भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २०७ तदिन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥ (२-४-८) इदमत्र विचार्यते । इन्द्रियाणां प्राणाधीनसर्वव्यापारत्वात् तन्नामव्यप- देशाच्च प्राणवृत्तिरूपाणीन्द्रियाणि, तत्त्वान्तराणि वेति संशयः । तत्त्वान्तराण्ये- वेति सिद्धान्तः । तानीन्द्रियाणि तत्त्वान्तराणि । कुतः । तद्व्यपदेशात् । इन्द्रियशब्देन व्यपदेशात् । 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति भिन्नशब्दवाच्यानां क्वचिदेकशब्दवाच्यत्वेऽपि नैकत्वम् । आसन्द्येऽपि तर्हि भेदः स्यादित्यत आह अन्यत्र श्रेष्ठात् । तस्य ते यौगिकाः शब्दा इति ॥ १७ ॥ भाष्यप्रकाशः। तदिन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥ सूत्रप्रयोजनमाहुः इदमित्यादिना, सिद्धान्त इत्यन्तेन । पूर्वाधिकरणे इन्द्रियाणां प्राणाधीनसर्वव्यापारकर्तृत्वं सिद्धम् । श्रुतौ च मुख्यं प्राणमिन्द्रियाणि चोपक्रम्य, 'हन्तास्यैव सर्वे रूपं भवामेति त एतस्यैव सर्वे रूपमभवंस्तस्मादेत एतेनाख्यायन्ते प्राणा इति' तन्नामव्यपदेशाच्च प्राणवृत्तिरूपाणीन्द्रियाणि उत रूपभवनप्राक्कालेऽपि सत्त्वात् तत्त्वान्तराणि वेति संशयः । तत्र पूर्वं तत्त्वान्तरत्वेऽपि पश्चादे- तद्रूपभवनभावनेन जन्मान्तरवत् पूर्वरूपत्यागालाभात् पूर्वोक्तयुक्तिभ्यां चेदानीं प्राणवृत्तिरूपाण्ये- वेति प्राप्ते, तत्त्वान्तराण्येवेति सिद्धान्त इत्यर्थः । तद् व्युत्पादनाय सूत्रं व्याकुर्वन्ति तानी- त्यादि । सूत्रे तदिति लुप्तविभक्तिकं पदं तानीत्यनेन व्याख्यातम् । अन्ये तु त इति पठन्ति । इन्द्रियशब्देनेत्यादि । तथाच यथा श्रुतौ इन्द्रियाणीति व्यपदेशस्तथेदानीमपि लोके शास्त्रे च व्यपदेशः । अतो नात्र जन्मान्तरन्यायः संभवति किंतु भृत्यानां स्वामिस्वभावानुसरणमिव प्राणस्वभावानुसरणमेव तद्रूपभवनम् । नच प्राणशब्दव्यपदेशविरोधः । द्रोणकर्णादिषु कुरुशब्दव्यपदेशवद् गौण्यापि तत्संभवात् । अतो भिन्नशब्दवाच्यानां क्वचिदेकशब्दवाच्यत्वेपि नैकत्वमिति सिद्धमित्यर्थः अत्राशङ्कते । आसन्द्येऽपीत्यादि । समादधते तस्य ते इति । रश्मिः। तदिन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥ सिद्धमिति । प्राणवताञ्छब्दादि- त्यत्रस्पष्टम् । श्रुताविति सप्तान्नब्राह्मणे । 'तानि ज्ञातुं दधिरेऽयं वै श्रेष्ठो यः संचरंश्चाचरंश्च न व्यथतेऽथो नरिष्यति । हन्तास्यैव सर्वे रूपं भवामेति त एतस्यैव सर्वे रूपमभवंस्तस्मादेत एतेना- ख्यायन्ते प्राणा इति तेन ह्वाय तत्कुलमाख्यायन्ते यस्मिन्कुले भवति य एवं वेद य उहैवं विदा स्पर्धतेनुशुष्य हैवान्ततो म्रियत इत्यध्यात्सम्' इति श्रुतौ । अस्यैवेति प्राणस्य । भवामेति शांकरभाष्ये पाठः । एत इति प्राणाः । एतेन प्राणपदेनाख्यायन्ते । प्राक्काल इति तच्छ्रुतावेव । पूर्वोक्तेति । हन्तास्यैवेत्याद्युक्तयुक्तिभ्याम् । इतीति इति पूर्वपक्षे प्राप्ते । लुप्तेति । अव्यय- मित्यर्थः । अन्य इति । शंकराचार्यादयः ते मुख्येतरे प्राणा इति व्याचक्षते । श्रुतिविरोधाभासं परिहरन्ति स्म अत इत्यादिना श्रुतिलोकशास्त्रेभ्यः । शास्त्रं तु भवाम, अभवन्नित्यत्र भूसत्ताया- मिति । न तु भूउत्पत्ताविति । जन्मान्तरेति । पूर्वं तत्त्वान्तरत्वेपीत्याद्युक्तः । कुर्वित्यादि । कौरव- सैन्यसागरमित्यत्र । कुरोरिदं कौरवं सैन्यं तदेव सागरस्तस्मिन्नित्यर्थात् । भाष्ये वेतीत्यत्रेतिशब्दो हेता- 1503

Here is the complete, line-by-line transcription of the Sanskrit text from the image into clean Markdown in Unicode Devanagari:

३०८ श्रीब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ४ अ० ८ सू० २० भेदश्रुतेः ॥ १८ ॥ यद्यपि प्राणशब्दप्रयोगस्तत्रापि भेदेन श्रूयते । तमुत्क्रामन्तं प्राणोऽनू- त्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तीति ॥ १८ ॥ वैलक्षण्याच्च ॥ १९ ॥ वैलक्षण्यं च प्राणस्य चेन्द्रियाणां च । सुप्तेषु वागादिषु प्राणो जागर्ति । स्वामिसेवकवच्चानेकं वैलक्षण्यम् ॥ १९ ॥ इति द्वितीयाध्याये चतुर्थपादे अष्टमं तदिन्द्रियाधिकरणम् ॥ ८ ॥ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥ ( २-४-९ ) भूतभौतिकसृष्टिः परमेश्वरादेवेति निर्णीय नामरूपव्याकरणमपि परमेश्वरा- देवेति निश्चयार्थमधिकरणारम्भः । लोके नामरूपकरणं कुलालादिजीवेषु प्रसिद्ध-

चर्येण नामरूपयोरपि जीव एव कर्ता भविष्यतीत्याशङ्कां निराकरोति तुशब्दः । संज्ञामूर्तीः कॢप्तिर्नामरूपयोर्निर्माणम् । त्रिवृत्कुर्वतः यस्त्रिवृत्करोति तस्मात् । 'सेयं देवतैक्षत हन्ताऽहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति । तासां त्रिवृतं त्रिवृतमेकैकां करवाणि' इति त्रिवृत्कर्ता परमेश्वरः । स एव नामरूपयोरपि कर्ता । कुतः । उपदेशात् । उप समीपे

