श्रुत्युक्तोऽनुग्रहः । न विरोध इति भक्त्यनुग्रहयोः सहानवस्थानलक्षणो विरोधो न । तत्रापीति सामान्येच्छायामपि । नानाविधा मल्लाः मामशनित्वेन पश्यन्तु, नरो मां नरवरत्वेन पश्यन्तु । स्त्रियो मां मूर्तिमत्स्मरत्वेन पश्यन्तु, गोपाः मां स्वजनत्वेन पश्यन्तु, असत्क्षितिभुजो मां शास्तृत्वेन पश्यन्तु । स्वपितरौ मां शिशुत्वेन पश्यताम् । मोजपतिर्मृत्युत्वेन पश्यतु । अविद्वांसो विराट्त्वेन पश्यन्तु । योगिनस्तत्त्वेन पश्यन्तु, वृष्णयः परदेवतात्वेन पश्यन्तु इत्येवंरूपाः । मल्लानामिति । 'मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्त्तिमान् गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः । मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ॥' इति श्लोकः ॥ 1501
२०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ४ अ० ७ सू० १६ भाष्यप्रकाशः । एवं च, भक्त्या सामान्येच्छया चेति द्वेधा दर्शनम् । उभयथाऽपि प्रमेयबलमेव कारणमिति न विरोधः । स्वसाधनसामग्र्यादिभिर्दर्शनज्ञानं त्वभिमानमात्रात् । अत एव 'अविज्ञातं विजानतां विज्ञातमविजानताम्' इत्यादिश्रुतिः संगच्छते । 'मनसैवानुद्रष्टव्यम्' इत्यादावपि प्रमेयबलानुगृहीतमेव तदभिप्रेतमिति श्रुत्यन्तराऽविरोधायानुसंधेयमिति शुभम् । प्रकृतमनुसरामः ॥ १६ ॥ इति सप्तमं प्राणबलेत्यधिकरणम् ॥ ७ ॥ रश्मिः । एवं चेति । अवतारानवतारभेदेन पूर्णसाक्षात्कार उक्ते च । एवेति 'यतो वाचो निवर्तन्ते' इति श्रुतेरेवकारः । न विरोध इति कार्यकारणभावाद्भक्तिसामान्येच्छयोः सहानवस्थानलक्षणो विरोधो न । एवमवतारानवतारयोर्दर्शनप्रणाड्याऽनुक्त्वा स्वसेव्यविषय आहुः स्वेति । साधनानि तनुवित्तजा मानसीसेवा तद्रूपाणि । आदिनान्यान्यपि श्रेयांसि । 'श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते' इति वाक्यात् । दर्शनज्ञानं तु परस्यैव । तत्राभिमानः कारकत्वाभावात् । स्वसेव्यज्ञानं तु नाभिमानमात्रात् । तत्र श्रुतिमाहुः अत एवेति । अभिमानमात्रादेव विजानतामिति । अभिमान- मात्रं नापितु यथार्थज्ञानमिति ज्ञानवताम् । 'यतो वाचो निवर्तन्ते' इति श्रुतिविरोधादविज्ञातम् । विज्ञातं यथार्थज्ञानाविषयत्वेन ज्ञातं यैस्तैः, तेऽविजानन्तस्तेषाम् । ननु दर्शनज्ञानस्याभिमानमात्रत्वे कदाप्यनिर्मोक्षप्रसङ्ग इति चेन्न । स्वसाधनेत्याद्युक्तमर्यादामार्गीयाणां व्यभिचारिण्या भक्त्या तत्प्राप्तेः । 'तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मानु॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भि॑ः । