अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1602, कुल 2600 में से
संदर्भ में पढ़ें१९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० ७ सू० १६ भाष्यप्रकाशः। तमस उद्रेक ईश्वरेच्छादिवशात् तदाऽयं तैः सर्वैः सह पुरीतात प्रविशति । पुण्डरीकाकारो मांस- पिण्डो हृदयं, तद्वेष्टिता नाड्यः पुरीतच्छब्देनोच्यन्ते । तदा सुषुप्तिः। कदाचिद्भगवदिच्छया तस्य हृदयस्यान्तर्य आकाशशब्दवाच्यः परमात्मा तत्र संपद्य शेते । द्विविधायामपि सुषुप्तौ कर्मासंसर्गात् दुःखाभावः । द्वितीयायां परमानन्द इति विशेषः । ततः पुनर्भगवदिच्छादिवशेन परमात्मनः सकाशात् सर्वेषां प्राणादीनामात्मान्तानां व्युच्चरणम् । ततो जागरणे स्वस्थानस्थितिः पूर्वोक्त- रीत्या तत्तदनुभवादिचेति । नैयायिकास्तु—आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेनेति क्रमेणा- ऽऽत्मन्येव ज्ञानमुत्पद्यत इत्यात्मधर्मत्वं जन्यज्ञानस्याहुः । तन्नु श्रुतिविरोधादेवापास्तम् । विभोर्निरवयवस्यात्मनः संयोगं प्रति कर्तृत्वायोगाच्च । नचान्यतरकर्मज एव संयोगस्तत्रा- स्त्विति वाच्यम्, मनस एव कर्तृत्वापातात् । तस्यैव क्रियाश्रयत्वात्, जीवे गुणाधीनत्वे कर्तृत्वायोगादिति । मायावादिनस्तु—ब्रह्मात्मकमेकमेव ज्ञानं स्वीकृत्य बुद्धौ तस्य प्रतिबिम्बे तस्यैव व्याव- हारिकज्ञानत्वं चाङ्गीकृत्य चिदुपरागावरणभङ्गाभेदाभिव्यक्तिपक्षान् जीवस्य किंचिज्ज्ञत्वा- याहुः तदप्यसंगतम् । प्रतिबिम्बस्य वक्तुमशक्यत्वात् । ब्रह्मणो नीरूपत्वात् । बुद्धेश्चा- स्वच्छत्वात् । दर्पणवत् किंचिद्देशावच्छिन्नस्वच्छत्वमङ्गीकृत्याकाशस्येव ब्रह्मणः प्रतिबिम्बाङ्गी- कारेऽपि ब्रह्मणः सच्चिदानन्दरूपत्वेनं सदानन्दयोरपि प्रतिबिम्बापातात् । न चेष्टापत्तिः । ज्ञान- वत् तयोरपि भानापत्तेः । सर्वदा सर्वेषामन्तःशरीरस्थसर्वज्ञानापत्तेश्च । प्रतिबिम्बाधारत्व- योग्यायां बुद्धौ ज्ञानस्यैवान्तराणां नाड्यादीनां सन्निहितत्वेन तत्प्रतिबिम्बेऽपि बाधकाभावात् । किंचाविद्यायां ब्रह्मप्रतिबिम्बभूतानां जीवानां व्यापकत्या स्वतः सर्वपदार्थसंसृष्टत्वाद् बाध- काभावेनाविद्यायामपि सर्वप्रतिबिम्बसंभवेन तत्तत्संसर्गे द्विगुणीकृत्य जाते सर्वतादात्म्या- रश्मिः। बुद्धिगुणे । तमस इति तमोवृत्तित्वान्निद्रायाः । परमेति । सुखमहमस्वाप्सं न किंचिदवेदिषमिति प्रत्ययात् । प्राणादीनामिति उक्तप्रलयलीनानाम् । स्वस्थानेति 'पुनरेव इव समायाति' इति श्रुतेः । पूर्वोक्तेति ज्ञानप्रणाल्या । आदिना स्मरणम् । आत्मन्येवेति मनोव्यवच्छेदक एवकारः । श्रुतीति 'कामः संकल्पः' इत्यादिश्रुतौ धीशब्देन ज्ञानमतो धर्मत्वोक्तेस्तस्याः विरोधात् । एवेति प्रमाण- मूर्धन्यत्वादेवकारः । कर्तृत्वेति आत्मा मनसा संयुज्यत इत्यत्र । विभोरात्मन उत्तरदेशसंयुक्तस्य तदनुकूलत्वस्य कृतावभावात् सिद्धसाधनदोषापत्तेः । अन्यतरेति अणुविभ्वोरन्यतरत् कर्म तज्जः । एवकारेण कर्तुकृतेर्व्यवच्छेदः । तस्यैवेति मनस एव न त्वात्मन इत्येवकारः आत्मव्यवच्छेदकः । क्रियेति । धातूपात्तव्यापाराश्रयत्वं कर्तृत्वमिति कर्तृलक्षणमिति । जीव इति देहपरिमाणपरिमाणके । परिमाणगुणाधीनत्वे सति 'स्वतन्त्रः कर्ता'इति सूत्रेण कर्तृत्वायोगात् । एकमेवेति 'एकमेवाद्वितीयं ब्रह्म'इति श्रुतेरेवकारः । बुद्धाविति जीवोपाधिभूतायाम् । चिदुपरागेति चिदुपरागश्चावरण- भङ्गश्च भेदाभिव्यक्तिश्च, चिदुपरागावरणभङ्गाभेदाभिव्यक्तयः, तासां पक्षान् । अवि- द्यायामिति । 'माया चाविद्या च स्वयमेव भवति' इति नृसिंहतापनीयात् । सर्वेति सर्वेषां जीवानां प्रतिबिम्बसंभवेन । तत्तत्प्रतिबिम्बसंसर्गे यस्मिन्कस्मिंश्चिदाधाराधेयभावेऽपि । ब्रह्मप्रतिबिम्बो १. ब्रह्मणः सच्चिदानन्दाभिन्नत्वात्सर्वलक्षणानां प्रतिबिम्बः स्यादिति भावः । तच्च इष्टमेवे । 1492