भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1601, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1601

भाष्यप्रकाशः। पायुपस्थहस्तपादास्तु घ्राणादिवदेव स्वस्वगोलके स्थित्वा सर्वस्मिन् शरीरे यथोचितं कार्यं कुर्वन्ति । अत एव हस्ताभ्यां चलनं, पद्भ्यां तालादिवादनं, शिश्नेन मूत्रादिविसर्ग इत्यादिकं, द्विगोलकानामु- भयत्रापि स्थितिश्च संगच्छते । इदं च सर्वं ज्ञानं कर्म च अन्तःकरणाध्यासाज्जीवात्मा स्वस्मिन्न- भिमन्यत इत्यतो लौकिकानां नैयायिकादीनां ज्ञानेच्छादिष्वात्मधर्मत्वप्रवाद इति । अन्तःकरणा- भ्यासस्तु हृदयदेशे जीवस्यान्तःकरणानां च स्थितत्वात् तेषु तत्प्रतिबिम्बे तस्य प्रतिबिम्बस्येन्द्रियेषु प्रतिबिम्बान्तरे इन्द्रियाध्यासस्ततस्स देहे प्रतिबिम्बे देहाध्यासश्च भवति । प्रतिबिम्बश्च तत्प्रकाशस्य तेषु क्रमेण भवति सूर्यस्येव, न तु मुख्यस्येव सन्निधिमात्रेणेति निर्णीतम्, 'यथा जलस्य आभासः' इत्यत्र तृतीयसप्तविंशाध्याये । एवं च पूर्वकृतस्य प्रारब्धकर्मणः पाकस्य जाग्रति फलभोगे क्रिय-