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ऽस्मान् आयुः॒ प्र मो॑षीः' इति । तत् तच्छब्दवाच्यं त्वा त्वां यामि प्राप्नोमि । पद्ध्यां सेवे च । कीदृशं त्वां ब्रह्मणा प्रत्यहं मानसीसेवा कुर्वता वन्दमानं । सुपां सुः । वन्दनं सेवासमाप्तिद्योतकम् । तद् यजमान आशास्ते न तु तनुजादिसेवाविषयं करोति । हविर्भिर्विविधोपचारैः अहेडमानः हेड अनादरे । सेवायामादरं कुर्वन् । वरुण इहबोधी उरु शंसमानो यजमानः ज्ञानवान् कीर्तनभक्तिमांश्च । आयुःकालं प्रकर्षेण अस्मान् मोषीः चोरितवान् छान्दसप्रयोगः प्रमोषीत् । 'आयुर्हरति वै पुंसामुद्यन्नस्तमयन्नसौ । ऋते तं यः क्षणो नीत उत्तमश्लोकवार्तया' इति वाक्यात् । 'मनसैवानुद्रष्टव्यम्' । 'मानसी सा परा मता' । 'तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत्' इति । एवंविधेषु न भक्तिर्नेंच्छा न प्रमेयबलमिति तेषां संगतिमाहुः मनसैवेति । आदिशब्दार्थं आभासोक्तः । प्रमेयेति प्रमेयं भगवान् तस्य बलं भक्ति- स्तस्यानुगृहीतं मनः । संबन्धश्च निवेश्यता । तथा च प्रमेयबलनिवेश्यमनुगृहीतम् । 'तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत्' 'यथा मत्त्येश्वरे मनः' इति वाक्याभ्याम् । एवकारेणाननुगृहीतमशुद्धं मनो व्यव- च्छिद्यते । तदिति मनः । श्रुत्यन्तरेति । सा च 'भक्तिरस भजनं तदिहामुत्रफलभोगनैराश्येनामुष्मि- न्मनःकल्पनमेतदेव च नैःकर्म्यम्' इति । तथा चैतादृशमनोग्राह्यमिति भावः । श्रीकपिलवाक्यमपि 'मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ । लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम्' इति ॥ १६ ॥ 1502
भाष्यप्रकाश-रश्मि-परिवृंहितम् । २०७ तदिन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥ (२-४-८) इदमत्र विचार्यते । इन्द्रियाणां प्राणाधीनसर्वव्यापारत्वात् तन्नामव्यप- देशाच्च प्राणवृत्तिरूपाणीन्द्रियाणि, तत्त्वान्तराणि वेति संशयः । तत्त्वान्तराण्ये- वेति सिद्धान्तः । तानीन्द्रियाणि तत्त्वान्तराणि । कुतः । तद्व्यपदेशात् । इन्द्रियशब्देन व्यपदेशात् । 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति भिन्नशब्दवाच्यानां क्वचिदेकशब्दवाच्यत्वेऽपि नैकत्वम् । आसन्द्येऽपि तर्हि भेदः स्यादित्यत आह अन्यत्र श्रेष्ठात् । तस्य ते यौगिकाः शब्दा इति ॥ १७ ॥ भाष्यप्रकाशः। तदिन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥ सूत्रप्रयोजनमाहुः इदमित्यादिना, सिद्धान्त इत्यन्तेन । पूर्वाधिकरणे इन्द्रियाणां प्राणाधीनसर्वव्यापारकर्तृत्वं सिद्धम् । श्रुतौ च मुख्यं प्राणमिन्द्रियाणि चोपक्रम्य, 'हन्तास्यैव सर्वे रूपं भवामेति त एतस्यैव सर्वे रूपमभवंस्तस्मादेत एतेनाख्यायन्ते प्राणा इति' तन्नामव्यपदेशाच्च प्राणवृत्तिरूपाणीन्द्रियाणि उत रूपभवनप्राक्कालेऽपि सत्त्वात् तत्त्वान्तराणि वेति संशयः । तत्र पूर्वं तत्त्वान्तरत्वेऽपि पश्चादे- तद्रूपभवनभावनेन जन्मान्तरवत् पूर्वरूपत्यागालाभात् पूर्वोक्तयुक्तिभ्यां चेदानीं प्राणवृत्तिरूपाण्ये- वेति