भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1612, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1612

२०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ४ अ० ७ सू० १६ भाष्यप्रकाशः । एवं च, भक्त्या सामान्येच्छया चेति द्वेधा दर्शनम् । उभयथाऽपि प्रमेयबलमेव कारणमिति न विरोधः । स्वसाधनसामग्र्यादिभिर्दर्शनज्ञानं त्वभिमानमात्रात् । अत एव 'अविज्ञातं विजानतां विज्ञातमविजानताम्' इत्यादिश्रुतिः संगच्छते । 'मनसैवानुद्रष्टव्यम्' इत्यादावपि प्रमेयबलानुगृहीतमेव तदभिप्रेतमिति श्रुत्यन्तराऽविरोधायानुसंधेयमिति शुभम् । प्रकृतमनुसरामः ॥ १६ ॥ इति सप्तमं प्राणबलेत्यधिकरणम् ॥ ७ ॥ रश्मिः । एवं चेति । अवतारानवतारभेदेन पूर्णसाक्षात्कार उक्ते च । एवेति 'यतो वाचो निवर्तन्ते' इति श्रुतेरेवकारः । न विरोध इति कार्यकारणभावाद्भक्तिसामान्येच्छयोः सहानवस्थानलक्षणो विरोधो न । एवमवतारानवतारयोर्दर्शनप्रणाड्याऽनुक्त्वा स्वसेव्यविषय आहुः स्वेति । साधनानि तनुवित्तजा मानसीसेवा तद्रूपाणि । आदिनान्यान्यपि श्रेयांसि । 'श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते' इति वाक्यात् । दर्शनज्ञानं तु परस्यैव । तत्राभिमानः कारकत्वाभावात् । स्वसेव्यज्ञानं तु नाभिमानमात्रात् । तत्र श्रुतिमाहुः अत एवेति । अभिमानमात्रादेव विजानतामिति । अभिमान- मात्रं नापितु यथार्थज्ञानमिति ज्ञानवताम् । 'यतो वाचो निवर्तन्ते' इति श्रुतिविरोधादविज्ञातम् । विज्ञातं यथार्थज्ञानाविषयत्वेन ज्ञातं यैस्तैः, तेऽविजानन्तस्तेषाम् । ननु दर्शनज्ञानस्याभिमानमात्रत्वे कदाप्यनिर्मोक्षप्रसङ्ग इति चेन्न । स्वसाधनेत्याद्युक्तमर्यादामार्गीयाणां व्यभिचारिण्या भक्त्या तत्प्राप्तेः । 'तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मानु॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भि॑ः । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ऽस्मान् आयुः॒ प्र मो॑षीः' इति । तत् तच्छब्दवाच्यं त्वा त्वां यामि प्राप्नोमि । पद्ध्यां सेवे च । कीदृशं त्वां ब्रह्मणा प्रत्यहं मानसीसेवा कुर्वता वन्दमानं । सुपां सुः । वन्दनं सेवासमाप्तिद्योतकम् । तद् यजमान आशास्ते न तु तनुजादिसेवाविषयं करोति । हविर्भिर्विविधोपचारैः अहेडमानः हेड अनादरे । सेवायामादरं कुर्वन् । वरुण इहबोधी उरु शंसमानो यजमानः ज्ञानवान् कीर्तनभक्तिमांश्च । आयुःकालं प्रकर्षेण अस्मान् मोषीः चोरितवान् छान्दसप्रयोगः प्रमोषीत् । 'आयुर्हरति वै पुंसामुद्यन्नस्तमयन्नसौ । ऋते तं यः क्षणो नीत उत्तमश्लोकवार्तया' इति वाक्यात् । 'मनसैवानुद्रष्टव्यम्' । 'मानसी सा परा मता' । 'तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत्' इति । एवंविधेषु न भक्तिर्नेंच्छा न प्रमेयबलमिति तेषां संगतिमाहुः मनसैवेति । आदिशब्दार्थं आभासोक्तः । प्रमेयेति प्रमेयं भगवान् तस्य बलं भक्ति- स्तस्यानुगृहीतं मनः । संबन्धश्च निवेश्यता । तथा च प्रमेयबलनिवेश्यमनुगृहीतम् । 'तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत्' 'यथा मत्त्येश्वरे मनः' इति वाक्याभ्याम् । एवकारेणाननुगृहीतमशुद्धं मनो व्यव- च्छिद्यते । तदिति मनः । श्रुत्यन्तरेति । सा च 'भक्तिरस भजनं तदिहामुत्रफलभोगनैराश्येनामुष्मि- न्मनःकल्पनमेतदेव च नैःकर्म्यम्' इति । तथा चैतादृशमनोग्राह्यमिति भावः । श्रीकपिलवाक्यमपि 'मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ । लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम्' इति ॥ १६ ॥ 1502

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1612, कुल 2600 में से · BharatKosha