भाष्यप्रकाशः । नुप्रवेश उक्तस्तथैव तेन तेन रूपेणान्येषां च । तत्र यद्यपीन्द्रो नोक्तस्तथापि समानन्यायात् सोऽपि बलरूपेण प्रविष्टो बोध्यः । एवं सति तेषां जीवानां तत्तत्कार्यार्थमेवानुप्रवेशात् तत्साहचर्येण नामरूपव्याकरणयोरपि स स जीव एव कर्ता । अथैकवचनव्याकोपानेदं रोचते, तदा जीव- समष्टिरूपो हिरण्यगर्भ एव तत्कर्ताऽस्तु । ईक्षणप्रकारान्तःप्रविष्टा जीवेनेति तृतीया तु, चारेण परबलं प्रविश्याकलयामीतिवदुपपद्यते । अतः परमेश्वरः प्रयोजको भवतु । कर्ता तु तयोर्जीव एव प्रवेष्टृत्वादित्याशङ्कां निराचष्टे तुशब्द इत्यर्थः । सिद्धान्तं वक्तुं सूत्रं व्याकुर्वन्ति संज्ञे- त्यादि । सत्यं जीवेऽपि लोकन्यायेन सामर्थ्यवशान्नामरूपव्याकर्तृत्वं वक्तुं शक्यते, तथापि श्रुतौ त्रिवृत्करणेन सहैव पूर्वं नामरूपव्याकरणमुपदिष्टं, तदा न जीवस्य शरीरसंबन्ध इति तदानीं

रश्मिः । एवकारश्छान्दोग्यात् । हिरण्यगर्भोवेति । पूर्वपक्षत्वाज्जीवत्वम् । आश्विना शिवविष्णू । अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति छान्दोग्यादाहुः नामेति । क्रियेति । यथा गोवर्धनोद्धरणरूपव्याकरणं गोवर्धनोद्धरणक्रियासाध्यम् । ईश्वरस्यैव सर्वरूपत्वात् । अन्येषा- मिति देवानाम् । तथैवेति एवकारः प्रकारान्तरव्यवच्छेदकः । बहुष्वार्थादित्याभाष्यं विवृण्वन्ति स्म एवं सतीति । एवेति समानन्यायादेवकारः । जीव एवेति छान्दोग्ये जीवपदादेवकारो ऽशक्यव्यवच्छेदकः । एकत्वेत्यादि सेयं देवतैक्षतेत्येकवचनव्याकोपात् । रोचत इति तुभ्यं सिद्धा- न्तिने रोचते । जीवेति खराट् । एवकारो ऽशक्यव्यवच्छेदकः । अनेन जीवेनात्मनेत्यादीक्षणप्रकारः । चारेणेति चर एव चारो दूतप्रभेदस्तेन परबलं प्रविश्याहं राजाकलयामि तद्वदनेन जीवेनात्मनानु- प्रविश्य नामरूपे अहं व्याकरवाणीत्यन्तःकरण उपपद्यत इत्यर्थः । यद्वा । चरति परबलं प्रविश्येति चरः । घञ् । चर एव चारः । लोकेऽत्र चारकर्तृकमेव सैन्यसंकलनं हेतुकर्तृत्वाद्वाजात्मन्यध्यारोपयति । आकलयामीत्युत्तमपुरुषप्रयोगात् । एवं जीवकर्तृकं संज्ञामरूपव्याकरणं हेतुकर्तृत्वाद्देवतात्मन्यध्या- रोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगात्तद्वदित्यर्थः । जीव एवेति दृष्टान्तसत्त्वादेवकारः । प्रवेष्टृत्वा- दिति । अत्र तु प्रयोजककर्तेति भावः । सिद्धान्ते साध्यं भाष्यं स्फुटम् । साधनभाष्ये उप समीप इत्यादिभाष्य

२१० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ०२ पा०४ प्र०९ सू०२० एकवाक्ये उभयकरणस्य प्रतिज्ञानात् । जीवस्य तु त्रिवृत्करणानन्तरं शरीर- संबन्धे कर्तृत्वात् । तस्मान्नामरूपप्रपञ्चस्य भगवानेव कर्तेति सिद्धम् ॥ २० ॥ इति द्वितीयाध्याये चतुर्थपादे नवमं संज्ञामूर्तिकॢप्त्यधिकरणम् ॥ ९ ॥ भाष्यप्रकाशः। जीवस्य तत्कर्तृत्वं न वक्तुं शक्यते । शरीरसंबन्धोत्तरमेव तस्य बाह्यक्रियाकर्तृत्वस्य दृष्टत्वात्, त्रिवृत्करणसमये हिरण्यगर्भस्याप्यनुत्पन्नत्वात् । यत्पुनः पुराणेषु 'नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः' ॥ इति 'सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक्' ॥ इति पठ्यते । तदपि पाश्च

Answering the request, here is the line-by-line transcription of the Sanskrit text from the image:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २११ मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥ (२-४-१०) इदमीदानीं विचार्यते । 'अन्नमशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तत् पुरीषं भवति, यो मध्यमस्तन्मांसं, योऽणिष्ठस्तन्मनः । आपः पीता- स्त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुस्तन्मूत्रं, यो मध्यमस्तल्लोहितं, योऽणिष्ठः स प्राणः । तेजोऽशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तदस्थि भवति, यो मध्यमः सा मज्जा, योऽणिष्ठः सा वाक् । अन्नमयं हि सौम्य मन आपोमयः प्राणस्तेजोमयी वाक्' इति । तत्र संशयः । वाक्प्राणमनांसि किं भौति- कानि आहोस्विद् एतत्क्वाणिति ? 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति श्रुतिविप्रतिषेधात् संशयः । त्रिवृत्करणप्रसङ्गेनोत्थितामाशङ्कां निराकरोति । भाष्यप्रकाशः। अतः, 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यदास्ते' इति श्रुत्यन्तराद् भगवान्नेव पूर्वं नामरूपकर्ता । जीवानां तु पश्चादेव भगवदाविष्ठानां तथात्वम् । न चादिसृष्टौ भगवतैव तत्करणे तदानीं जीवप्रवेशवैयर्थ्यम् । तस्य भोक्तृत्वात् तदर्थमेवैतत्करणेन तस्यावश्यक- कत्वादिति । तस्माद् भगवान्नेव नामरूपप्रपञ्चस्य कर्तेति सिद्धमित्यर्थः ॥ २० ॥ इति नवमं संज्ञामूर्त्यधिकरणम् ॥ ९ ॥ मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥ अधिकरणप्रयोजनमाहुः इद- मित्यादि । इदमिति वक्ष्यमाणं वाक्यम् । संशयं तद्बीजं चाहुः तत्रेत्यादि । नन्विन्द्रिय- विचार एवेदं विचारणीयम्, इहास कृतो विचार इत्यत आहुः त्रिवृदित्यादि । उक्तश्रुति- रश्मिः। स अत इति । श्रुत्यन्तरादिति श्रुतिः 'यो ब्रह्माणम्' इति पूर्वमुक्ता तस्या अन्या श्रुतिः श्रुत्यन्तरं तस्मात् । महानारायणेऽस्ति । एवेति हिरण्यगर्भव्यवच्छेदकः । जीवानामिति । तुर्हिरण्यगर्भादिव्यावर्तकः । पश्चादेवेति क्वापि जीवस्य पूर्वमभवनादेवकारः पूर्वव्यवच्छेदकः । भगवदिति । अनेन जीवेनात्मनेति सहार्थे तृतीयायाः । मय्येव सकलं जातमित्यादिषु दृष्टान्तात् । आसीदिति पुरुषविधब्राह्मणे 'आत्मैवेदमग्र आसीत्'इत्युपक्रम्य 'द्वितीयाद्वै भयं भवति'इत्यन्तगादिवाष्टिः। न च भयाहंकारापहतपाप्मत्वमयसृष्टिर्न तु जगदुपयोगिनीति वाच्यम् । कारणगुणाः कार्यगुणा- नारम्भन्ते इति नैयायिकप्रवादात् । आत्मैवेत्यत्र सूक्ष्मतत्त्वाङ्गीकारात् । अन्यथा प्रपञ्चेऽष्टादशतत्त्वानि न प्रतीयन्ते । एवेति सृष्टेः कारणरूपत्वेन जीवानामहङ्कारकार्यत्वेनामावादेवकारः । मुक्तजीवानां भगवत्त्वादन्येषामहङ्कारत्मकत्वात् । तस्येति जीवस्य । तदर्थमेवेति एवकारेण ब्रह्मव्यवच्छेदः । 'न तदश्नोति कश्चन न तदश्नोति कंचन'इति श्रुतेर्ब्रह्मणोऽशनाभावात् । भक्तमनोरथपूरकत्वेन संभोग- प्राप्तिरिति चेन्न वैशेष्यादित्यत्र संभोग उक्तो भगवतः । तस्येति प्रवेशस्य ॥ २० ॥ नवमं संज्ञामूर्त्तिरित्यधिकरणम् ॥ ९ ॥ मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥ वाक्यमिति वाक्ये तेजोवृतादि । 'तेजो वै वृतम्' इति श्रुतेः । तत्रेत्यादीति । ननु भौतिकत्वं स्पष्टम्, कुतः संशय इत्यत आहुः 1507