प्राप्ते, तत्त्वान्तराण्येवेति सिद्धान्त इत्यर्थः । तद् व्युत्पादनाय सूत्रं व्याकुर्वन्ति तानी- त्यादि । सूत्रे तदिति लुप्तविभक्तिकं पदं तानीत्यनेन व्याख्यातम् । अन्ये तु त इति पठन्ति । इन्द्रियशब्देनेत्यादि । तथाच यथा श्रुतौ इन्द्रियाणीति व्यपदेशस्तथेदानीमपि लोके शास्त्रे च व्यपदेशः । अतो नात्र जन्मान्तरन्यायः संभवति किंतु भृत्यानां स्वामिस्वभावानुसरणमिव प्राणस्वभावानुसरणमेव तद्रूपभवनम् । नच प्राणशब्दव्यपदेशविरोधः । द्रोणकर्णादिषु कुरुशब्दव्यपदेशवद् गौण्यापि तत्संभवात् । अतो भिन्नशब्दवाच्यानां क्वचिदेकशब्दवाच्यत्वेपि नैकत्वमिति सिद्धमित्यर्थः अत्राशङ्कते । आसन्द्येऽपीत्यादि । समादधते तस्य ते इति । रश्मिः। तदिन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥ सिद्धमिति । प्राणवताञ्छब्दादि- त्यत्रस्पष्टम् । श्रुताविति सप्तान्नब्राह्मणे । 'तानि ज्ञातुं दधिरेऽयं वै श्रेष्ठो यः संचरंश्चाचरंश्च न व्यथतेऽथो नरिष्यति । हन्तास्यैव सर्वे रूपं भवामेति त एतस्यैव सर्वे रूपमभवंस्तस्मादेत एतेना- ख्यायन्ते प्राणा इति तेन ह्वाय तत्कुलमाख्यायन्ते यस्मिन्कुले भवति य एवं वेद य उहैवं विदा स्पर्धतेनुशुष्य हैवान्ततो म्रियत इत्यध्यात्सम्' इति श्रुतौ । अस्यैवेति प्राणस्य । भवामेति शांकरभाष्ये पाठः । एत इति प्राणाः । एतेन प्राणपदेनाख्यायन्ते । प्राक्काल इति तच्छ्रुतावेव । पूर्वोक्तेति । हन्तास्यैवेत्याद्युक्तयुक्तिभ्याम् । इतीति इति पूर्वपक्षे प्राप्ते । लुप्तेति । अव्यय- मित्यर्थः । अन्य इति । शंकराचार्यादयः ते मुख्येतरे प्राणा इति व्याचक्षते । श्रुतिविरोधाभासं परिहरन्ति स्म अत इत्यादिना श्रुतिलोकशास्त्रेभ्यः । शास्त्रं तु भवाम, अभवन्नित्यत्र भूसत्ताया- मिति । न तु भूउत्पत्ताविति । जन्मान्तरेति । पूर्वं तत्त्वान्तरत्वेपीत्याद्युक्तः । कुर्वित्यादि । कौरव- सैन्यसागरमित्यत्र । कुरोरिदं कौरवं सैन्यं तदेव सागरस्तस्मिन्नित्यर्थात् । भाष्ये वेतीत्यत्रेतिशब्दो हेता- 1503
Here is the complete, line-by-line transcription of the Sanskrit text from the image into clean Markdown in Unicode Devanagari:
३०८ श्रीब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ४ अ० ८ सू० २० भेदश्रुतेः ॥ १८ ॥ यद्यपि प्राणशब्दप्रयोगस्तत्रापि भेदेन श्रूयते । तमुत्क्रामन्तं प्राणोऽनू- त्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तीति ॥ १८ ॥ वैलक्षण्याच्च ॥ १९ ॥ वैलक्षण्यं च प्राणस्य चेन्द्रियाणां च । सुप्तेषु वागादिषु प्राणो जागर्ति । स्वामिसेवकवच्चानेकं वैलक्षण्यम् ॥ १९ ॥ इति द्वितीयाध्याये चतुर्थपादे अष्टमं तदिन्द्रियाधिकरणम् ॥ ८ ॥ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥ ( २-४-९ ) भूतभौतिकसृष्टिः परमेश्वरादेवेति निर्णीय नामरूपव्याकरणमपि परमेश्वरा- देवेति निश्चयार्थमधिकरणारम्भः । लोके नामरूपकरणं कुलालादिजीवेषु प्रसिद्ध-
