भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1607, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1607

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २०१

भाष्यप्रकाशः । पूर्वोक्तोपाधीनामुत्सर्गस्तथात्वाभावानुसंधानप्रयोजकत्वहानिरिति वाच्यम् । बहुषु व्यभिचार- दर्शनात् । एकत्र तथादर्शने ह्यौत्सर्गिकानुसंधानतद्वत्त्वाद् विघातः प्रभावविशेषसमवधानवशात् कल्पयितुं शक्यते, न तु बहुषु तथादर्शने । अतो मनुष्यविशेषेषु भूतेषु मनुष्याद्युत्कृष्टयोनिषु सर्वेषु च पूर्वजन्मीनज्ञानस्य तत्र तत्रोक्तेः शास्त्रस्य प्रामाण्याच्च, न पूर्वोक्तोपाधीनामनुसंधान- तद्वत्त्वं साधीयः । नाप्यन्तःकरणभेदस्य तथात्वम् । दृष्टिसृष्टिवादे पूर्वपूर्वस्वान्तःकरणस्य नष्टत्वेनाग्रिमाग्रिमस्य तस्य भिन्नत्वात् पूर्वदृष्टानुसंधानाभावप्रसङ्गात् । सांख्यैक्येन तत्समर्थने तु अन्तःकरणभेदस्याप्रयोजकत्वात् तत्तदन्तःकरणैरस्य सर्वज्ञताया एवापत्तिः । अन्तःकरण- वैजात्येन समर्थनं तु मज्ज