२१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० १० सू० २१ तत्र पूर्वपक्षमाह । मांसादि भौमं, पुरीषमांसादि तेजोऽब्बन्नप्रकृतिकम् । कुतः । यथाशब्दम् । अन्नमशितमित्यादिश्रुतितो निःसंदिग्धं प्रतिपादनात् । किमतो यद्येवं तदाह इतरयोश्च । वाचि तुल्यत्वान्न संदेहः । इतरयोर्मनः- प्राणयोरपि भौतिकत्वं यथाशब्दम् । उद्गमश्रुतिस्तु स्तुतित्वेनानुवादपरा भविष्यति । उपपादकश्रुतिबाधात् । तस्माद् भौतिकान्येव मनःप्रभृतीनीत्येवं प्राप्ते ॥ २१ ॥ उच्यते- भाष्यप्रकाशः । विप्रतिषेधजनितामाशङ्कां त्रिवृत्करणप्रसङ्गेनेदानीं निराचष्ट इत्यर्थः । तत्रेति सूत्रे । ननु सूत्रे तद्बोधकपदाभावात् कथमस्यैतद्विषयत्वमित्याकाङ्क्षायां मांसादीत्यादिपदेन तत्संग्रहादेतस्य विषयत्वाव

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २१३ वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥ अन्नादिभिर्विशेष्यते मनःप्रभृति सम्यक् कार्यक्षमं भवति । तथा दर्शनानुपादानाच्च । अतो वैशेष्यादेव हेतोरन्नमयत्वादिवादः । ननु कथमेतदवगम्यते । वैशेष्याद् गौणो वाद इत्युच्यते । अथास्मन्नेऽजाय- भाष्यप्रकाशः। वक्तुम् । अतः स्तुतित्वेनेतरदनुवादपरा भविष्यति । एतदनुवादेनात्र ब्रह्मणः प्रयोजकत्वबोधनेऽ- प्युपपत्तेः नच श्रुतित्वाविशेषे कथं तस्या एवान्यथानयनमिति शङ्क्यम् । उपपादकस्य त्रेधा विधानस्य या श्रुतिस्तस्या बाधात् । ऐतरेयोक्तानादरेऽपीदमेव बीजम् । शेषं स्फुटम् ॥ २१ ॥ वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥ सिद्धान्तसूत्रं व्याकुर्वन्ति अन्नादिभि- रित्यादि । यादृशमन्नमश्नाति तादृगेवाशितुर्मनो भवतीति दर्शनं तथादर्शनं, पञ्चदशाहानि माशीरित्यारम्य, साऽन्नेनोपसमाहिता प्राज्वालीदित्यन्तेन पोषणादेव कार्यक्षमत्वोपपादनमुप- पादनम्, ताभ्यां तथेति, वाक्प्राणस्थल उपपादनाभावेऽपि समानन्यायात् तेजोमयत्वापोमयत्व- वादो बोध्यः । अतो विशेषणं विशेषस्तस्य भावो वैशेष्यं तस्मादेव तथेत्यर्थः । अनुपपादितस्थले शङ्कते नन्वित्यादि । समादधते अथेत्यादि । श्रुतिस्तुतृतीयब्राह्मणस्था । अथास्मन्नेऽजाय- रश्मिः। विवरीतुमाहुः न चेत्यादि । नेति । किं तु साक्षाद्ब्रह्मत्वम् । सेति 'एतस्माज्जायते प्राणः' इति श्रुतिः । अक्षरादिति द्वितीयमुण्डके 'अक्षरात्परतः परः' इति तत्पूर्वश्रुतेरक्षरात्परं द्योतयेत् । तदन्विति । एतस्मादिति पदेन पूर्वश्रुत्यनुवादपरा । ननु तथापि मनसो भौतिकत्वं कथमिति चेत्तत्राहुः एतदिति । अक्षरात्परतः परस्यैतस्मात्पदेनानुवादेनात्र श्रुतौ । एतस्मादिति पञ्चम्याः प्रयोजकत्वार्थपरत्वेऽपि श्रुतिविरहात् ब्रह्मणः प्रयोजकत्वबोधनेऽप्युपपत्तेर्न भौतिकत्वमित्युक्तभौतिकत्वाभावो न । छान्दोग्ये सदेवेत्यत्र सतस्तेजस्तेजस आपः अद्भ्योऽन्नमित्यन्नमयं मनोऽन्नमयमिति भौममिति । उपपादकेति भाष्यं विवरीतुमाहुः न चेति । तस्या एव मुण्डकश्श्रुतेरेव । एवकारस्त्रेधाविधायकश्रुतिव्यव- च्छेदकः । उपपादकापेक्षयानुपपादकमुण्डकवाक्यमुक्त इति भावः । इदमेवेति त्रेधाऽविधानमेव । अनुपपादकत्वं वा । बीजं कारणम् ॥ २१ ॥ वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥ तथादर्शनादित्यादिभाष्यं विवृण्वन्ति स्म यादृगित्यादि । माशीरिति माऽशनं कार्षीः । साऽन्नेनेति साऽवशिष्टा कलाऽन्नेन मनोरूपेणोप- समाहिता दीप्तेत्यर्थः । पोषेति । एवकारः प्रत्यक्षसंवादात् । कार्येति छान्दोग्ये कार्यक्षमत्वं वेदानुभवक्षमत्वं तस्योपपादनम् । तथेति अन्नादिभिर्मनःप्रभृतिर्विशेष्यत इत्यर्थः । 'अन्नमयम् हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागि'त्यादयो मनःप्रभृतयश्च । उपपादनेति 'एका हि सोम्य ते षोडशानां कलानामेका कलातिशिष्टाऽभूत् साऽन्नेनोपसमाहिता प्राज्वालीत्येतद्धि वेदानुभव- सक्षममयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञावि'ति श्रुतौ प्रत्यक्ष उपपादनाभावेऽपीत्यर्थः । तेज इत्यादि । अम्मयत्वेति वक्तव्ये आपोमयत्वेति श्रुत्यनुवादकं पदम् । अत इत्यादि भाष्यं विवृण्वन्ति स्म अत इत्यादिना । एवकारः समानं व्यवच्छिनत्ति । न समानादित्यर्थः । अनुपपेति वाक्प्राणस्थले । मनस्तूपपादितम् 'एका हि सोम्य' इत्याद्युक्तश्रुतौ । 1509