चर्येण नामरूपयोरपि जीव एव कर्ता भविष्यतीत्याशङ्कां निराकरोति तुशब्दः । संज्ञामूर्तीः कॢप्तिर्नामरूपयोर्निर्माणम् । त्रिवृत्कुर्वतः यस्त्रिवृत्करोति तस्मात् । 'सेयं देवतैक्षत हन्ताऽहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति । तासां त्रिवृतं त्रिवृतमेकैकां करवाणि' इति त्रिवृत्कर्ता परमेश्वरः । स एव नामरूपयोरपि कर्ता । कुतः । उपदेशात् । उप समीपे
भाष्यप्रकाशः । नुप्रवेश उक्तस्तथैव तेन तेन रूपेणान्येषां च । तत्र यद्यपीन्द्रो नोक्तस्तथापि समानन्यायात् सोऽपि बलरूपेण प्रविष्टो बोध्यः । एवं सति तेषां जीवानां तत्तत्कार्यार्थमेवानुप्रवेशात् तत्साहचर्येण नामरूपव्याकरणयोरपि स स जीव एव कर्ता । अथैकवचनव्याकोपानेदं रोचते, तदा जीव- समष्टिरूपो हिरण्यगर्भ एव तत्कर्ताऽस्तु । ईक्षणप्रकारान्तःप्रविष्टा जीवेनेति तृतीया तु, चारेण परबलं प्रविश्याकलयामीतिवदुपपद्यते । अतः परमेश्वरः प्रयोजको भवतु । कर्ता तु तयोर्जीव एव प्रवेष्टृत्वादित्याशङ्कां निराचष्टे तुशब्द इत्यर्थः । सिद्धान्तं वक्तुं सूत्रं व्याकुर्वन्ति संज्ञे- त्यादि । सत्यं जीवेऽपि लोकन्यायेन सामर्थ्यवशान्नामरूपव्याकर्तृत्वं वक्तुं शक्यते, तथापि श्रुतौ त्रिवृत्करणेन सहैव पूर्वं नामरूपव्याकरणमुपदिष्टं, तदा न जीवस्य शरीरसंबन्ध इति तदानीं
रश्मिः । एवकारश्छान्दोग्यात् । हिरण्यगर्भोवेति । पूर्वपक्षत्वाज्जीवत्वम् । आश्विना शिवविष्णू । अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति छान्दोग्यादाहुः नामेति । क्रियेति । यथा गोवर्धनोद्धरणरूपव्याकरणं गोवर्धनोद्धरणक्रियासाध्यम् । ईश्वरस्यैव सर्वरूपत्वात् । अन्येषा- मिति देवानाम् । तथैवेति एवकारः प्रकारान्तरव्यवच्छेदकः । बहुष्वार्थादित्याभाष्यं विवृण्वन्ति स्म एवं सतीति । एवेति समानन्यायादेवकारः । जीव एवेति छान्दोग्ये जीवपदादेवकारो ऽशक्यव्यवच्छेदकः । एकत्वेत्यादि सेयं देवतैक्षतेत्येकवचनव्याकोपात् । रोचत इति तुभ्यं सिद्धा- न्तिने रोचते । जीवेति खराट् । एवकारो ऽशक्यव्यवच्छेदकः । अनेन जीवेनात्मनेत्यादीक्षणप्रकारः । चारेणेति चर एव चारो दूतप्रभेदस्तेन परबलं प्रविश्याहं राजाकलयामि तद्वदनेन जीवेनात्मनानु- प्रविश्य नामरूपे अहं व्याकरवाणीत्यन्तःकरण उपपद्यत इत्यर्थः । यद्वा । चरति परबलं प्रविश्येति चरः । घञ् । चर एव चारः । लोकेऽत्र चारकर्तृकमेव सैन्यसंकलनं हेतुकर्तृत्वाद्वाजात्मन्यध्यारोपयति । आकलयामीत्युत्तमपुरुषप्रयोगात् । एवं जीवकर्तृकं संज्ञामरूपव्याकरणं हेतुकर्तृत्वाद्देवतात्मन्यध्या- रोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगात्तद्वदित्यर्थः । जीव एवेति दृष्टान्तसत्त्वादेवकारः । प्रवेष्टृत्वा- दिति । अत्र तु प्रयोजककर्तेति भावः । सिद्धान्ते साध्यं भाष्यं स्फुटम् । साधनभाष्ये उप समीप इत्यादिभाष्य
