अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1619, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २१३ वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥ अन्नादिभिर्विशेष्यते मनःप्रभृति सम्यक् कार्यक्षमं भवति । तथा दर्शनानुपादानाच्च । अतो वैशेष्यादेव हेतोरन्नमयत्वादिवादः । ननु कथमेतदवगम्यते । वैशेष्याद् गौणो वाद इत्युच्यते । अथास्मन्नेऽजाय- भाष्यप्रकाशः। वक्तुम् । अतः स्तुतित्वेनेतरदनुवादपरा भविष्यति । एतदनुवादेनात्र ब्रह्मणः प्रयोजकत्वबोधनेऽ- प्युपपत्तेः नच श्रुतित्वाविशेषे कथं तस्या एवान्यथानयनमिति शङ्क्यम् । उपपादकस्य त्रेधा विधानस्य या श्रुतिस्तस्या बाधात् । ऐतरेयोक्तानादरेऽपीदमेव बीजम् । शेषं स्फुटम् ॥ २१ ॥ वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥ सिद्धान्तसूत्रं व्याकुर्वन्ति अन्नादिभि- रित्यादि । यादृशमन्नमश्नाति तादृगेवाशितुर्मनो भवतीति दर्शनं तथादर्शनं, पञ्चदशाहानि माशीरित्यारम्य, साऽन्नेनोपसमाहिता प्राज्वालीदित्यन्तेन पोषणादेव कार्यक्षमत्वोपपादनमुप- पादनम्, ताभ्यां तथेति, वाक्प्राणस्थल उपपादनाभावेऽपि समानन्यायात् तेजोमयत्वापोमयत्व- वादो बोध्यः । अतो विशेषणं विशेषस्तस्य भावो वैशेष्यं तस्मादेव तथेत्यर्थः । अनुपपादितस्थले शङ्कते नन्वित्यादि । समादधते अथेत्यादि । श्रुतिस्तुतृतीयब्राह्मणस्था । अथास्मन्नेऽजाय- रश्मिः। विवरीतुमाहुः न चेत्यादि । नेति । किं तु साक्षाद्ब्रह्मत्वम् । सेति 'एतस्माज्जायते प्राणः' इति श्रुतिः । अक्षरादिति द्वितीयमुण्डके 'अक्षरात्परतः परः' इति तत्पूर्वश्रुतेरक्षरात्परं द्योतयेत् । तदन्विति । एतस्मादिति पदेन पूर्वश्रुत्यनुवादपरा । ननु तथापि मनसो भौतिकत्वं कथमिति चेत्तत्राहुः एतदिति । अक्षरात्परतः परस्यैतस्मात्पदेनानुवादेनात्र श्रुतौ । एतस्मादिति पञ्चम्याः प्रयोजकत्वार्थपरत्वेऽपि श्रुतिविरहात् ब्रह्मणः प्रयोजकत्वबोधनेऽप्युपपत्तेर्न भौतिकत्वमित्युक्तभौतिकत्वाभावो न । छान्दोग्ये सदेवेत्यत्र सतस्तेजस्तेजस आपः अद्भ्योऽन्नमित्यन्नमयं मनोऽन्नमयमिति भौममिति । उपपादकेति भाष्यं विवरीतुमाहुः न चेति । तस्या एव मुण्डकश्श्रुतेरेव । एवकारस्त्रेधाविधायकश्रुतिव्यव- च्छेदकः । उपपादकापेक्षयानुपपादकमुण्डकवाक्यमुक्त इति भावः । इदमेवेति त्रेधाऽविधानमेव । अनुपपादकत्वं वा । बीजं कारणम् ॥ २१ ॥ वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥ तथादर्शनादित्यादिभाष्यं विवृण्वन्ति स्म यादृगित्यादि । माशीरिति माऽशनं कार्षीः । साऽन्नेनेति साऽवशिष्टा कलाऽन्नेन मनोरूपेणोप- समाहिता दीप्तेत्यर्थः । पोषेति । एवकारः प्रत्यक्षसंवादात् । कार्येति छान्दोग्ये कार्यक्षमत्वं वेदानुभवक्षमत्वं तस्योपपादनम् । तथेति अन्नादिभिर्मनःप्रभृतिर्विशेष्यत इत्यर्थः । 'अन्नमयम् हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागि'त्यादयो मनःप्रभृतयश्च । उपपादनेति 'एका हि सोम्य ते षोडशानां कलानामेका कलातिशिष्टाऽभूत् साऽन्नेनोपसमाहिता प्राज्वालीत्येतद्धि वेदानुभव- सक्षममयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञावि'ति श्रुतौ प्रत्यक्ष उपपादनाभावेऽपीत्यर्थः । तेज इत्यादि । अम्मयत्वेति वक्तव्ये आपोमयत्वेति श्रुत्यनुवादकं पदम् । अत इत्यादि भाष्यं विवृण्वन्ति स्म अत इत्यादिना । एवकारः समानं व्यवच्छिनत्ति । न समानादित्यर्थः । अनुपपेति वाक्प्राणस्थले । मनस्तूपपादितम् 'एका हि सोम्य' इत्याद्युक्तश्रुतौ । 1509