२१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ४ अ० १० सू० २२ मागायदित्यत्र प्राण एव सर्वस्यान्नस्यात्ता निर्दिष्टः । स कथं तत्परिणामकार्यं स्यात् । वागादयश्च तत्तन्नान्नार्थमनुप्रविष्टाः । सृष्टौ प्रथमतॊ भिन्नतया निर्देशात् । अतो न भौतिकानि मनःप्रभृतीनि, किंतु तत्त्वान्तराणीति सिद्धम् । तद्वाद इति वीप्सा अध्यायसमाप्तिसूचिका ॥ २२ ॥ इति द्वितीयाध्याये चतुर्थपादे दशमं मांसादिभौममित्यधिकरणम् ॥ १० ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये द्वितीयाध्यायस्य चतुर्थः पादः ॥ २ ॥ ४ ॥ भाष्यप्रकाशः । मागायद्यत्किञ्चाश्नमद्यतेऽनेनैव तदद्यते इह प्रतितिष्ठतीति । अर्थस्तु यथा वागादिभिरात्मार्थमागानं कृतं तथा मुख्यः प्राणोऽपि त्रिषु पवमानेषु देवार्थं गानं कृत्वा, अथानन्तरमवशिष्टेषु नवसु [L12

'! So it reads: "मत्रम् ।" or "मन्त्रम् ।"? Wait! Look between 'म' and 'त्र': is there a half 'न'? No. Wait, could it be "मात्रम् ।"? Wait, look at L6: "किन्त्वदनीयमात्रम् । तथाच योऽदनीयमात्रस्यात्ता..." Wait, why would L13 start with "मात्रम्" or "मत्रम्" if it says: "मत्रम् । अदनीयानामपामिति वक्ष्यमाणत्वात् ।" Wait! Read that sentence: "_____ । अदनीयानामपामिति वक्ष्यमाणत्वात् । प्राणेनेति ।" What word is glossed by "अदनीयानामपामिति वक्ष्यमाणत्वात्"? Wait! Could it be "अन्नम्"? But why would it say "वक्ष्यमाणत्वात्"? Because L6 says: "अदनीया नामपां परिणामकार्यं स्यात्"! Wait, "वक्ष्यमाणत्वात्" means "because it will be said later [in the Bhashya/Prakasha]"! So the text in Bhashya had a word, and the commentator says: "[It means] ..., अदनीयानामपामिति वक्ष्यमाणत्वात् ।" Wait, what was the word? Was it "अन्नम्"? Wait, could the first word on page 215 be the continuation of a word from page 214? On page

२१६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ४ अ० १० सू० २२ भाष्यप्रकाशः। अथ प्रसङ्गाद् द्वितीयस्कन्धसुबोधिन्युक्तदिशा सृष्टिप्रक्रिया निगद्यते । तत्र, 'सदेव सोम्ये- दमग्र आसीदेकमेवाद्वितीयं, तदैक्षत बहु स्यां प्रजायेय' इत्यादिजातीयेषु वाक्येषु सृष्टिप्राक्काले केवलस्य ब्रह्मण एवोक्तरूपाया इच्छायाः सृष्टिकारणत्वेन बोधनाद् ब्रह्मैव स्वेच्छया पूर्वं नाना- भवति । तत उच्चनीचनानानेकभावेन भवति । नचाग्रपदेन कालस्योक्तत्वादेवकारो नान्ययोग- व्यवच्छेदक इति वाच्यम्, विकल्पासहत्वात् । तथाहि । किमत्र कालसत्ता विधीयत उतानूद्यते, अथवा कालविशिष्टब्रह्मसत्तैव बोध्यते । तत्र नाद्यः । वाक्यभेदप्रसङ्गात् । नेतरः । एतेषां सृष्ट्यादिवृत्तान्तबोधकत्वेनैतदपेक्षयाऽ- न्येषां पुरोवादत्वस्याशक्यवचनतयाऽत्रानुवादत्वस्याशक्यवचनत्वात् । न तृतीयः । अप्रामाणिक- गौरवप्रसङ्गात् । अन्यथा एकमेवेत्यवधारणान्तरविरोधापातात् । नचावधारणान्तरस्य मुख्यान्यसत्त्वनिवारकत्वान्न विरोध इति वाच्यम् । यथा सति रश्मिः। अत्रोदासीना वयमिति भावः । वैशेष्यसूत्रं तु वैशेष्याद्विशेषभावाद्भूयस्त्वरूपाद्वाविद्विवृत्करणेन त्रिरूपेण्वेकस्मिंस्तत्र तन्मात्रादिवादो भूयस्त्वव्यवहारार्थमिति सुयुञ्जरिति । इति दशमं मांसादिश्रीममिल्यधिकरणम् ॥ १० ॥ प्रथमपादे युक्त्या श्रुतिविप्रतिषेधपरिहारः । द्वितीये पादे वेदबोधकत्वाभावेऽपि तैरपि स्वातन्त्र्येण कश्चन पुरुषार्थः सेत्स्यतीत्याशङ्कय बाह्याबाह्यमतान्येकीकृत्य निराकरोति । भ्रान्तेस्तुल्यत्वात् । ततः सम्यग्भे- दार्थविचारायैव वैदिकपदार्थानां क्रमस्वरूपविचारः पादद्वयेनेत्यारम्भे भाष्य उक्तत्वादविरोधे सतः कारणत्वम् । 'अस्रदिति चेन्न प्रतिषेधमात्रत्वात्' इत्यादौ सत एव कारणत्वोक्तेः स्मृतायाः सृष्टिप्रक्रियाया उपेक्षानर्हत्वात्प्रसङ्गात् संगतिरित्यर्थः । भगवदाज्ञयाऽस्मिन्मतेऽवस्थितिः कर्तव्येति सुबोधिन्या द्वितीय- नवमाध्यायमाहुः द्वितीयेति । अन्तिमपादद्वयेन वैदिकपदार्थानां क्रमस्वरूपयोर्विचारात्सृष्टिप्रक्रिया । अत्र 'आत्ममायामृते राजन्परस्यानुभवात्मनः । न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा' इति प्रथमश्लोके परस्य सच्चिदानन्दस्यार्थस्य देहस्य संबन्धार्थमनुभवमात्मन इति विशेषणमुक्तं तेन चिदंशो देहसं- बन्धार्थः । आनन्दांशस्तु साकार इति स साकारार्थः । अवशिष्टः सदंशः स द्वितीयपादेऽसदधिकरणे- लीलाह्येनाहुः तत्र सदेवेति । त्रिषु व्यस्तेषु समस्ते चेत्यर्थः । केवलस्येति सत इत्यर्थः । सम- स्तस्य 'यतो वाच' इति श्रुतिविषयत्वेन यथार्थतया ज्ञातत्वात् । सच्चिदानन्दस्य 'सत्यं ज्ञानमनन्तं यत् ब्रह्म ज्योतिः सनातनम्' इतिवाक्येन लोकत्वात् । व्यस्तचिदानन्दयोरुक्तदिशा कार्यान्तरा- र्थत्वात् । ननूपलक्षणं कृतम् 'सत्यं परं धीमहि' इत्यत्र 'सत्यव्रतं सत्यपरम्' इत्यत्र चेति चेन्न । समस्तपक्षाश्रयणात् । अतो देवकीवाक्यात्सदेव । 'सत्तामात्रं निर्विशेषं निरीहम्' इति देवकी- वाक्यम् । ननु श्रुतिवाक्यादानन्दः कुतो नेति चेन्न । 'देवकी ब्रह्मविद्या या या वेदेषूपगीयते' इति कृष्णोपनिषच्छ्रुतेः सकलश्रुतिवाक्यसारत्वात् । 'साकारब्रह्मवादैकस्थापकः' इत्याचार्यनाम्नः सूक्ष्मग्रन्थो मूलम् । मधुराष्टकम् । अत एवकारः । उक्तेति 'बहु स्यां प्रजायेय' इत्युक्तरूपायाः। ब्रह्मैवेति परमतः सेतून्मानेति तृतीयाध्यायसूत्राभ्यामेवकारः । तत्र ब्रह्मणः परमाग्रस्य निषेधात् । वाक्यभेदेति । ब्रह्मासीदग्रपदोक्तः काल आसीदिति । एकत्रिकं वाक्यम् । एतदिति । ब्रह्मणः प्रथमश्रुतवेदपेक्षया । अत्रेति सदेवेत्यवधारणम् । मुख्येति 'एके मुख्यान्यकेवलाः' इति कोशादेक- 1512

