भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1603, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1603

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १९७ भाष्यप्रकाशः। पक्षस्य ब्रह्मण इव तेषामपि सर्वसंसृष्टत्वात् साक्षित्वान्न वृत्तिं विनैव स्वरूपचैतन्येन सर्वाव- भासकतायाः शक्यवचनत्वेन ब्रह्मवत् सर्वेषां सर्वज्ञता स्यात् । नचान्तःकरणभेदेन प्रमातृ- भेदात् तदनापत्तिः । व्यापकत्वेन सर्वेषां सर्वान्तःकरणसंसृष्टतया प्रमातृभेदस्याप्यकिंचित्- करत्वात् । संसर्गतौल्ये एकस्यैवैकान्तःकरणवैशिष्ट्यं, नापरस्येत्यत्र हेतुभावात् । अदृष्टादीनां हेतुताकल्पनायापनेनैव न्यायेन निरसितुं शक्यत्वात् । ननु दूषणग्रासान्मास्तु व्यापकानेक- जीववादः, किंतु व्यापकैकजीववादोऽस्तु । तथाच तस्य सर्वज्ञतायामिष्टापत्तिरितिचेत्, सत्य- मिष्टापत्तिः स्याद् यद्येकत्रैव सर्वज्ञता स्यात् । नचैवम् । अविशेषेणैकस्यैव सर्वशरीराधिष्ठाने सर्वत्राविद्योपहितसाक्षिण एकत्वात् सर्वत्रोपाधौ सर्वप्रतिबिम्बेषु सृष्टत्वाच्च ब्रह्मण इव जीव- स्यापि सर्वेषु प्रतिबिम्बेषु सर्वज्ञतायां बाधकाभावात् । नच ब्रह्माप्येकत्रैव सर्वज्ञं न सर्वत्रेति वाच्यम् । ब्रह्मविष्णुशिवादिशरीरावच्छेदेन सर्वज्ञताप्रतिपादकशास्त्रविरोधापातात् । नचाविद्यो- पाधौ सर्वप्रतिबिम्बेऽप्यन्तःकरणभेदेन प्रमातृभेदात् तन्निकटस्थस्यैव ज्ञानं प्रमातुर्भविष्यतीति न सर्वत्र सार्वज्ञापत्तिरिति वाच्यम् । प्रमातृभेदे करणभेदस्येव साक्ष्यभेदे प्रमातृभेदस्याप्य- प्रयोजकत्वात् । सर्वत्र साक्षिण एव भासकत्वात् नच तस्याविद्योपहितरूपेण न साक्षित्वं, किंतु अन्तःकरणोपहितरूपेण । तथाच रूपभेदेन साक्षिभेदान्न सार्वज्ञापत्तिरिति वाच्यम् । अप्रयोजकत्वात् । तथा सत्यपि हृदयनाडीप्रभृतीनामान्तराणामन्तःकरणे प्रतिबिम्बितानां ज्ञानं तस्य निर्बाधमित्यान्तरसर्वज्ञताया दुर्वारत्वात् । ननु सर्वेषां प्रतिबिम्बो नास्माभिरङ्गी- क्रियत इतिचेन्नैवम् । यदयं न स्वीक्रियते कस्तत्र हेतुः । न तावदसन्निधिः । अविद्याया व्याप- कत्वात् । नापि बिम्बालोकसंयोगाभावः । सूर्यादेर्विद्यमानत्वात् । अन्तःकरणश्लेषेऽप्यन्तःकरण- स्यान्तरसन्निहितत्वात् । अन्तर्गृहगतदर्पणप्रतिबिम्बितसूर्यप्रकाशेनाऽऽन्तरवस्तूनां प्रतिबिम्बदर्शना- दिहापि जीवचैतन्यप्रकाशितान्तःकरणसंसृष्टेष्वान्तरबिम्बेष्वालोकान्तरसंयोगानपेक्षणात् । जीव- चैतन्येऽन्येनान्तरप्रकाशनङ्गीकारे साक्षात्संसृष्टान्तःकरणतद्धर्मादीनामप्यनवभासप्रसङ्गात् । मते च तदवभासे तद्वदेव तत्संसृष्टानामध्यवभासादहंकारादिवद् हृदयनाडीप्रभृतीन्यप्यनुसंधीयेरन्। रश्मिः। जीवप्रतिबिम्ब इत्येवं संबन्धिनोर्द्वैगुण्यत्वेन द्विगुणीकृत्य जात इत्यर्थः । खप्रमात्रिति । तेषां जीवानां प्रमातृ अन्तःकरणविशिष्टचैतन्यम्, अन्तःकरणं वा तस्य भेदात् । तदनापत्तिरुक्ता भोग्यादृष्ट- वशात्तावन्मात्रग्रहणात् । एवेति प्रमातृभेदव्यवच्छेदकः । अन्तरिति । भावप्रधानोन्तः