अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1614, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the Sanskrit text from the image into clean Markdown in Unicode Devanagari:
३०८ श्रीब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ४ अ० ८ सू० २० भेदश्रुतेः ॥ १८ ॥ यद्यपि प्राणशब्दप्रयोगस्तत्रापि भेदेन श्रूयते । तमुत्क्रामन्तं प्राणोऽनू- त्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तीति ॥ १८ ॥ वैलक्षण्याच्च ॥ १९ ॥ वैलक्षण्यं च प्राणस्य चेन्द्रियाणां च । सुप्तेषु वागादिषु प्राणो जागर्ति । स्वामिसेवकवच्चानेकं वैलक्षण्यम् ॥ १९ ॥ इति द्वितीयाध्याये चतुर्थपादे अष्टमं तदिन्द्रियाधिकरणम् ॥ ८ ॥ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥ ( २-४-९ ) भूतभौतिकसृष्टिः परमेश्वरादेवेति निर्णीय नामरूपव्याकरणमपि परमेश्वरा- देवेति निश्चयार्थमधिकरणारम्भः । लोके नामरूपकरणं कुलालादिजीवेषु प्रसिद्ध-