भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1611, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1611

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २०५ भाष्यप्रकाशः। तत्रावरणादिकल्पनाया एवायोगाच्चेति दिक् । अतो जन्यज्ञानसेन्द्रियान्वयव्यतिरेकानुसंधानदर्शनाच्छक्तिग्राहकेषु कोशादिषु, 'प्रेक्षोपल- ब्धिवित्संवित्' इति चिदादिभिः सह बुद्धेरेकार्थ्येन बुद्धेर्ज्ञानात्मकत्वनिश्चये तत्र ज्ञानोपचारपक्षस्या- युक्तत्वाच्च जन्यज्ञानमतिरिक्तमेव । तदुत्पत्तिप्रणाली च पूर्वोक्तरीतिकैवेति निश्चयः । भगवत्सा- क्षात्कारे तु नैषा प्रणाली । तस्य प्रमेयबलादेव भवनात् । नायमात्मेति श्रुतावितरसाधननिरासे- नोपलक्षणविधया निरस्तत्वात् । उत्तरार्धे वरणस्य लाभसाधनत्वकथने स्वस्यैव तनुविवरण- साधनत्वोक्तेश्च । वरणं चाऽनुग्रहः । स च धर्मान्तरमेव, न तु फलदित्सा । 'यस्यानुग्रहामि- च्छामि'इति वाक्यात् । स च भक्तिबीजभूतः । अतो 'भक्त्या मामभिजानाति', 'भक्त्या त्वनन्यया शक्यः', 'भक्त्याऽहमेकया ग्राह्यः' इत्यादिषु न विरोधः । अवतारदशायां तु मां सर्वे पश्यन्त्वित्या- कारिकया सामान्येच्छयापि दर्शनम् । तत्रापि नानाविधाभिः यथा 'मल्लानामशनिः' इत्यादौ । रश्मिः। मवव्यवच्छेदकः । आवरणादीति । एवकारो वृत्त्यावरणभङ्गव्यवच्छेदकः । दिगिति कुतर्काभिनि- वेशनिषेधादिह्यात्रमुक्तमित्यर्थः । अन्वयेति । प्रसिद्धम् । चिदादिभिरिति चित् आदी चिदादी । चित् आदिर्यस्याः सा चिदादिः । चिदादी च चिदादिश्च चिदादयः, तामिर्विधादिभिः । ज्ञानात्मकेति । 'यन्मायया बहिः क्षित्ता स्यायते बुद्धिरर्यवत् । निवर्तते च यद्बोधात्तं नमामि जनार्दनम्' ॥ इति । ख्यातिवादमङ्गलाचरणादिहेतुविषयत्वेन बुद्धिरूपज्ञानात्मकत्वनिश्चये । तत्रेति वृत्तौ । एवकारस्तु ज्ञानस्य जन्यत्वमीश्वराभेदविरुद्धमपि 'अजायमानो बहुधा विजायते' इति श्रुत्यविरुद्धमि- त्यनतिरिक्तत्वव्यवच्छेदकः । पूर्वोक्तेति । ज्ञानप्रक्रियारम्ये तत्रायं क्रम इत्यादिनोकरीतिकैव । एव- कारेण 'नैषा तर्केण मतिरापनेया' इति श्रुतेः श्रुत्यविरुद्धत्वाच्छ्रुतिविरुद्धपक्षो व्यवच्छिद्यते । एवेति । एवकारः करणविषयव्यवच्छेदकः । तदेवाहूः नायमिति । उत्तरेति । 'यमेवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनुं स्वाम्' इत्युत्तरार्धे । स्वस्यैवेति । आत्मपदेन कर्तृवाचकेन तयोक्तेश्च । 'तस्यैष आत्मा' इति जीवभेदकथनाजीवव्यवच्छेदक एवकारः । नत्विति । इच्छाया इच्छाकर्मत्वाभावात् । भक्तिलभ्यो वरणलभ्यो वेति विरोधमेकविषयत्वेन परिहरन्ति स्म स चेति । श्रुत्युक्तोऽनुग्रहः । न विरोध इति भक्त्यनुग्रहयोः सहानवस्थानलक्षणो विरोधो न । तत्रापीति सामान्येच्छायामपि । नानाविधा मल्लाः मामशनित्वेन पश्यन्तु, नरो मां नरवरत्वेन पश्यन्तु । स्त्रियो मां मूर्तिमत्स्मरत्वेन पश्यन्तु, गोपाः मां स्वजनत्वेन पश्यन्तु, असत्क्षितिभुजो मां शास्तृत्वेन पश्यन्तु । स्वपितरौ मां शिशुत्वेन पश्यताम् । मोजपतिर्मृत्युत्वेन पश्यतु । अविद्वांसो विराट्त्वेन पश्यन्तु । योगिनस्तत्त्वेन पश्यन्तु, वृष्णयः परदेवतात्वेन पश्यन्तु इत्येवंरूपाः । मल्लानामिति । 'मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्त्तिमान् गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः । मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ॥' इति श्लोकः ॥ 1501