अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1618, कुल 2600 में से
संदर्भ में पढ़ें२१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० १० सू० २१ तत्र पूर्वपक्षमाह । मांसादि भौमं, पुरीषमांसादि तेजोऽब्बन्नप्रकृतिकम् । कुतः । यथाशब्दम् । अन्नमशितमित्यादिश्रुतितो निःसंदिग्धं प्रतिपादनात् । किमतो यद्येवं तदाह इतरयोश्च । वाचि तुल्यत्वान्न संदेहः । इतरयोर्मनः- प्राणयोरपि भौतिकत्वं यथाशब्दम् । उद्गमश्रुतिस्तु स्तुतित्वेनानुवादपरा भविष्यति । उपपादकश्रुतिबाधात् । तस्माद् भौतिकान्येव मनःप्रभृतीनीत्येवं प्राप्ते ॥ २१ ॥ उच्यते- भाष्यप्रकाशः । विप्रतिषेधजनितामाशङ्कां त्रिवृत्करणप्रसङ्गेनेदानीं निराचष्ट इत्यर्थः । तत्रेति सूत्रे । ननु सूत्रे तद्बोधकपदाभावात् कथमस्यैतद्विषयत्वमित्याकाङ्क्षायां मांसादीत्यादिपदेन तत्संग्रहादेतस्य विषयत्वाव