२१० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ०२ पा०४ प्र०९ सू०२० एकवाक्ये उभयकरणस्य प्रतिज्ञानात् । जीवस्य तु त्रिवृत्करणानन्तरं शरीर- संबन्धे कर्तृत्वात् । तस्मान्नामरूपप्रपञ्चस्य भगवानेव कर्तेति सिद्धम् ॥ २० ॥ इति द्वितीयाध्याये चतुर्थपादे नवमं संज्ञामूर्तिकॢप्त्यधिकरणम् ॥ ९ ॥ भाष्यप्रकाशः। जीवस्य तत्कर्तृत्वं न वक्तुं शक्यते । शरीरसंबन्धोत्तरमेव तस्य बाह्यक्रियाकर्तृत्वस्य दृष्टत्वात्, त्रिवृत्करणसमये हिरण्यगर्भस्याप्यनुत्पन्नत्वात् । यत्पुनः पुराणेषु 'नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः' ॥ इति 'सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक्' ॥ इति पठ्यते । तदपि पाश्च
Answering the request, here is the line-by-line transcription of the Sanskrit text from the image:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । २११ मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥ (२-४-१०) इदमीदानीं विचार्यते । 'अन्नमशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तत् पुरीषं भवति, यो मध्यमस्तन्मांसं, योऽणिष्ठस्तन्मनः । आपः पीता- स्त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुस्तन्मूत्रं, यो मध्यमस्तल्लोहितं, योऽणिष्ठः स प्राणः । तेजोऽशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तदस्थि भवति, यो मध्यमः सा मज्जा, योऽणिष्ठः सा वाक् । अन्नमयं हि सौम्य मन आपोमयः प्राणस्तेजोमयी वाक्' इति । तत्र संशयः । वाक्प्राणमनांसि किं भौति- कानि आहोस्विद् एतत्क्वाणिति ? 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति श्रुतिविप्रतिषेधात् संशयः । त्रिवृत्करणप्रसङ्गेनोत्थितामाशङ्कां निराकरोति । भाष्यप्रकाशः। अतः, 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यदास्ते' इति श्रुत्यन्तराद् भगवान्नेव पूर्वं नामरूपकर्ता । जीवानां तु पश्चादेव भगवदाविष्ठानां तथात्वम् । न चादिसृष्टौ भगवतैव तत्करणे तदानीं जीवप्रवेशवैयर्थ्यम् । तस्य भोक्तृत्वात् तदर्थमेवैतत्करणेन तस्यावश्यक- कत्वादिति । तस्माद् भगवान्नेव नामरूपप्रपञ्चस्य कर्तेति सिद्धमित्यर्थः ॥ २० ॥ इति नवमं संज्ञामूर्त्यधिकरणम् ॥ ९ ॥ मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥ अधिकरणप्रयोजनमाहुः इद- मित्यादि । इदमिति वक्ष्यमाणं वाक्यम् । संशयं तद्बीजं चाहुः तत्रेत्यादि । नन्विन्द्रिय- विचार एवेदं विचारणीयम्, इहास कृतो विचार इत्यत आहुः त्रिवृदित्यादि । उक्तश्रुति- रश्मिः। स अत इति । श्रुत्यन्तरादिति श्रुतिः 'यो ब्रह्माणम्' इति पूर्वमुक्ता तस्या अन्या श्रुतिः श्रुत्यन्तरं तस्मात् । महानारायणेऽस्ति । एवेति हिरण्यगर्भव्यवच्छेदकः । जीवानामिति । तुर्हिरण्यगर्भादिव्यावर्तकः । पश्चादेवेति क्वापि जीवस्य पूर्वमभवनादेवकारः पूर्वव्यवच्छेदकः । भगवदिति । अनेन जीवेनात्मनेति सहार्थे तृतीयायाः । मय्येव सकलं जातमित्यादिषु दृष्टान्तात् । आसीदिति पुरुषविधब्राह्मणे 'आत्मैवेदमग्र आसीत्'इत्युपक्रम्य 'द्वितीयाद्वै भयं भवति'इत्यन्तगादिवाष्टिः। न च भयाहंकारापहतपाप्मत्वमयसृष्टिर्न तु जगदुपयोगिनीति वाच्यम् । कारणगुणाः कार्यगुणा- नारम्भन्ते इति नैयायिकप्रवादात् । आत्मैवेत्यत्र सूक्ष्मतत्त्वाङ्गीकारात् । अन्यथा प्रपञ्चेऽष्टादशतत्त्वानि न प्रतीयन्ते । एवेति सृष्टेः कारणरूपत्वेन जीवानामहङ्कारकार्यत्वेनामावादेवकारः । मुक्तजीवानां भगवत्त्वादन्येषामहङ्कारत्मकत्वात् । तस्येति जीवस्य । तदर्थमेवेति एवकारेण ब्रह्मव्यवच्छेदः । 'न तदश्नोति कश्चन न तदश्नोति कंचन'इति श्रुतेर्ब्रह्मणोऽशनाभावात् । भक्तमनोरथपूरकत्वेन संभोग- प्राप्तिरिति चेन्न वैशेष्यादित्यत्र संभोग उक्तो भगवतः । तस्येति प्रवेशस्य ॥ २० ॥ नवमं संज्ञामूर्त्तिरित्यधिकरणम् ॥ ९ ॥ मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥ वाक्यमिति वाक्ये तेजोवृतादि । 'तेजो वै वृतम्' इति श्रुतेः । तत्रेत्यादीति । ननु भौतिकत्वं स्पष्टम्, कुतः संशय इत्यत आहुः 1507
२१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० १० सू० २१ तत्र पूर्वपक्षमाह । मांसादि भौमं, पुरीषमांसादि तेजोऽब्बन्नप्रकृतिकम् । कुतः । यथाशब्दम् । अन्नमशितमित्यादिश्रुतितो निःसंदिग्धं प्रतिपादनात् । किमतो यद्येवं तदाह इतरयोश्च । वाचि तुल्यत्वान्न संदेहः । इतरयोर्मनः- प्राणयोरपि भौतिकत्वं यथाशब्दम् । उद्गमश्रुतिस्तु स्तुतित्वेनानुवादपरा भविष्यति । उपपादकश्रुतिबाधात् । तस्माद् भौतिकान्येव मनःप्रभृतीनीत्येवं प्राप्ते ॥ २१ ॥ उच्यते- भाष्यप्रकाशः । विप्रतिषेधजनितामाशङ्कां त्रिवृत्करणप्रसङ्गेनेदानीं निराचष्ट इत्यर्थः । तत्रेति सूत्रे । ननु सूत्रे तद्बोधकपदाभावात् कथमस्यैतद्विषयत्वमित्याकाङ्क्षायां मांसादीत्यादिपदेन तत्संग्रहादेतस्य विषयत्वाव
भाष्यप्रकाश-रश्मि-परिवृंहितम् । २१३ वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥ अन्नादिभिर्विशेष्यते मनःप्रभृति सम्यक् कार्यक्षमं भवति । तथा दर्शनानुपादानाच्च । अतो वैशेष्यादेव हेतोरन्नमयत्वादिवादः । ननु कथमेतदवगम्यते । वैशेष्याद् गौणो वाद इत्युच्यते । अथास्मन्नेऽजाय- भाष्यप्रकाशः। वक्तुम् । अतः स्तुतित्वेनेतरदनुवादपरा भविष्यति । एतदनुवादेनात्र ब्रह्मणः प्रयोजकत्वबोधनेऽ- प्युपपत्तेः नच श्रुतित्वाविशेषे कथं तस्या एवान्यथानयनमिति शङ्क्यम् । उपपादकस्य त्रेधा विधानस्य या श्रुतिस्तस्या बाधात् । ऐतरेयोक्तानादरेऽपीदमेव बीजम् । शेषं स्फुटम् ॥ २१ ॥ वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥ सिद्धान्तसूत्रं व्याकुर्वन्ति अन्नादिभि- रित्यादि । यादृशमन्नमश्नाति तादृगेवाशितुर्मनो भवतीति दर्शनं तथादर्शनं, पञ्चदशाहानि माशीरित्यारम्य, साऽन्नेनोपसमाहिता प्राज्वालीदित्यन्तेन पोषणादेव कार्यक्षमत्वोपपादनमुप- पादनम्, ताभ्यां तथेति, वाक्प्राणस्थल उपपादनाभावेऽपि समानन्यायात् तेजोमयत्वापोमयत्व- वादो बोध्यः । अतो विशेषणं विशेषस्तस्य भावो वैशेष्यं तस्मादेव तथेत्यर्थः । अनुपपादितस्थले शङ्कते नन्वित्यादि । समादधते अथेत्यादि । श्रुतिस्तुतृतीयब्राह्मणस्था । अथास्मन्नेऽजाय- रश्मिः। विवरीतुमाहुः न चेत्यादि । नेति । किं तु साक्षाद्ब्रह्मत्वम् । सेति 'एतस्माज्जायते प्राणः' इति श्रुतिः । अक्षरादिति द्वितीयमुण्डके 'अक्षरात्परतः परः' इति तत्पूर्वश्रुतेरक्षरात्परं द्योतयेत् । तदन्विति । एतस्मादिति पदेन पूर्वश्रुत्यनुवादपरा । ननु तथापि मनसो भौतिकत्वं कथमिति चेत्तत्राहुः एतदिति । अक्षरात्परतः परस्यैतस्मात्पदेनानुवादेनात्र श्रुतौ । एतस्मादिति पञ्चम्याः प्रयोजकत्वार्थपरत्वेऽपि श्रुतिविरहात् ब्रह्मणः प्रयोजकत्वबोधनेऽप्युपपत्तेर्न भौतिकत्वमित्युक्तभौतिकत्वाभावो न । छान्दोग्ये सदेवेत्यत्र सतस्तेजस्तेजस आपः अद्भ्योऽन्नमित्यन्नमयं मनोऽन्नमयमिति भौममिति । उपपादकेति भाष्यं विवरीतुमाहुः न चेति । तस्या एव मुण्डकश्श्रुतेरेव । एवकारस्त्रेधाविधायकश्रुतिव्यव- च्छेदकः । उपपादकापेक्षयानुपपादकमुण्डकवाक्यमुक्त इति भावः । इदमेवेति त्रेधाऽविधानमेव । अनुपपादकत्वं वा । बीजं कारणम् ॥ २१ ॥ वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥ तथादर्शनादित्यादिभाष्यं विवृण्वन्ति स्म यादृगित्यादि । माशीरिति माऽशनं कार्षीः । साऽन्नेनेति साऽवशिष्टा कलाऽन्नेन मनोरूपेणोप- समाहिता दीप्तेत्यर्थः । पोषेति । एवकारः प्रत्यक्षसंवादात् । कार्येति छान्दोग्ये कार्यक्षमत्वं वेदानुभवक्षमत्वं तस्योपपादनम् । तथेति अन्नादिभिर्मनःप्रभृतिर्विशेष्यत इत्यर्थः । 'अन्नमयम् हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागि'त्यादयो मनःप्रभृतयश्च । उपपादनेति 'एका हि सोम्य ते षोडशानां कलानामेका कलातिशिष्टाऽभूत् साऽन्नेनोपसमाहिता प्राज्वालीत्येतद्धि वेदानुभव- सक्षममयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञावि'ति श्रुतौ प्रत्यक्ष उपपादनाभावेऽपीत्यर्थः । तेज इत्यादि । अम्मयत्वेति वक्तव्ये आपोमयत्वेति श्रुत्यनुवादकं पदम् । अत इत्यादि भाष्यं विवृण्वन्ति स्म अत इत्यादिना । एवकारः समानं व्यवच्छिनत्ति । न समानादित्यर्थः । अनुपपेति वाक्प्राणस्थले । मनस्तूपपादितम् 'एका हि सोम्य' इत्याद्युक्तश्रुतौ । 1509