भाष्यप्रकाशः । समाभ्यधिकराहित्यस्य तत एव सिद्धेर्न्यूनद्वितीयसद्भावा उपगतत्वाच्चाद्वितीयपदव्याकोपस्य दुर्वारत्वापत्तेः । नच 'आत्मा वा इदमेक एवाग्र आसीन्नान्यत् किंचन मिषत्'इत्यत्रेवात्र मिष- द्द्वितीयनिषेध एवास्त्विति वाच्यम् । तदापि येनाश्रुतं श्रुतं भवतीत्यादिप्रतिज्ञाया मृत्पि- ण्डादिदृष्टान्तानामीक्षणविषयसोत्तमपुरुषस्य, सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यदित्यनुवीक्षणस्य च विरोधापत्तेर्दुर्वारत्वात् । अतस्तत्र कालोक्तिः सुषुप्त्यन्वयव्यवहारे सर्वाधारतया प्रतीयमानस्य कालस्योपरञ्जनेन शिष्यस्य पूर्वकालवृत्तान्तबोधनार्थैव । अन्यथा शिष्यस्य सृष्टिकालवर्त्तित्वात् कालसत्तामवधारयतः पूर्ववृत्तान्तबोधाभावेऽनुशासनवैयर्थ्यप्रसङ्गात् । नतु कालस्य ब्रह्मणः पृथक्सत्ता बोधनार्था । उक्तदोषप्रसङ्गात् । तस्मात् सृष्टेः पूर्वं केवलं ब्रह्मैवेति निश्चयः । तत् सर्वभवनसमर्थमतो धर्मरूपेण भवद् इच्छारूपेणापि भवति । नच निमित्तान्तराभावे सर्वदा भवतीति शङ्कनीयम् । आपादनहेतुभूतस्य कालस्याभावात् । जाते तु पुनः काले तस्यैव निया- मकत्वान्न सर्वदा भविष्यति । कालश्च श्रुताविच्छादिविशेषणत्वेनोक्त इतीच्छादिभिः सहैवा- विर्भवति सहैव च तिरोभवतीति भगवद्धर्मास्त्रैकालिकाऽबाधविषयत्वात् कालवत् सर्वेऽपि नित्याः । नच सदेव सोम्येदमग्र इत्यत्र व्युत्पादितं कालोक्तेर्बोधनार्थत्वमिह ग्रहीतुं शक्यम् । तन्नियामकस्याद्वितीयादिपदस्येहाभावात् । नापि, सर्वे निमेषा जज्ञिरे विद्युत: पुरुषादधीति रश्मिः। मेवेत्यनयोः शब्दयोर्मुख्यमेवेत्यर्थान्मुख्यादन्ये ये एतद्वाक्येतरवाक्यप्रतिपादितास्तेषां सत्ताया निवार- कत्वात् । द्वितीयेति । 'एकमेवाद्वितीयं ब्रह्म' इत्यत्र । मिषदिति व्यापारं कुर्वत् । उत्तमेति प्रजायेयेत्युत्तमपुरुषस्य । विरोधेति कालविशिष्टस्य विशेषणत्वेन नीचभावात्स्वच्छन्दायैन ग्रहणाद्विरोधाप- त्तिरीक्षणविषयसोत्तमपुरुषस्य । एवेति एवकारस्तु कालस्रष्टा सद्रूपस्य क्रियाशक्तिः सान्नाग्रपदार्थ इति पक्षव्यवच्छेदकः । अग्रपदार्थे काले सदेवान्न तु सत्यग्रपदार्थ इति सप्तमीविरोध इति । यद्वा अग्रे कालसम्बन्धे सदेवार्थः । वाच्यत्वं सप्तम्यर्थः । पूर्वेति कालो हि जगदाधार इत्याचारं विना तथा । अधिष्ठानस्य कारणत्वमिति केचित् । उक्तेति अप्रामाणिकगौरवादिदोषप्रसङ्गात् । ब्रह्मैवेति एवकारेण काल- विशिष्टेति विशेषणं व्यवच्छिद्यते । धर्मेति सत्त्वादिधर्मरूपेण वृक्षरूपेण वा वेदार्थो वृक्ष इति 'अथातो धर्मजिज्ञासा' इत्यत्रापि सः । वेदान्तदर्शितरूपं कया........चित्क्रीडया पुराणे अश्वत्थरूपं शापेन जात- मिति कथा तद्गीतायाम् 'ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्' इत्युक्तधर्मरूपेण । भवदिति इच्छा- विशिष्टमिति बोध्यम् । इच्छापि सर्वभवनसमर्थरूपमेव धर्मरूपेण भवदिति सुबोधिन्याः । अपिनेश्वरस्य- स्वरूपं सर्वभवनसमर्थरूपमेव । इच्छेति विशेषेच्छारूपेण । सर्वदेति तथा च स्थितिप्रलयभङ्ग इति भावः । आपादनेति यदि सृष्टिकालः स्यात् सर्वदा तदा सर्वदा भवेदिति वाक्यस्यापादनहेतुभूतस्य । तस्यैवेति । एवकारेण कर्मस्वभावौ व्यवच्छिद्येते इच्छा वा व्यवच्छिद्यते । सामान्यत्वात् सृष्टीच्छा नोक्ता । कारणत्वांशे गौरवात् । अन्यदाहुः कालश्चेति । श्रुताविति 'सोकामयत बहु स्यां प्रजायेये'ति' 'स तपोतप्यत स तपस्तप्त्वा इदं सर्वमसृजत यदिदं किंच' इति श्रुतौ । इच्छादीति कामः, प्रजननम्, तपः, सृष्टिश्चादिस्तच्छब्दाभ्याम् । तद्विशेषणत्वेन भूतानद्यतनकालिकः कामः इच्छा । इहकालिकं प्रजननम् । भूतानद्यतनकालिकं तपः । भूतानद्यतनकालिका सृष्टिरित्येवं विशेषणत्वेनैव । एवकारो विशेष्यसम्बन्ध- च्छेदकः । न च वैपरीत्ये एवकारो व्यर्थ इति वाच्यम् । श्रुतौ विशेषणत्वेनैवोक्तो न तु विशेष्यत्वेने- त्यर्थात् । आविर्भवतीति सहजतया नोक्ता नाविर्भवति । भगवदित्यादि सङ्ग्रहादयः । अद्वितीय्येति । २८ ब्र० सू० २० 1513

