अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1620, कुल 2600 में से
संदर्भ में पढ़ें२१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ४ अ० १० सू० २२ मागायदित्यत्र प्राण एव सर्वस्यान्नस्यात्ता निर्दिष्टः । स कथं तत्परिणामकार्यं स्यात् । वागादयश्च तत्तन्नान्नार्थमनुप्रविष्टाः । सृष्टौ प्रथमतॊ भिन्नतया निर्देशात् । अतो न भौतिकानि मनःप्रभृतीनि, किंतु तत्त्वान्तराणीति सिद्धम् । तद्वाद इति वीप्सा अध्यायसमाप्तिसूचिका ॥ २२ ॥ इति द्वितीयाध्याये चतुर्थपादे दशमं मांसादिभौममित्यधिकरणम् ॥ १० ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये द्वितीयाध्यायस्य चतुर्थः पादः ॥ २ ॥ ४ ॥ भाष्यप्रकाशः । मागायद्यत्किञ्चाश्नमद्यतेऽनेनैव तदद्यते इह प्रतितिष्ठतीति । अर्थस्तु यथा वागादिभिरात्मार्थमागानं कृतं तथा मुख्यः प्राणोऽपि त्रिषु पवमानेषु देवार्थं गानं कृत्वा, अथानन्तरमवशिष्टेषु नवसु [L12