अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1606, कुल 2600 में से
संदर्भ में पढ़ेंयहाँ दिए गए पृष्ठ का शुद्ध देवनागरी पाठ (लाइन-दर-लाइन) प्रस्तुत है:
२०० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ४ अ० ७ सू० १६ भाष्यप्रकाशः । पक्षः किंचिज्ज्ञत्वार्थमालम्ब्यते । तदाप्यावरणस्य वृत्त्युपरागतिरोभाव्यत्वाज्जाते वृत्त्युपरागे तेनावरणभङ्गे सर्वान्तःकरणसंसृष्टो जीवस्तत्तद्विषयेष्वभिव्यक्तस्तं तं विषयं प्रकाशयेदेवेति न किंचिज्ज्ञत्वोपपत्तिः । एवं च चैतन्यमात्रावरकाज्ञानस्य खद्योतप्रकाशेन महान्धकारस्येव ज्ञाने- नैकदेशाज्ञाननाशो वा, पटवत् संवेष्टनं वा, शीतभटवदपसरणं वा, चैतन्यमात्रावरकस्याप्य- ज्ञानस्य तत्तदाकारवृत्तिसंसृष्टावस्थविषयचैतन्यानावरकत्वस्वाभाव्यं वा, मूलाज्ञानावस्थाभेदरूपा- ज्ञानान्तरनाशो वा, अन्यो वा यः कश्चनावरणभङ्गो निरूप्यतां स सर्वोऽपि वृत्त्युपरागजन्य एवेति जाते वृत्त्युपरागे पूर्वोक्तरीत्या सकलान्तःकरणसंसृष्टस्य जीवस्य सर्वज्ञतैवायातीति नैतेऽपि रोचिष्णवः पक्षाः । नन्वेकस्मिन्नपि जीवे जन्मान्तरमापन्ने पूर्वजन्मSubjectानुसंधानादर्शनाच्छरीरभेदस्य सुखाद्यनु- संधानप्रयोजकत्वं कृतमिति स एव किंचिज्ज्ञताया अपि प्रयोजको भवतु । तथाच व्यापक- स्यापि जीवस्य शरीरान्तरे शरीरान्तरीयान्तःकरणवृत्त्यादिभिर्ज्ञानं न भविष्यतीति न सर्वेषां सार्वज्ञ्यापत्तिरिति चेन्न । शरीरभेदस्यानुसंधानप्रयोजकताया योगिकायव्यूहे जातिकरे भूतादौ च व्यभिचारेण तस्य किंचिज्ज्ञतायामप्रयोजकत्वात् । एतेनैव भोगायतनभेदस्य विशिष्टोपाधि- भेदस्य चाननुसंधानप्रयोजकत्वं परास्तं बोध्यम् । 'उद्यदायुधदोर्दण्डाः पतितस्वशिरोऽक्षिभिः । पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन् युधि' ।। इति भारते भूतार्थवादाच्च । नच योगिप्रभृतिषु प्रभावविशेषेणानुसंधानेऽपि रश्मिः । वाक्यादेवकारः । तमिति विषयविशेषम् । दृष्टत्वादेवकारः । जात इति निर्विषयकज्ञानस्या- भावाद्यावद्विषयविशेषे जाते वृत्तिसंबन्धे । एवकारो विषयप्रकाशस्य दृष्टत्वात् । ननूक्तं विषयविशेषे वृत्त्युपरागात्तावदावरणतिरोधानमिति चेन्मास्तु नानाजीवपक्षे सर्वज्ञतैकजीवपक्षे तु स्यादित्याहुः एवं चेत्यादि । कार्त्स्न्ये मात्रच् । पटवदिति ज्ञानेनेत्येव । चैतन्यमात्रावरकाज्ञानस्येत्यपि। अग्रेप्येवम्। अपीति एकदेशज्ञानान्यपिना गृह्यन्ते । तत्तदिति तत्तद्घटपटाद्याकारा या वृत्तिस्तया संसृष्टा अवस्था यस्य विषयस्यावच्छिन्नचैतन्यस्य । अनावरकत्वं स्वभावो यस्य तादृशत्वम् । मूलेति मूलं यदज्ञानं तमोरूपं तस्य ये अवस्थाभेदा अवस्थाप्रकारास्तद्रूपाण्यज्ञानान्तराणि तेषां नाश इत्यर्थः । अन्य इति । अनिर्वचनीयाविद्याजन्यत्वेन यथादृष्टं नाशो वेत्यावरणभङ्गः । पूर्वोक्तेति । तदापीत्यादि- नोक्ताऽव्यवहितपूर्वोक्तरीत्या । सकलानि अन्तःकरणानि तैः संसृष्टस्य जीवस्य एकत्वं विवक्षितम् । अन्तःकरणेति । आदिना वृत्तिविषयसंयोगः फलचैतन्यं च । जा(ग)तिस्मर इति तत्त्वेदं कर्मणः फलमिति फलस्मरणं तस्मिन् । व्यभिचारेणेति । जीवः पूर्वजन्मीनसुखाद्यननुसंधानवान् शरीरभे- दात् देवदत्तवदित्यनुमाने । साध्याभाववति योगिकायव्यूहे जा(ग)तिस्मरे मृतादौ च शरीरभेदरूपहेतु- सत्त्वाव्यभिचारः । किंचिदिति । जीवः किंचिज्ज्ञः शरीरभेदात् । देवदत्तवदिति । जीवः न किंचिज्ज्ञः शरीरभेदात् । कायव्यूहवत् । गतिस्मरमृतादिवच्चेत्यनुमानाभ्यां तस्य शरीरभेदरूपहेतोः अतन्त्रत्वा- द्विरुद्धत्वात् । एतेनेति अतन्त्रत्वेन । एवकारोऽन्यहेतुयोगव्यवच्छेदकः । भोगायतनति भोगा- यतनं शरीरमुक्तं तथापि तद्भोगायतनं साधारणम् । इदं तु भोगायतनं पृथगुपात्तम् । तस्य यो भेदस्तस्य । विशिष्टा उपाधयोन्तःकरणरूपास्तेषां भेदस्य । परास्तमिति योगिकायव्यूहादौ साधार- ण्यात्परास्तम् । पश्यन्त इति यथा पक्षीपुच्छस्य छिन्नस्य क्रियावत्त्वं तथादृष्टत्वम् । भूतेति पूर्वजातमर्थं प्रकाशयति यः स भूतार्थवादः यथेन्द्रो वृत्राय वज्रमुदयच्छदिति । योगीति । प्रभृति- 1496