(kt) Letter 3: ार्र्थ (ārtha)? Wait, look at: "भक्तान् प्रति" vs "भक्तार्थमिति": Wait! It has: भ क्त (kta) then 'य' or 'र्थ'? Wait! Look at the letter after 'क्त': Is it 'र्थं'? There is an anusvara or repha? Wait, let's look at the letters: "तस्य भक्तेच्छया साकारत्वेन" Then: "भक्तान् प्रति साकारत्वात्" ? Wait, look at: भ (bha) क्त (kta) ा (ā) -> भक्ता न् (n with halanta?) No, it has an anusvara? Wait, look at the word: "भक्तार्थमिति साकारत्वात्" ? Wait, letter after भ: क्त then something with 'व' or 'म'? Wait, let's compare with line 32: "अचलं चारेण्य" Wait, in line 32: "भाष्ये 'अचलं चारेण्य' इति सूत्रस्य टीकाविष्करणज्ञानाविष्करणे अपि भक्तेच्छयेत्युक्तमाभासे ।" Wait, the sutra is: "अचलं चारेण्यम्" or "अचलं चारेण्ये"? Actually, the sutra in Brahma Sutra 2.4 is not "अचलं चारेण्य", wait! What

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २१९ भाष्यप्रकाशः । दानन्दरूपेण भिन्नोऽपि तयेच्छया मिलितोभिन्न इवाखण्डो भवति । तदपेक्षया कार्यरूप- स्याल्पत्वात् । तानि त्रीण्यपि रूपाणि पूर्णशब्देनोच्यन्ते । 'पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते' इति । अर्थस्तु—अदः परोक्षं ज्ञानैकघनम् अक्षरं ब्रह्म पूर्णं निरन्तरमाकाशवद् व्यापि । इदं परि- दृश्यमानं सद्रूपं क्षरं ब्रह्म पूर्णं पूर्ववत् । पूर्णात् पूर्णमवति व्याप्नोति तादृशं तदुभयव्यापकं पूर्णमुत् पूर्णानन्दं ब्रह्म अच्यते, अभ्रु गतिपूजनयोः, अच इत्येक इति धातुपाठादचधातुः पूजार्थकः, पूज्यते, पूर्वोक्ताभ्यां सच्चिद्रूपाभ्यां क्षराक्षराभ्यां सेव्यते । एवं ज्ञानादेः फलमाह । पूर्णस्यानुपदोक्तस्य पूर्णं ज्ञानादिधर्ममादाय तत्प्रसादेन प्राप्य पूर्णमेवावशिष्यते तत्सायुज्येन तदभिन्नो भवतीति । पूर्णत्वादेव सद्रूपस्य प्रत्येकपर्यवसायित्वम् । एवं धर्मरूपेण शक्तिरूपेण धर्मिरूपेण च नानाभूय पश्चात् कार्यरूपेण नाना भवतीति बहु स्यामित्यस्य कार्यम् । एवं च बृहदारण्यकोक्तं व्यावरणं तैत्तिरीयाद्युक्ताकाशादिसंभूतिश्च तत एव । प्रजायेयेत्यस्य तु जन- रश्मिः। रूपं ब्रह्मैवाकाशवत् । न तु 'तत्तु समन्वयात्' इत्यत्र निमित्तत्वस्य साकारत्वात्साकारत्वम् । भिन्नोपीति धर्मिणः । अपिनाऽभिन्नः । कार्यात्मना भेद इति महतः सङ्कर्षणोऽप्यण्डसंसक्तः सर्वभूतस्तृतीयसहितः 'कार्यकारणवस्त्वैक्यमर्पणं पटतन्तुवत्' इति सप्तमस्कन्धात्कार्यकारणवस्त्वैक्य- मर्पणे च प्रतीतसाकारतेच्छया मिलितः 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' इति गीतायाः खण्डस्थितविषयत्वान्मिलिते । 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इति बृहदारण्यकदोष- स्याप्यप्राप्तेर्गीतैकादशाध्यायोक्तसर्वव्यापकगुरौ लोकेऽप्रतिमप्रभावस्वरूपे 'तत्रैकस्थं जगत्कृत्स्नं प्रवि- भक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा' इत्यत्रैकेन शरीरेण मिलितोऽभिन्न इव भवति । 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इति श्रुतिः । भिन्नोपस्थितावभिन्न इति खण्डोपस्थिताव- खण्डो भवति । महत्स्रष्टृमात्रं तु सर्ववादानवसरं नानावादानुरोधीत्यखण्डमपि । अल्पत्वादिति । सखण्डत्वमिति शेषः । कारणाभावेन कार्यकारणवस्त्वैक्यमर्पणाभावात् । अनेन तृतीयं सर्वभूतस्थ- मुक्तम् । ज्ञानैकेति पुरुषोत्तमवज्ज्ञानमेवैकं मुख्यं त्रिषु तस्य घनं दृढं नपुंसकत्वं छान्दसं निबिडम् । 'तदश्मसारं हृदयम्' । 'आत्मैवेदमग्र आसीत्पुरुषविधः' । पूर्ववदिति निरन्तरमाका- शवद्व्यापि । तदुभयेति क्षराक्षरव्यापकम् । ज्ञानादेरिति ज्ञानं शाब्दम् । माहात्म्यज्ञानजमग्रिमञ्च । अक्षरज्ञानानन्तरं कर्म च । पूर्णमेवेति कार्यस्य कारणापत्तिर्युक्तेत्येवकारः । घटादेः कपाला- वापत्तिर्दृश्यत इति । ननु सदेव सोम्येति श्रुतिमुपक्रम्य विचारः प्रवृत्तः । श्रुतौ तु क्षराक्षर- पुरुषोत्तमा उक्ता इति प्रत्येकं सद्रूपस्य पर्यवसायित्वं कथमित्याशङ्क्य तानि त्रीण्यपीत्यादिग्रन्थ- तात्पर्यमाहुः पूर्णत्वादेवेति । एवकारेण सत्त्वं व्यवच्छिद्यते । तस्य सन्मात्रवृत्तित्वेन निरन्तराकाश- वद्व्यापित्वाभावात् । शक्तीति सर्वतः पाणिपादान्तत्वादिः शक्तिः तद्रूपेण । बहु स्यामिति ईक्षणस्य । कार्यमिति नानाभवनं कार्यं पूर्वोक्तैक्षणस्य । बृहदिति तत्रैव द्रष्टव्यम् । तैत्तिरीयेति । 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः' इत्यादितैत्तिरीयोक्ता । आदिना भागवतं ग्राह्यम् । यथा तृतीयस्कन्धपञ्चमे—'कालमायांशयोगेन' इत्यादिना । तत इति सत एव । एवकारस्तु विदा- १. केवलम् । 1515

