भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 161, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 161

७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ नत्वर्थवादानां धर्म इव ब्रह्मण्युपयोगः कर्तुं शक्यः । उत्पत्तिप्रकारफल- भाष्यप्रकाशः । कोपयोग इत्यत आहुः नचेत्यादि । स्यात् स्वार्थे अप्रामाण्यं, यदि कर्मणीव ब्रह्मण्युपयुज्येरन् । कर्मणि हि त्रेधा तेषामुपयोगः । यथा, असावादित्यो न व्यरोचतेत्यादीनां सौर्याद्युत्पत्तौ । रश्मिः । तादृशानुव्यवसायाकारात् । परत्र शब्दोऽर्थश्च न्यग्भूतो भासते, पूर्वत्र तु ज्ञानं न्यग्भूतमिति विशेषः । न च अनेदम्कीयज्ञानस्य शब्दवैशिष्ट्यमिति शङ्क्यम् । अभिनयस्यैव तत्र शब्दस्थानापन्नतत्वेन शब्दविशेषमनुसंधायैव बोधकेनाभिनयदर्शनात्परंपरया तस्यापि शब्दवैशिष्ट्यात् । इदं पञ्चमम् । प्रमातरि तु अन्तःकरणेन्द्रियाश्रयणात्पञ्चधा तत्रेन्द्रियेष्वेकधा, अन्तःकरणे चतुर्धा । मनसा जायमानं संशय इति व्यवह्रियते । संकल्पविकल्पात्मकत्वात्तस्य । अत एव शङ्कापिशाच्या उत्तरोत्तरं भिन्नभिन्नविरुद्धकोटिविधायिन्या अनिवृत्तिः । कथं तर्हि आत्मानं गृह्णाति इति चेन्नैरात्म्यनिवृत्तौ प्रमास्त्येति । अहंकारेण कृता शरीराभिमतिस्तु बुद्ध्याश्रया । विपर्यासनिश्चयस्मृतीनां बुद्धिवृत्तित्वा- द्बुद्ध्याश्रयत्वम् । यदा तु शरीराभिमतिर्मोक्षशास्त्रीयसाधनैर्नाशमेति तदा तन्मूलास्तेऽपि नश्यन्ति । ज्योतिर्ब्राह्मणे आत्मज्योतिष्टमुपक्रम्य स समानः सन् इति अहंकारसामानत्वेन सधियः स्वात्मक- बुद्ध्ववभासकतया स्वात्मकत्वादहंकारो बुद्ध्या सहितः स्वापं पश्यतीति स्वप्नज्ञानमहंकाराश्रयम् । चित्तं तु सुषुप्तावात्मानं पश्यत्यैक्येन अन्यदा तु लीनमिति निर्विषयं ज्ञानं चित्ताश्रयमेवं दशधा । तदिदं षड्विधं जन्यमन्तःकरणधर्मः 'कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्हीर्धीर्भी- रित्येतत्सर्वं मन एव' इति श्रुतेः । स्थिरं च घटादिवत् न च त्रिक्षणावस्थायित्वम् । 'प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते,' 'स्थिरबुद्धिरसंमूढः,' 'ज्ञानं यथा न नश्येत' इत्यादिवाक्येभ्यः । न चैकज्ञानं सार्वदिकं स्यादिति शङ्क्यं, विषयान्तरज्ञानसामग्र्या जातेन ज्ञानेन तद्बाधात् । नचैव- मस्थिरत्वं शङ्क्यं, संस्काराख्यसूक्ष्मरूपेणावस्थानोपगमात् । न चैवमनुव्यवसायापत्तिस्तस्येति वाच्यम् । व्यासङ्गापि गन्धस्य घ्राणेन ग्रह एव स्फुरणवन्मनसा तस्य ग्रहण एव स्फुरणात् । न च गन्ध- स्यागन्तुकत्वेन दृष्टान्तासाम्यमिति वाच्यं, रजसा व्यापारान्तरावेशेनोपपत्तेः । तमसा तदावरणाच्च तथा । न चैवं स्मृत्यजनकस्याप्यनुभवस्य स्थिरत्वापत्तिः । इन्द्रियैर्बुद्धिजनननोत्तरं पौनःपुन्याभाववेन अदार्थात्, ज्ञानस्य तु लोकशास्त्राहितात्सिद्धिः । न चाधिष्ठानानिर्वान्च्यता प्रयुक्ता तत्स्थित्यशक्य- वचनेति वाच्यम् । अन्तःकरणाधिष्ठानकत्वात् । अनिर्वचनीयत्वस्य निरस्तत्वात् । विरुद्धवृत्ति- तिरोभाव्यत्वाङ्गीकारान्न तन्नाशानुषपत्तिरिति प्रासङ्गिकं ज्ञेयम् । प्रकृते । विधिमन्त्रादीति । आदिना ब्राह्मणम् । यथाऽसावित्यादि । न व्यरोच्यत मेघाद्याच्छन्नोसावादित्यो न विगतदीप्तिमान्जात इति 'सौर्यं चरुं ब्रह्मवर्चसकामो निर्वपेत्' इति सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः इत्यस्योत्पत्तौ सौर्य- प्रथमङ्गस्यैव तजनकवाक्योपयोग इत्यर्थः । इदं पूर्वतन्त्रे सप्तमस्य चतुर्थे पादे 'इतिकर्तव्यता- विधेर्यजतेः पूर्ववत्त्वम्' इत्यधिकरणे चिन्तितम् । यदि च 'असौ आदित्यो न विशेषेण दीप्तिमान्जातः' इति पक्षोपि विभाव्यते, तदापि स एवार्थः । चरुस्तु दशमे 'चरुर्हविर्विकारः स्याद्विज्यासंयोगात्' इत्यधिकरणे ओदनविशेषो न तु स्थाली, 'सौर्यम्' इति देवतासंयोगादिति चिन्तितम् । यद्योक्षा स्थाली षदरिति पर्यायतावाचकं निघण्टुवचनं तदपि 'हव्यपाके चरुः पुमान्' इति निघण्टुन्तराद्- 74