अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1609, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम्। २०३ भाष्यप्रकाशः। भेदसिद्ध्य विषयप्रकाशसंभवे गोलकातिरिक्तेन्द्रियकल्पनापि वृथा स्यात् तस्मादनादरणीया एवैते पक्षाः। एतेन प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्याभेदो ज्ञानस्य प्रत्यक्षत्वप्रयोजक इत्यपि निरस्तम्। किंच। यत्र भ्रमद्दटो गृह्येत तत्र वृत्त्युपरञ्जकस्य भ्रमणविषयनिष्ठत्वाभावेन तत्तद्विषुपरागायोगात् तद्ग्रहणापत्तिः। नच तत्रानिर्वचनीयं तज्जन्यत इति सुखेन तद्ग्रहणसंभव इति वाच्यम्। वृत्त्या घटाकारिकया आवरणाभिभवेन भ्रमणांशे विक्षेपस्याशक्यवचनत्वात्। किंच। वृत्त्या विषयचैतन्याभेदाभिव्यक्तावपि विषयप्रकाशके ब्रह्मचैतन्ये तदभावाभयनप्रदेशे तदननुभवेनेन्द्रियेऽपि तदभावाद् वृत्तिमात्रजनकस्येन्द्रियसंप्रयोगस्य विषयकारणताङ्कस्तेश्व संप्रयोगेणापि विषये तदाधानायोगादन्तःकरणावच्छिन्नेऽप्यहं भ्रमामीत्यननुभवात् स भ्रमः सर्वप्रालब्धसत्ताको घटेऽपि न स्यात्। यस्मात् काप्यसन् घटदेशेऽनुभूयते, तस्मात् तद्देशावच्छेदेन जायमाने मनोधर्मरूपे ज्ञानेऽस्ति तच्चेत् प्रमातृविषयचैतन्याभिन्नं स्यात् तदा स भ्रमः सर्वानु- भवगोचरः स्यात्। यस्माच्चैवं तस्मात् तज्ज्ञानं कार्यरूपं भिन्नमेवेति निश्चयः। नच शुक्तिरजता- दिस्थले इदमाकारवृत्तौ सत्यामपि रजताध्यासदर्शनादंशत एवावरणनाश इत्यंशान्तरेण भ्रमवि- क्षेपोऽपि भविष्यतीति न तदननुभवानुपपत्तिरिति वाच्यम्। विषये तत्सत्त्वेऽन्येषामपि तदनुभवापत्तेः। अन्येषां घटद्रष्टृणां प्रमाणवृत्त्या तदंशावरणनाशादस्रापि तदनुभवापत्तेश्च रश्मिः। निरस्तमिति वृत्त्यैव निर्वाह्नेन्तःकरणवृत्त्यवच्छिन्नचैतन्यपर्यन्तानुधावनस्य गौरवग्रस्तत्वात्। वृत्तीति। वृत्तिमुपरञ्जयति यद्भ्रमणं स्थिरत्वं तस्य भ्रमणविषयघटस्तन्निष्ठत्वस्याभावस्तदभावरूपत्वाच्चेनेत्यर्थः। अनिर्वचनीयमिति वृत्त्युपरञ्जकस्य भ्रमणाभावरूपस्य भ्रमणविषयनिष्ठत्वं ततोऽपि रजःप्रधानं भ्रमणं माया रजोरूपमिति विरुद्धधर्माधारत्वेनानिर्वचनीयम्। तदिति विषयचैतन्यम्। आवरणेति भावरणं माया तमःकार्यम्। विक्षेपो रजस्तस। रजस्तमसी न स्त इत्युक्तम्। अतः सत्त्वरूपा- वियेति निश्चयविषयो भ्रमद्दटो नानिवर्चनीय इत्यर्थः। विषयेति भ्रमरूपायाम्। विषयप्रेति। विषयाधिष्ठानचैतन्ये। तद्भावात् भ्रमाभावात्। ननु शुक्तिकारजतवद्भ्रमोस्त्वेवेति चेन्न। वृत्त्याऽभेदाभिव्यक्तिरूपतदभावात्। तदनन्विति वृत्त्याऽभेदाभिव्यक्तिरूपप्रमाननुभवेन। वृत्त्याभेदा- मिव्यक्तिरूपप्रमाभावात्। वृत्तीति। अन्तःकरणवृत्त्यवच्छिन्नचैतन्ये वृत्तिमात्रेत्यादिः। संप्रयोगः संबन्धः। विषयेति। किं तु विषयकारणह्लस्तिस्तु सगुणस्यैव। तदाधानेति वृत्त्याविषयचैतन्या- भेदाभिव्यक्तिरूपप्रमाधानायोगात्। अन्तरिति प्रमातरि, अहं भ्रमाश्रय इत्यननुभवात्। किंतु प्रलेभीत्यनुभवात्। भ्रमामीत्यत्र प्रत्ययार्थ आश्रयः। यद्वा अहं भ्रमं करोमीत्येवार्थः। सर्वस्यापि कारणे पुरुषव्यावृतिः। तदत्र वृत्तिसंपादने प्रमाणसंपादने वा पुरुषकृतिसाध्यत्वमिति भाष्यात्। न स्यादिति तदभाववति तत्प्रकारकज्ञानस्य भ्रमत्वमित्यत्र तत्प्रकारकेत्यत्रान्यत्रलब्धसत्ताकप्रकारकज्ञानसेत्यर्थाद्भ्रस्या- दित्यर्थः। मन इति। 'कामः सङ्कल्पः' इति बृहदारण्यके धीग्रहणादिति भावः। तज्ज्ञानमिति। भ्रमद्दटज्ञानम्। अन्येभ्यो भगवतश्च भिन्नम्। रजतेति। अध्यास नाम परस्मिन्परावभासः। अंशत इति सार्वविभक्तिकस्तसिः। इदमंशेन। भ्रमेति भ्रमेण कार्येण निमित्तेन विक्षेपः सात्त्विकबुद्धेर्विक्षेप- ण्डलनम्। यद्वा भ्रमो भ्रमणं तद्रूपो विक्षेपः भ्रमविक्षेपः। तद्दनन्विति। लब्धसत्ताकत्वस्य भ्रमेऽननु- भवेन घटे भ्रमानुपपत्तिः। तत्सत्त्व इति भ्रमसत्त्वे शुक्तिरजतवत्। तदंशेति विषयांशावरणनाशात्। 1499