Wait, is it 'म' followed by 'भि'? Wait, the vertical line of 'म' has an 'i' matra? No! Look at the 'i' matra: it is on 'भि'! Wait, before 'भि', there is a letter: it is 'म'! Wait, or is it 'म' + 'ि' = 'मि'? No, look at the loop: It has a loop at the bottom left, horizontal to vertical. That's 'म'. Then after it: 'भ' with 'ि' on it: 'भि'! Wait, or is it 'म' with 'ि' and then 'प'? Wait! Can it be "नीचभावमिपन्न"? No, "आपन्न" -> "अभि-पन्न"? In Sanskrit, "अभिपन्न" means "fallen into, afflicted with, having attained" (अभि + पद् + क्त = अभिपन्न, very common in classical Sanskrit: अभिपन्न = शरणागत, प्राप्त, ग्रस्त). "नीचभावम् अभिपन्नस्य" -> "नीचभावमभिपन्नस्य"! Wait, what about the anusvara? If it's a compound: नीचभावमभिपन्नस्य = नीचभावम् अभिपन्नस्य (with samasa or am-anta tatpurusha like सुखमापन्नः / नीचभावमभिपन्नः). Wait, look at line 4: Is it "नीचभावमभिपन्नस्याक्षर

भाष्यप्रकाश-रश्मि-परिवृंहितम्। २२१ भाष्यप्रकाशः। वाच्यः। अत एव सर्वसद्भूतेष्वष्टाविंशतितत्त्वेषु तत्त्वमिति व्यपदेशः। एवं यदा आनन्द उत्कृष्टो जातस्तदितरौ तं सेवमानौ जातौ। ततश्च तयोर्धर्मौ ज्ञानक्रिये भगवच्छक्तिरूपे जाते। तदा स आनन्दो ज्ञानक्रियाशक्तिमान् जातः। इत्येकरूप उच्चनीचभावः। अथापरः सदंशस्तु क्रियाङ्गैकर्गतत्वादंशेनाव्यक्ततामापद्यते प्रकृतिरूपो भवति। पश्चान्मूलभूतक्रियांशाभिः क्रिया- भिर्धर्माधर्म्यं श्रौतेन पौराणेन वा प्रकारेणाभिव्यज्यते। चिदंशस्तु ज्ञानधर्मस्यानन्दे गतत्वा- दंशेन पुरुषो जीवसमष्टिरूपो मुख्यजीवो भवति। तदा चिदंशस्य शक्तिर्माया तं व्यामोहयति। तदा तया व्यामोहितो व्याकुलः सन् सदानन्दकृतसृष्टौ य आसन्न्य- रश्मिः। इति गोपालतापनीयात्। मायापदं तु श्वेताश्वतरे

३२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० १० सू० २२

भाष्यप्रकाशः ।

रूपः सूत्रात्मा दशविधः प्राणस्तमवलम्ब्य तिष्ठति । ततो जीव इत्युच्यते प्राणधारण- प्रयत्नवत्त्वात् । बोधरूपोऽप्ययम् । आनन्दस्य धर्मस्य पृथग्भूतत्वात्स्वरूपात्मकस्य च तिरोहि- तत्वादानन्दार्थं तया व्यामोहितस्तत्संबन्धादानन्दो भविष्यतीति बुद्ध्या तया संबध्यते । आनन्दांशस्तु प्राज्ञरूपोऽन्तर्यामिसमष्टिरूपो भवति । अतः परं सतः प्रपञ्च उच्यते । तत्र क्रमो नानाविधः । मुण्डके, 'एतस्माज्जायते प्राणः' इति प्राणमनइन्द्रियाणामुत्पत्त्यनन्तरं खादि- भूतोत्पत्तिः । प्रश्ने, प्राणः प्राणाच्छ्रद्धा भूतानि इन्द्रियं मनोऽन्नमिति । बृहदारण्यके, प्राणा लोका देवा भूतानीति । ऐतरेये, लोका लोकपाला इत्यादि । महोपनिषदि तु दशेन्द्रि- याणि मनस्तेजोऽहंकारः प्राणा बुद्धिस्तन्मात्रा महाभूतानीति । तत्र तेजो महान् प्राणाः प्राण- समुदायः । तैत्तिरीयादौ चाकाशादिक्रमेण सूक्ष्माणि महान्ति च भूतानि समुत्पादयति । पञ्चतन्मात्रा भूतशब्देनोच्यन्ते । अथ पञ्चमहाभूतानि भूतशब्देनोच्यन्ते इति मैत्रायणीय- श्रुतावुभयोरपि भूतपदेन संग्रहात् । एवमन्येऽपि प्रकारा निबन्धे दर्शिताः । अतो भूतानामे- वैकविधः क्रमो, न प्राणेन्द्रियादीनाम् । आत्मनां तु व्युच्चरणं पश्चात् । कदाचिद्देहविशिष्टा

रश्मिः ।

प्रसिद्धः । नतु प्राणो वायुः सूत्रं बहिः कार्पासम् । अन्तस्तु को वेद । ईश्वरस्तु वेति । 'अन्तःसूत्रं धृतं येन'इति श्रुतेः । परंतु बहिःसाम्याद्द्रव्यान्तरम् 'प्रजापतेर्यत्सहजं पुरस्तात्' इति श्रुतेरिति चेन्न । ऊर्णनाभदृष्टान्तस्य द्वितीयस्कन्धनवमाध्याये उक्तत्वादतदनुरोधेन प्राणेषु समानस्य नाभिनालेन सूत्र- मात्मनि यस्य तादृशः संग्रहात् । सुबोधिन्यां तु सूत्रात्मक इति क उक्तः । नाभिकमलदण्डे सूत्राणि प्रजापतौ चेति कारणे तदावश्यकत्वात् । मूलस्य समानवायुत्वेनान्तःसूत्रस्य वायुत्वेन द्रव्यान्तरत्वा- भावात् । एकरसत्वात् । किंचान्तर्यामिब्राह्मणे 'वायुर्वै गौतम तत्सूत्रम्'इति श्रुतेः सूत्रात्मा प्राणः । तमवेति । जीव प्राणधारण इति धातुपाठात् । शुद्धबुद्धमुक्तस्वभावः 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः' 'विज्ञानघनः' इत्यादीनां श्रुतीनामयमेव विषय इत्याहुः बोधेति 'शब्द इति चेन्नातः प्रभवात्' इति सूत्रे चितः सृष्टिः । त्रिषु सदादिषु प्रकटेन व्यवहारः । अतः सदानन्दसृष्टिविरोधो न । अपि- शब्देनोपक्रान्तसद्रूपः । अयमिति समष्टिरूपः । निर्धर्मकत्वान्निराकारत्वमाहुः आनन्दस्येति । सच्चिदानन्दसृष्टित्वादानन्दधर्मत्वम् । स्वरूपेति । तत एव । आनन्दांशस्तु पूर्वमेव तिरोहितो येन जीवभाव इत्युक्तेस्तिरोहितत्वम् । आनन्दार्थमिति विषयानन्दार्थम् । ननु मायसंबन्धस्य भावित्वा- त्पूर्वं कुतस्तया व्यामोहित इति चेन्न ।'तयेत्यनेन तदपाश्रया माया भूतपूर्वा गृह्यत इति कार्यकारणत्व- संबन्धात् मायासंबन्धाद्विषयानन्दः भगवदानन्दो यद्यपि तथापि व्यामोहो विषयानन्दप्रवृत्तौ हेतुः । संबध्यत इति 'यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् । परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ।' इति वाक्यात् । एवं कार्यरूपास्त्रयोऽंशा ज्ञेयाः । आनन्दस्य स्वरूपलक्षण- घटकत्वात्तद्विशेषणरूपमाहुः आनन्दांशस्त्विति । सर्वोत्कृष्टानन्दस्य विशेषः सुषुप्तिसाक्षी प्राज्ञस्तद्रू- पोन्तर्यामिणोऽन्तर्यामिब्राह्मणप्रसिद्धानां पृथिव्याद्यन्तराणां समष्टिरूपो भवति । पदेनेति भूतपदेन । अन्येऽपीति 'कदाचिद्गुणरन्ध्रा'इति निबन्धात् । 'यथाग्नेः क्षुद्रा' इति श्रुतेराहुः आत्मनामिति ।

