अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1613, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २०७ तदिन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥ (२-४-८) इदमत्र विचार्यते । इन्द्रियाणां प्राणाधीनसर्वव्यापारत्वात् तन्नामव्यप- देशाच्च प्राणवृत्तिरूपाणीन्द्रियाणि, तत्त्वान्तराणि वेति संशयः । तत्त्वान्तराण्ये- वेति सिद्धान्तः । तानीन्द्रियाणि तत्त्वान्तराणि । कुतः । तद्व्यपदेशात् । इन्द्रियशब्देन व्यपदेशात् । 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति भिन्नशब्दवाच्यानां क्वचिदेकशब्दवाच्यत्वेऽपि नैकत्वम् । आसन्द्येऽपि तर्हि भेदः स्यादित्यत आह अन्यत्र श्रेष्ठात् । तस्य ते यौगिकाः शब्दा इति ॥ १७ ॥ भाष्यप्रकाशः। तदिन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥ सूत्रप्रयोजनमाहुः इदमित्यादिना, सिद्धान्त इत्यन्तेन । पूर्वाधिकरणे इन्द्रियाणां प्राणाधीनसर्वव्यापारकर्तृत्वं सिद्धम् । श्रुतौ च मुख्यं प्राणमिन्द्रियाणि चोपक्रम्य, 'हन्तास्यैव सर्वे रूपं भवामेति त एतस्यैव सर्वे रूपमभवंस्तस्मादेत एतेनाख्यायन्ते प्राणा इति' तन्नामव्यपदेशाच्च प्राणवृत्तिरूपाणीन्द्रियाणि उत रूपभवनप्राक्कालेऽपि सत्त्वात् तत्त्वान्तराणि वेति संशयः । तत्र पूर्वं तत्त्वान्तरत्वेऽपि पश्चादे- तद्रूपभवनभावनेन जन्मान्तरवत् पूर्वरूपत्यागालाभात् पूर्वोक्तयुक्तिभ्यां चेदानीं प्राणवृत्तिरूपाण्ये- वेति प्राप्ते, तत्त्वान्तराण्येवेति सिद्धान्त इत्यर्थः । तद् व्युत्पादनाय सूत्रं व्याकुर्वन्ति तानी- त्यादि । सूत्रे तदिति लुप्तविभक्तिकं पदं तानीत्यनेन व्याख्यातम् । अन्ये तु त इति पठन्ति । इन्द्रियशब्देनेत्यादि । तथाच यथा श्रुतौ इन्द्रियाणीति व्यपदेशस्तथेदानीमपि लोके शास्त्रे च व्यपदेशः । अतो नात्र जन्मान्तरन्यायः संभवति किंतु भृत्यानां स्वामिस्वभावानुसरणमिव प्राणस्वभावानुसरणमेव तद्रूपभवनम् । नच प्राणशब्दव्यपदेशविरोधः । द्रोणकर्णादिषु कुरुशब्दव्यपदेशवद् गौण्यापि तत्संभवात् । अतो भिन्नशब्दवाच्यानां क्वचिदेकशब्दवाच्यत्वेपि नैकत्वमिति सिद्धमित्यर्थः अत्राशङ्कते । आसन्द्येऽपीत्यादि । समादधते तस्य ते इति । रश्मिः। तदिन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥ सिद्धमिति । प्राणवताञ्छब्दादि- त्यत्रस्पष्टम् । श्रुताविति सप्तान्नब्राह्मणे । 'तानि ज्ञातुं दधिरेऽयं वै श्रेष्ठो यः संचरंश्चाचरंश्च न व्यथतेऽथो नरिष्यति । हन्तास्यैव सर्वे रूपं भवामेति त एतस्यैव सर्वे रूपमभवंस्तस्मादेत एतेना- ख्यायन्ते प्राणा इति तेन ह्वाय तत्कुलमाख्यायन्ते यस्मिन्कुले भवति य एवं वेद य उहैवं विदा स्पर्धतेनुशुष्य हैवान्ततो म्रियत इत्यध्यात्सम्' इति श्रुतौ । अस्यैवेति प्राणस्य । भवामेति शांकरभाष्ये पाठः । एत इति प्राणाः । एतेन प्राणपदेनाख्यायन्ते । प्राक्काल इति तच्छ्रुतावेव । पूर्वोक्तेति । हन्तास्यैवेत्याद्युक्तयुक्तिभ्याम् । इतीति इति पूर्वपक्षे प्राप्ते । लुप्तेति । अव्यय- मित्यर्थः । अन्य इति । शंकराचार्यादयः ते मुख्येतरे प्राणा इति व्याचक्षते । श्रुतिविरोधाभासं परिहरन्ति स्म अत इत्यादिना श्रुतिलोकशास्त्रेभ्यः । शास्त्रं तु भवाम, अभवन्नित्यत्र भूसत्ताया- मिति । न तु भूउत्पत्ताविति । जन्मान्तरेति । पूर्वं तत्त्वान्तरत्वेपीत्याद्युक्तः । कुर्वित्यादि । कौरव- सैन्यसागरमित्यत्र । कुरोरिदं कौरवं सैन्यं तदेव सागरस्तस्मिन्नित्यर्थात् । भाष्ये वेतीत्यत्रेतिशब्दो हेता- 1503