भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1610, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1610

विषयाश्रितावरणपक्षस्यैव दुष्टत्वात् पुरुषाश्रितपक्षे तूक्तरीत्या प्रमातरि प्रमाणे प्रमेये च वक्तुमशक्यत्वेन घट्टकुटीप्रभातवदननुभवस्य सर्वानुभवगोचरत्वस्य वापाताच्छुक्तिरजतस्या- ऽप्येतत्तुल्यत्वात् । एवं मूलाज्ञानावस्थारूपाज्ञानानां नानात्वमङ्गीकृत्य घटावरकाज्ञानस्य घटाकारवृत्त्या निवृत्तावपि नैश्चल्यावरकस्यानिवृत्त्या भ्रमविशेषादरणेऽपि पूर्वोक्तरीत्या पुरुषनिष्ठतैव तस्य वाच्येति चैतन्याभेदस्य पूर्ववदेवासिद्धेः । बुद्धेर्ज्ञानात्मकत्वमात्रकल्पनया तस्योत्पत्तिनाशशालित्वमात्रेण निर्वाहे विषयावरणतन्नानात्वकल्पनयोर्गुरुत्वादप्रामाणिकत्वाच्च । एतेनैव घटावरकाज्ञानगतावरणशक्तिमात्रनिवृत्तिर्न तु विक्षेपशक्तिनिवृत्तिरपीति पक्षो निरस्तो बोध्यः । नैश्चल्यावरणमन्तरेण भ्रमणविक्षेपासंभवादावरणशक्तिनिवर्तकतया अप्रयोजकत्वाच्च । जलप्रतिबिम्बितवृक्षाग्रोऽग्रत्वभ्रमे तु प्रतिबिम्बपदार्थस्यातिरिक्त