1518

भाष्यप्रकाशः । एवेन्द्रियाधिष्ठातारः, कदाचिदिन्द्रियानन्तरमित्येवं कारणसृष्टिक्रिया दर्शिता । विशिष्य तु द्वितीयस्कन्धसुबोधिनीतत्प्रकाशान्मत्कृतादवगन्तव्या ॥ २२ ॥ इति दशमं मांसादिभौममित्यधिकरणम् ॥ १० ॥ इति श्रीमद्वल्लभाचार्यचरणनखचन्द्रनिरस्तहृदयध्वान्तस्य श्रीपीताम्बरात्मजस्य पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे द्वितीयाध्यायस्य चतुर्थः पादः ॥ २ ॥ ४ ॥ समाप्तोऽयं द्वितीयोध्यायः ॥ २ ॥ रश्मिः । मुण्डक आत्मनोवतारा इति माध्वाः । इन्द्रियानन्तरमिति 'सर्वतः पाणिपादान्तं सर्वतो- ऽक्षिशिरोमुखम्' इति श्रुत्युक्तेन्द्रियानन्तरं देहविशिष्टा इत्यर्थः ॥ २२ ॥ इति मांसादिभौममित्यधिकरणम् ॥ १० ॥ इति श्रीविठ्ठलेश्वरैश्वर्यनिरस्तसमस्तान्तरायेण श्रीगोविन्दरायपौत्रेण संपूर्णवेद्या विट्ठलरायभ्रात्रीयेण गोकुलोत्सवात्मजगोपेश्वरेण कृते भाष्यप्रकाशरश्मौ द्वितीयाध्यायस्य चतुर्थः पादः संपूर्णतामगमत् ॥ २ ॥ ४ ॥ एतावतो ग्रन्थस्य श्लोकानां संख्या १४५२५ सार्धचतुर्दशसहस्रपञ्चविंशतिः ईति ॥

श्रीमद्ब्रह्मसूत्राणुभाष्यम् श्रीमद्वल्लभाचार्यचरणप्रणीतम् AṆUBHĀṢYA ON THE BRAHMASŪTRA WITH THE COMMENTARY BHĀṢYAPRAKĀŚA AND THE SUPER- COMMENTARY RAŚMI ON THE BHĀṢYAPRAKĀŚA VOLUME 3 ADHYAYA 3 EDITED WITH INTRODUCTION BY MULCHANDRA TULSIDAS TELIWALA WITH A NEW INTRODUCTION BY GOSWAMI SRI SHYAM MANOHARJI MAHARAJ

Ācārya Śrī Vallabha, the founder of the Śuddhādvaita school of Vedānta tradition is said to be of a divine origin imbued with spiritual insight. His philosophy is called pure-non-dualism undefiled by Māyā. He was born in Vikram Saṁvat 1535 (1479 A.D.), to Śrī Lakṣmaṇa Bhaṭṭa, a Telugu Brahmin and Illammāgāru, a family which had learning towards Vedic rituals and the worship of Gopālakṛṣṇa. He travelled extensively to the religious places such as Vijyanagar, Kāśī and Aḍail (near Prayāga). At these places, he developed his literary and religious activities. His firm faith in lord Kṛṣṇa's commandment led him to devote to the task of a faithful interpretation of the sacred texts like the Upaniṣad, Gītā and Brahmasūtra. He found that the essential reality is Śuddha (pure) unalloyed with māyā, and non-dualism (Advaya). He advocated the Puṣṭi (divine grace), as the most powerful and unfailing method for attaining Supreme Bliss. His Siddhānta is known as Śuddhādvaita-Brahmavāda-Nirguṇa-Puṣṭibhakti Mārga. Ācārya Vallabha has written a commentary on the Brahmasūtra, known as Aṇubhāṣya which is available only in the summary form upto III.2.33, the remaining part was supplemented by his second son Śrī Viṭṭhalanātha. Ācārya differs from the earlier Ācāryas viz. Śaṁkara, Rāmānuja, Madhva, and Nimbārka with regard to the interpretation of the nature of Reality. According to Vallabha, Reality is Brahman which is Sat (existence), Cit (conscious), Ānanda (bliss) Continued on back flap ISBN 81-88643-10-6 (Vol.3) ISBN 81-88643-07-6 (Set) Rs. 3700 (Set of 4 Vols.)

continued from front flap which is denominated as Rasa (sentiment). He is Pūrṇa Puruṣottama. Among his divine chara- cteristics Jñāna and Kriyā are important. He is Kartā (doer) and Bhoktā (enjoyer). For Līlā, He creates the universe out of Himself. Vallabha propagates the path of Puṣṭi Bhakti (Divine grace) in order to enjoy the union with the Supreme. The Puṣṭi can be realised as in the case of gopī's of Vṛndāvan who, in fact, opened the gateway to realize everything with lord Kṛṣṇa. He is for Svarūpānanda, instead of Brahmānanda. Lord is full of Rasa in which love is most important. This brings enjoyment of the Bliss of the Union with Divine. The present commentaries on Aṇubhāṣya known as Prakāśa written by Śrī Puruṣottama Caraṇa, a descendent of Śrī Vallabhācārya and another on the same known as Raśmi by Śrī Yogi Gopeśvara, of the same lineage, provide excellent and appropriate interpretation of the tradition. In fact, Aṇubhāṣya of Vallabhācārya with these two commentaries given by Śrī Puruṣottam- acaraṇa and Gopeśvarajī is the most authentic text for providing illuminating interpretation of the Brahmasūtra. This edition was originally printed by Nirnaysagar Press, Bombay, an institution known for publishing and printing the authentic editions. This work was published some eighty years ago, now printed again with a new Introduction by one of the greatest scholars of modern times in the tradition.