भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1605, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1605

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १९९ भाष्यप्रकाशः। करणे प्रतिबिम्बितानां प्रकाशोऽस्य स्यादेवेत्यधिकं तत्रानुभावितम् । वस्तुतस्त्वेवमपि गोत्वस्य सकलगोव्यक्तिष्विवैकस्यैव जीवस्य सर्वान्तःकरणसंसर्गस्य वक्तव्यत्वात् तथा सति तत्तदन्तःकरणवृत्तिनिर्गमेण तत्तद्विषयप्राप्तौ तत्तद्वृत्त्युपारूढस्य जीवस्यापि तत्तद्विषयोपराग- संभवात् सर्ववृत्तिसंसृष्टविषयाणां गोचरीकरणे बाधकाभावेन किंचिज्ज्ञत्वस्यानुपपन्नत्वमेव । अतो विषयविषयिभावो वा, विषयसंनिहितजीवचैतन्यतादात्म्यापन्नवृत्तिविषयसंयोगद्वारको जीवविषययोः परम्परासंबन्धो वा, अन्तःकरणद्रव्योपादानस्य जीवस्य वृत्तिविषयसंयोगजनितः कार्याकार्यसंयोगात् कारणाकारणसंयोगात्मा साक्षात्संबन्धो वा, अन्तःकरणोपहितस्य विषया- वभासकचैतन्यस्य विषयतादात्म